भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 463, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 463

दशमः सर्गः [२०५]

मल्लि० – अविरलमिति । नमितशिखानि नर्तकीपादपीडनान्नमिताग्राणि कदम्बकेसराणि । रङ्गपूजादत्तानीति शेषः । अविरलं सान्द्रं यथा तथा द्रुतः रागोष्मणा विगलितोऽत एव परिसिक्तः प्रसृतस्तं द्रुतपरिसिक्तं नर्तकीनामलसेषु पदेषु पादन्यासेषु । अलक्तकं लाक्षारागं सवपुषं मूर्तिमन्तं चित्तरागमुत्कटतया कायाद्बहिर्निस्सृतं मुनिविषयकं रागमित्युत्प्रेक्षा । ऊहुर्वहन्ति स्म ॥ ४३ ॥

हिन्दी — नर्तकियोंके पैर पड़नेमे झुके हुए कदम्बपुष्पके केसर, गाढरूपसे विगलित अतएव परिसिक्त नर्तकियोंके पादन्यासोंमें रहे हुए लाक्षारागको मूर्तिमान् चित्तरागके समान धारण करते थे ॥ ४३ ॥

अथासां शृङ्गारचेष्टां कथयति—

नृपसुतमभितः समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः ।
स्फुटमभिलषितं बभूव वध्वा वदति हि संवृतिरेव कामितानि ॥ ४४ ॥

मल्लि० – नृपेति । नृपसुतमर्जुनम् । अभितः संमुखं परिजनस्य सखीजनस्य गात्रेण तिरोहिता लज्जया स्वाकारगोपनायान्तर्हिताऽङ्गयष्टिर्यस्याः सा तस्याः समन्मथाया वध्वाः अभिलषितं मुनिं प्रत्यनुरागः स्फुटो बभूव । न च संव्रियमाणस्याभिव्यक्तिविरुद्धेति वाच्यमित्याह—यतः संवृतिः सम्यग्गोपनमेव कामितानि अनुरागान् । कामयतेर्भावे क्तः । वदति हि । प्रकटयतीत्यर्थः । अयमनुरागस्य स्वभाव उक्तः । यया चेष्टया रागः संव्रियते सैवास्य प्रकाशिका जातेति भावः ॥ ४४ ॥

हिन्दी — अर्जुनके सम्मुख सखीके शरीरसे तिरोहित अङ्गयष्टिवाली कामावेशसे युक्त अप्सराका अर्जुनके प्रति अनुराग स्पष्ट हो गया, क्योंकि गोपन (छिपाना) ही अनुरागोंको प्रकट करता है ॥ ४४ ॥

अभिमुनि सहसा हृते परस्याः घनमरुता जघनांशुकैकदेशे ।
चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥ ४५ ॥

मल्लि०—अभिमुनीति । अभिमुनि मुनिसमक्षं घनेन मरुता जघनांशुकस्यैकदेशे सहसा हृते सति सत्रपायाः सलज्जायाः परस्याः संबन्धि अवसनो निरावरणो ऊरुर्यस्मिंस्तत् । चकितं भयसंभ्रमः प्रतियुवतीरपि सपत्नीरपि विस्मयं निनाय । किमुतान्यजनमित्यपिशब्दार्थः । न तु मुनिमित्याशयः ॥ ४५ ॥

हिन्दी — मुनि (अर्जुन)के सम्मुख वायुके वेगसे जघनवस्त्रके एकभागके