भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 440, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 440

२८२ किरातार्जुनीयम्

प्राप्त करने पर अधिक रागवाला कामदेवका स्त्रियोंमें प्रवेश न्यासा होकर शोभित हुआ ॥ ६९ ॥

मा गमन्मदविमूढधियो नः प्रोज्झ्य रन्तुमिति शङ्कितनाथाः ।
योषितो न मदिरा भृशमीपुः प्रेम पश्यति भयान्यपदेऽपि ॥ ७० ॥

मल्लि०--मा गमन्निति । शङ्कितनाथा अविश्वस्तपुरुषा योषितो मदेन विमूढधियः स्तब्धबुद्धयो नोऽस्मान् प्रोज्झ्य विसृज्य । नञ्पूर्वाद्बुञ्जतेः समासेनञ्पूर्वं क्त्वा ल्यप् । रन्तुं मा गमन् न गच्छन्तु इति ! मतीपयेति शेषः । गमेर्माङि लुङ् । 'न माङ्योगे' इत्यडागमप्रतिषेधः । मदिरां भृशमतिमात्रं नेपुनैच्छन् स्म। किन्तु भर्तृवियोगभयादोषदेन यपुरित्यर्थः । तथा हि--प्रेम स्नेहः । अपदेऽस्थानेऽपि भयानि अनिष्टानि पश्यत्युत्प्रेक्षते । शङ्कत इति यावत् । शङ्काहेतो प्रेम्णि कर्तृत्वोपचारः ॥ ७० ॥

हिन्दी--पुरुषमें विश्वास न करनेवाली स्त्रियां मदसे स्तब्ध बुद्धिवाली होकर हमलोगोंको छोड़कर प्रियतम रमण करनेके लिए अन्यत्र न जायं ऐसी बुद्धिसे मदिराकी ज्यादा इच्छा नही करती थीं, जैसे कि प्रेम अस्थानमें भी अनिष्टोंको देखता है ॥ ७० ॥

चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः ।
संगमश्च दयितैः स्म नयन्ति प्रेम कामपि भुवं प्रमदानाम् ॥ ७१ ॥

मल्लि०--चित्तेति ॥ चित्तस्य निर्वृत्तिविधायि सुखकरं विविक्तं रहः । 'विविक्तं रहसि स्मृतम्' इति विश्वः । मन्मथो मधुमदो मद्यमदः शशिभासश्चन्द्रिका दयितैः सह संगमश्च । 'वृद्धो यूना-' मिति निर्देशात् 'सह' शब्दाप्रयोगेऽपि सहार्थे तृतीया । एतानि प्रमदानां स्त्रीणां प्रेम वियोगासहत्वावस्थामंभोगं कामपि भुवं काञ्चिदशां नयन्ति स्म । रत्यवस्थामप्यतिक्रम्य शृङ्गारावस्थां क्रीडामयीं निन्युरित्यर्थः । 'प्रेमाभिलाषो रागश्च स्नेहः प्रेमरतिस्तथा । शृङ्गारश्चेति संभोगः समावस्थः प्रकीर्तितः ॥' इत्युक्तं रमरत्नाकरे । 'प्रेक्षा दिदृक्षा रम्येषु तच्चिन्ताप्यभिलाषकः । रागस्तत्सङ्गबुद्धिः स्यात्स्नेहस्तत्प्रवणःक्रिया । तद्वियोगासहं प्रेम रतिस्तत्सहवर्तनम् । शृङ्गारस्तत्समं क्रीडा संभोगः सप्तधा क्रमा ॥' इति ॥ ७१ ॥

हिन्दी--चित्तको सुख देनेवाला एकान्तमें कामदेव, मदिराका मद, चाँदनी