किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 424, कुल 707 में से
संदर्भ में पढ़ें| १६६ | किरातार्जुनीयम् |
|---|
मल्लि०—संविधातुमिति ॥ यामिनी वनितेव तया रात्रिरूपया कान्तस्य मन्मथस्याभिषेकं त्रिभुवनजैत्रयात्राभिषेकं संविधातुं सम्यक्कर्तुम् । अंशवो जलाभोषास्तेषामोधः पूरो लसन् यस्मिंस्तः । तत्तचिह्नः स्फुटलाञ्छन इन्दुः सोत्पलो रजतकुम्भ इव । उदास उत्क्षिप्तः । अस्यतेः कर्मणि लिट् । अत्र संविधातुमिति तुमुना प्रतीयमानोत्प्रेक्षानुप्राणितोऽयमुपमोत्प्रेक्षयोः संकरः ।
हिन्दी—रात्रिरूप स्त्रीके समान रात्रिने कामदेवका अभिषेक करनेके लिए जलके समान किरणोंसे शोभित हुए समूहवाले, स्पष्ट लञ्छनवाले चन्द्रमाको नीलोत्पलसे युक्त चाँदीके घड़ेके समान उठा लिया ॥ ३२ ॥
ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः ।
यद्विभुः शशिमयूखसखः सन्नाददे विजयि चापमनङ्गः ॥ ३३ ॥
मल्लि०—ओजसेति ॥ ओजसा । अनूनं संपूर्णमपि । असहायं सहायरहितम् । पुरुषमिति शेषः । जयश्रीर्नोपयाति खलु नूनम् । कुतः । यत् यस्मात् । विभुः समर्थोऽप्यनङ्गः शशिमयूखानां सखा सहचरस्तथोक्तः । ससहायः सन्नित्यर्थः । विजयि विजयशीलम् । ‘जिदृक्षि--’ इत्यादिनेनिप्रत्यः । चापमाददे । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ।
हिन्दी—तेजसे पूर्ण होने पर भी सहायरहित (पुरुष) के पास विजयलक्ष्मी नहीं जाती यह निश्चित है । क्योंकि समर्थ होकर भी कामदेवने चन्द्रकिरणोंका मित्र होकर ही विजयशील धनुको ले लिया ॥ ३३ ॥
सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दूत्यम् ।
सन्निकृष्टरतिभिः सुरदारैर्भूषितैरपि विभूषणमीषे ॥ ३४ ॥
मल्लि०—सद्मनामित्यादि ॥ संनिकृष्टरतिभिरासन्नसुरतोत्सवैरत एव सुरदारैः सुरवधूभिः । आहितशोभैः प्रागेव विहितकेलिगृहमण्डनैरपि पुनः सद्मनां केलिगृहाणां विरचना मण्डनम् । ईषेऽभिलेषे । इषेः कर्मणि लिट् । आगतप्रियकथैः प्राप्तप्रियजनवृत्तान्तैरपि दूतस्य कर्म दूत्यं दूतोव्यापार ईषे । दूतस्य भावकर्मणोर्यत् प्रत्ययः । तथा भूषितैरपि विभूषणं प्रसाधनम् । ईषे । औत्सुक्यातिरेकादिति भावः।
हिन्दी—निकट सुरतक्रीडावाली सुरसुन्दरीयों ने पहले ही क्रीडागृहको सजाने पर भी फिर क्रीडागृहोंकी रचना करनेका अभिलाष किया । प्रियजनका वृत्तान्त सुनकर भी दूतीको भेजनेकी इच्छा की, तथा भूषित होकर भी भूषण करनेका अभिलाष किया ॥ ३४ ॥