किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 465, कुल 707 में से
संदर्भ में पढ़ेंदशमः सर्गः । २०७
चिरमपि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता मुखेन ।
गतघृण ! गमितानि मत्सखीनां नयनयुगैः सममार्द्रतां मनांसि ॥ ४८ ॥
मल्लि०—चिरमिति । चिरं कलितान्यपि संदेशार्थं बुद्ध्या योजितान्यपि । वचनानीति शेषः । परिशुष्यता मुखेनेति जागरोक्तिः । परिगदितुमपारयन्त्याऽशक्नुवत्या तया । हे गतघृण ! अद्यापि तां नानुकम्पस इति भावः । मत्सखीनां मनांसि नयनयुगैः सममार्द्रतां गमितानि । उपचयं गमितानित्यर्थः । शोकबाष्पैरिति भावः । अत्र सखीशोकोक्त्या मूर्च्छावस्था सूच्यते । अत्र शोकबाष्पद्वयकारणभेदात् प्रतियोगिभेदाच्चार्द्रत्वभेदेऽप्यभेदाध्यवसायः । तन्मूला चेयं 'नयनयुगैः सम'मिति सहोक्तिरलंकारः ॥ ४८ ॥
हिन्दी — बहुत दिनोंसे सोचे हुए वचनोंको सूखे हुए मुखसे कहनेके लिए असमर्थ हो रही 'हे निर्दय ! (अभी भी उसपर दया नहीं करते हो ?) मेरी सखियोंके मन दोनों आँखोंके साथ आर्द्र बनाये गये हैं ॥ ४८ ॥
अचकमत सपल्लवां धरित्रीं मृदुसुरभि विरहय्य पुष्पशय्याम् ।
भृशमरतिमवाप्य तत्र चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा ॥ ४९ ॥
मल्लि०—अचकमतेति । किं वाच्यं चेत्याह—सा स्त्री मृद्वी सुरभिश्च या तां मृदुसुरभिं पुष्पशय्यां विरहय्य विहाय सपल्लवां धरित्रीम् । अचकमत ऐच्छत् । तस्यास्ततोऽपि शीतलत्वादिति भावः । कमेणिङन्ताल्लुङ् । 'णिश्रिद्रुस्रुभ्यः कर्तरि चङ्' इति द्विर्भाव इति केचित् । तन्न । अचोकमतेति प्रसङ्गात् । अतो णिङभावपक्षे 'कमेर्हलेश्चङ् वक्तव्यः' इति वक्तव्याच्चङि रूपमेतत् । अस्या नायिकायाः । तत्र धरित्र्यामपि भृशमरतिं दुःखम् । अवाप्य । सुखयतीति सुखः शीतः शीतलश्च तं सुखशीतं तवाङ्कमुत्सङ्गम् । उपैतुमिच्छा । वर्तत इति शेषः । अस्यात्रौत्सुक्यं कथितम् । अत्रारतिजागरौ सुव्यक्तावित्यस्या नायिकायाः क्रमेण पुष्पशय्याद्यनेकाधारसंबन्धकथनात् प्रथमः पर्यायालंकारः । तदुक्तम्—'क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि । एकस्मिन्नर्थवानेकं पर्यायालंकृतिर्द्विधा ॥' इति लक्षणात् ॥ ४९ ॥
हिन्दी — वह वियोगिनी कोमल और सुगन्धित फूलोंकी सेज छोड़कर पल्लव-वाली धरतीको चाहती है । उस धरतीमें भी प्रीति न पाकर सुखजनक ठण्डी आपकी गोदको पानेकी इसकी इच्छा है ॥ ४९ ॥
तदनघ ! तनुरस्तु सा सकामा व्रजसि पुरा हि परासुतां त्वदर्थे ।
पुनरपि सुलभं तपोनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः ॥ ५० ॥