भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 425, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 425

नवमः सर्गः १६७

न स्रजो रुरुचिरे रमणीभ्यश्चन्दनानि विरहे मदिरा वा ।
साधनेषु हि रतेरुपधत्ते रम्यतां प्रियसमागम एव ॥ ३५ ॥

**मल्लि०—**नेति ॥ विरहे वियोगावस्थायां स्रजो माल्यानि चन्दनानि गन्धा मदिरा मद्यानि वा रमणीभ्यः । ‘रुच्यर्थानां प्रीयमाणः’ इति संप्रदानत्वाच्चतुर्थी । न रुरुचिरे न रोचन्ते स्म । हि यस्मात् प्रियसमागम एव रतेः साधनेषु स्रगादिषु रम्यतां मनोहरत्वम् । रुचिकरत्वमिति यावत् । उपाधत्त आदत्ते । तदभावादरुचि-र्युक्तैवेत्यर्थः । अत एव वैधर्म्यात्कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः । रम्यन्त एष्विति रम्याणि । ‘पोरदुपधात्’ इति यत्प्रत्ययः, ‘कृत्यल्युटो बहुलम्’ इत्यधि-करणार्थः ।

**हिन्दी—**सुरसुन्दरियों ( अप्सराओं ) को वियोगकी अवस्थामें न मालाओं-की, न चन्दनोंकी और न मदिराकी ही रुचि थी, क्योंकि प्रियका समागम ही रतिके साधनोंमें मनोहरताको प्राप्त करता है ॥ ३५ ॥

प्रस्थिताभिरधिनाथनिवासं ध्वंसितप्रियसखीवचनाभिः ।
मानिनीभिरपहस्तितधैर्यः सादयन्नपि मदोऽवलम्बे ॥ ३६ ॥

**मल्लि०—**प्रस्थिताभिरिति ॥ अधिनाथनिवासं प्रियगृहं प्रति प्रस्थिताभिः प्रच-लिताभिर्ध्वंसितानि खण्डितानि प्रियसखीवचनानि स्वय प्रस्थानं लाघवायेत्येवं-रूपाणि याभिस्ताभिः । मानिनीभिः । कोपनाभिः । ‘स्त्रीणामीर्ष्याकृतः कोपो मानोऽ-न्यासङ्गिनि प्रिये’ । इति लक्षणात् । अपहस्तितं निरस्तं धैर्यं येन सः । तथा साद-यन् मानं शरीरं च कर्षयन्नपि सदोषोऽपीत्यर्थः । मदोऽवलम्बे स्वीकृतः । अज्ञान-व्याजेन लाघवापह्नवसौकर्यादिति भावः ।

**हिन्दी—**पहले प्रियसखीके मिलापके लिए किये गये वचनोंको भी ठुकरानेवाली मानिनी स्त्रियोंने प्रियके निवासस्थानमें प्रस्थान कर धैर्यको दूर करनेवाले, अभि-मान और शरीरको कृश करनेवाले मद ( मद्य ) का अवलम्बन किया ॥ ३६ ॥

कान्तवेश्म बहु सन्दिशतीभिर्यातमैव रतये रमणीभिः ।
मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितमप्युपकारि ॥ ३७ ॥

**मल्लि०—**कान्तेति ॥ रतये सुरताय बहु संदिशतीभिरनेकं कथयन्तीभिः । संदेशव्यसनाद् गन्तव्यमप्यजानतीभिरित्यर्थः । रमणीभिः । कान्तवेश्म यातं प्राप्त-