भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 464, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 464
२०६किरातार्जुनीयम्

सहसा उड़ाये जाने पर लज्जावती दूसरी अप्सराके वस्त्रहीन करवाने भयके संभ्रम ( घबराहट ) ने सपत्नी जनोंको भी आश्चर्यित कर दिया ॥ ४५ ॥

धृतबिसवलये निधाय पाणौ मुखमधिरूषितपाण्डुगण्डलेखम् ।
नृपसुतमपरा स्मराभितापादमधुमदालसलोचनं निदध्यौ ॥ ४६ ॥

मल्लि०---धृतेति । अपरा स्त्री स्मराभितापाद् हेतोः । धृतानि बिसान्येव वलयानि येन तस्मिन् पाणावधिरूषिते चन्दनादिचर्चिते पाण्डू गण्डलेखे गण्डस्थले यस्य तत् । मुखं निधायारोप्य । अमधुमदे मधुमदरहिते तथापि अलसे लोचने यस्मिन्कर्मणि तद्यथा तथा तं नृपसुतं निदध्यौ पश्यति स्म । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः ॥ ४६ ॥

हिन्दी— अन्य अप्सरा कामसन्तापके कारण कमलदण्डरूप कङ्कणको धारण किये हुए हाथमें चन्दन आदिसे लिप्त सफेद गण्डस्थलवाला मुख रख कर मदिराके मदसे रहित होकर भी नेत्रोंको आलस्यपूर्ण बनाकर अर्जुनमें रखती थीं ( देखती थी ) ॥ ४६ ॥

अथ पञ्चभिर्मुनिं प्रति दूतीवाक्यमाह—

सखि ! दयितमिहानयेति सा मां प्रहितवती कुसुमेषुणामितप्ता ।
हृदयमहृदया न नाम पूर्वं भवदुपकण्ठनुपागतं विवेद ॥ ४७ ॥

मल्लि०—सखीति । कुसुमेषुणा कामेनाभितप्ता पीडिता सा नायिका । हे सखि ! दयितं मुनिम् । इहानयेति मां प्रहितवती मत्सन्तिकं प्रेषितवती । किन्त्व-विमृश्यकारिणीियमित्याह—हृदयमिति । अहृदयाऽमनस्का । तस्यास्त्वद्गतत्वादिति भावः । अत एव सा पूर्वं प्रागेव भवदुपकण्ठं त्वत्समीपम् । उपागतं हृदयं मनो न विवेद । नाम संभावनायाम् । अतो मत्प्रेषणं व्यर्थं तस्यान्तरङ्गत्वाद्बहिरङ्गस्य दुर्बलत्वादिति भावः । एतेन मनःसङ्गः उक्तः । चक्षुःप्रीतिस्तु प्रागेव सर्वासामुक्तेति न पृथगुच्यते ॥ ४७ ॥

हिन्दी— कामदेवसे सन्तप्त नायिकाने हे सखि ! 'प्रिय ( मुनि ) को यहाँ ले आओ' ऐसा कह कर मुझे यहाँ भेजा है, जिसको आपके पास भेजनेसे सम्प्रति चित्तरहित उसने पहले ही आपके पास पहुँचे हुए उसको नहीं जाना ॥ ४७ ॥

'दृङ्मनःसङ्गसंकल्पा जागरः कृशता रतिः । ह्रीत्यागोन्मादमूर्च्छाऽन्ता इत्यनङ्गदशा दश ॥' इति । तत्राद्यमवस्थाद्वयमप्यन्वायि । संप्रति काचित् क्रमवैरपेक्ष्येण सूचयति—