भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 462, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 462

२०४ किरासार्जुनीयम्

अथासामनुरागमेव कार्यतः प्रपञ्चयति— प्रकृतमनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा। प्रथममुपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥ ४१ ॥

मल्लि०—प्रकृतमिति। विलासि सविलासं नर्तकीनां संबन्धि। 'शिल्पिनि ष्वुन्' इति ष्वुन्प्रत्ययः—'नृत्तित्वनिरपेक्षस्य एव' इति नियमः। चक्षुः कर्तृ प्रकृतं प्रक्रान्तं अभिनेयमभिनेतव्यं रसभावाद्यभिव्यञ्जकं नानुससार। तददूषणं तदानुगुण्येनैव दृष्टिप्रयोगनियमादिति भावः। तथा प्रविकसदङ्गुलि चञ्चलाङ्गुलि पाणिपल्लवं वा नानुससार। स च दोषः 'यतो हस्तस्ततो दृष्टिः' इति नियमादिति भावः। 'पल्लवोऽस्त्री किसलयम्' इत्यमरः। 'वा स्याद्विकल्पोपमयोरेवार्थेन समुच्चये'। इति विश्वः। किंतु, प्रथमं प्रवेश एव सिततुरगेऽर्जुने उपहितं सन्न चचाल तत्रैव लग्नं तस्थौ। रागार्तेर्न किञ्चित्करणीयमनुसंधेयमिति भावः॥ ४१ ॥

हिन्दी—नाचनेवाली अप्सराओंके नेत्रने आरम्भ किये गये रस भाव आदिका व्यञ्जक अभिनय विषयका अनुसरण नहीं किया वा विकसित होती हुई अंगुलियों- वाले पाणिपल्लवका अनुसरण नहीं किया, किन्तु प्रवेश समयमें ही अर्जुनमें दिया जाता हुआ उनका नेत्र विचलित नहीं हुआ, उन्हीं में लगकर स्थित हुआ ॥४१॥

अभिनयमनसः सुराङ्गनाया विहितमलक्तकवर्तनाभिताम्रम् । चरणमभिपपात षट्पदाली धूतनवलोहितपङ्कजाभिशङ्का ॥ ४२ ॥

मल्लि०—अभिनयेति। अभिनयो रसभावाद्यभिव्यञ्जकचेष्टाविशेषः। 'व्यञ्ज- काभिनयो समौ' इत्यमरः। तत्र मनो यस्यास्तस्याः। व्यासङ्गाद् मुङ्गापातभजा- नत्या इत्यर्थः। सुराङ्गनायाः संबन्धि अलक्तकवर्तनेन लाक्षारसरञ्जनेन अभिताम्रं निहितं न्यस्तं चरणं षट्पदाली कर्त्री धूता नवलोहितपङ्कजाभामभिशङ्का प्रत्यग्र- कोकनदभ्रमो यया सा। अभिपपाताभिधावति स्म। अत्र षट्पद्याल्याः स्त्रीचरणे पङ्कजभ्रमाभिधानाद् भ्रान्तिमदलङ्कारः। तेन चोपमा व्यज्यत इत्यलङ्कारेणा- लङ्कारध्वनिः ॥ ४२ ॥

हिन्दी—अभिनयमें मन देनेवाली अप्सराके लाक्षारसके रागसे लाल चरणोंमें भ्रमरपङ्क्ति 'इसमें नया रक्तकमल रखा गया है' ऐसे भ्रमम पड़ गई ॥ ४२ ॥

अविरलमलसेषु नर्तकीनां द्रुतपरिशिक्तमलक्तकं पदेषु। सवपुषमिव चित्तरागमूहूर्नमितशिखानि कदम्बकेसराणि ॥ ४३ ॥