किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 461, कुल 707 में से
संदर्भ में पढ़ेंदशमः सर्गः । २०३
नर्थोत्पत्तिकथनाद्द्वितीयो विषमालंकारः । तथा च सूत्रम्—‘विरूपकार्यानर्थयो- रुत्पत्तिरुपसंघटनाद्विपमलंकारः’ इति ॥ ३८ ॥
हिन्दी—सहायक गन्धर्वोंसे किया गया कानमें मधुर बीनके साथ गाना, प्रचुर फल पुष्प आदि चिह्नोंसे मनोहर समय (वसन्त आदि ऋतुकाल) ये सब भी अर्जुनके मनमें विकार उत्पन्न करनेमें असमर्थ होकर उलटा अप्सराओंपर ही कामावेशका विस्तार करने लगे ॥ ३८ ॥
तटस्थवदालम्बनगणोऽपि विपरीतोऽभूदिति श्लोकद्वयेनाह—
न दलति निचये तथोत्पलानां न च विषमच्छदगुच्छयूथिकासु ।
अभिरतिमुपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥ ३९ ॥
मल्लि०—नेत्यादि । आसां लोचनानि हरितनयावयवेषु यथा तथा दलति विकसति उत्पलानां निचयेऽभिरतिं नोपलेभिरे न प्रापुः । तथा च विषमच्छदगुच्छाः सप्तपर्णस्तवका यूथिका मल्लिकाश्च तास्वभिरतिं नोपलेभिरे । ‘सप्तपर्णो विशाल-त्वक्शारदो विषमच्छद’ । इत्यमरः । तथा रमणीयत्वात्तदवयवानामित्यर्थः । इति चक्षुःप्रीतिरुक्ता ॥ ३९ ॥
हिन्दी—अप्सराओं के नेत्रोंने अर्जुनके अङ्गोंको देखकर जिस तरह प्रीतिको प्राप्त किया उस तरह कमलसमूहमें, सप्तपर्णके गुच्छोंमें और यूथिका (जूही) पुष्पोंमें प्रीतिको प्राप्त नहीं किया ॥ ३९ ॥
अथ मनःसङ्गं सूचयति—
मुनिमभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन ।
मदनमुपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानाम् ॥ ४० ॥
मल्लि०—मुनिमिति । याः स्त्रियः कमनीयता सौन्दर्यं सैव गुणस्तेन । मुनि-मर्जुनम् । अभिमुखतां वश्यतां निनीषवो नेतुमिच्छवः समुपययुः । तासां स्त्रीणां स मुनिरेव मदनमुपदधे जनयामास । तथा हि—प्रयोजनानामुद्देश्यानां गतिः परिणतिर्दुरधिगमा हि दुर्ज्ञेया खलु । अतः ‘क्वचिद्भवति, क्वचिन्न भवतीति भावः ॥ ४० ॥
हिन्दी—जो अप्सराएँ सौन्दर्यरूप गुणसे मुनि (अर्जुन) को वशमें करना चाहती हुई गई थीं, मुनि (अर्जुन) ने उन्हीं अप्सराओंमें कामावेशको उत्पन्न कर दिया' उद्देश्यका परिणाम नहीं जाना जाता है ॥ ४० ॥