किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
दशमः सर्गः । २०७
चिरमपि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता मुखेन ।
गतघृण ! गमितानि मत्सखीनां नयनयुगैः सममार्द्रतां मनांसि ॥ ४८ ॥
मल्लि०—चिरमिति । चिरं कलितान्यपि संदेशार्थं बुद्ध्या योजितान्यपि । वचनानीति शेषः । परिशुष्यता मुखेनेति जागरोक्तिः । परिगदितुमपारयन्त्याऽशक्नुवत्या तया । हे गतघृण ! अद्यापि तां नानुकम्पस इति भावः । मत्सखीनां मनांसि नयनयुगैः सममार्द्रतां गमितानि । उपचयं गमितानित्यर्थः । शोकबाष्पैरिति भावः । अत्र सखीशोकोक्त्या मूर्च्छावस्था सूच्यते । अत्र शोकबाष्पद्वयकारणभेदात् प्रतियोगिभेदाच्चार्द्रत्वभेदेऽप्यभेदाध्यवसायः । तन्मूला चेयं 'नयनयुगैः सम'मिति सहोक्तिरलंकारः ॥ ४८ ॥
हिन्दी — बहुत दिनोंसे सोचे हुए वचनोंको सूखे हुए मुखसे कहनेके लिए असमर्थ हो रही 'हे निर्दय ! (अभी भी उसपर दया नहीं करते हो ?) मेरी सखियोंके मन दोनों आँखोंके साथ आर्द्र बनाये गये हैं ॥ ४८ ॥
अचकमत सपल्लवां धरित्रीं मृदुसुरभि विरहय्य पुष्पशय्याम् ।
भृशमरतिमवाप्य तत्र चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा ॥ ४९ ॥
मल्लि०—अचकमतेति । किं वाच्यं चेत्याह—सा स्त्री मृद्वी सुरभिश्च या तां मृदुसुरभिं पुष्पशय्यां विरहय्य विहाय सपल्लवां धरित्रीम् । अचकमत ऐच्छत् । तस्यास्ततोऽपि शीतलत्वादिति भावः । कमेणिङन्ताल्लुङ् । 'णिश्रिद्रुस्रुभ्यः कर्तरि चङ्' इति द्विर्भाव इति केचित् । तन्न । अचोकमतेति प्रसङ्गात् । अतो णिङभावपक्षे 'कमेर्हलेश्चङ् वक्तव्यः' इति वक्तव्याच्चङि रूपमेतत् । अस्या नायिकायाः । तत्र धरित्र्यामपि भृशमरतिं दुःखम् । अवाप्य । सुखयतीति सुखः शीतः शीतलश्च तं सुखशीतं तवाङ्कमुत्सङ्गम् । उपैतुमिच्छा । वर्तत इति शेषः । अस्यात्रौत्सुक्यं कथितम् । अत्रारतिजागरौ सुव्यक्तावित्यस्या नायिकायाः क्रमेण पुष्पशय्याद्यनेकाधारसंबन्धकथनात् प्रथमः पर्यायालंकारः । तदुक्तम्—'क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि । एकस्मिन्नर्थवानेकं पर्यायालंकृतिर्द्विधा ॥' इति लक्षणात् ॥ ४९ ॥
हिन्दी — वह वियोगिनी कोमल और सुगन्धित फूलोंकी सेज छोड़कर पल्लव-वाली धरतीको चाहती है । उस धरतीमें भी प्रीति न पाकर सुखजनक ठण्डी आपकी गोदको पानेकी इसकी इच्छा है ॥ ४९ ॥
तदनघ ! तनुरस्तु सा सकामा व्रजसि पुरा हि परासुतां त्वदर्थे ।
पुनरपि सुलभं तपोनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः ॥ ५० ॥
| २०८ | किराताजुंनीयम् |
|---|
मल्लि०—तदिति । तत् तस्मात्कारणात् तस्या दुरवस्थत्वाद्धेतोः । हे अनघ ! निष्पाप ! तनुः कृशेति कार्श्यावस्थाकथनम् । सा नायिका सकामा सफलमनोरथा अस्तु । हि यस्मात्, त्वमेवार्थः प्रयोजनं वा तस्मिन् त्वदर्थे निमित्ते, सतीति शेषः । त्वामुद्दिश्येत्यर्थः । परासुतां निष्प्राणत्वं पुरा व्रजति व्रजिष्यति । मरिष्यतीत्यर्थः । तथा च तेऽनिमित्तहत्यायाज्नघत्वव्याघातः स्यादिति भावः । 'यावत्पुरानिपातयोर्लट्' इति भविष्यदर्थे लट् । इदं च दशमावस्थाप्रदर्शनम् । न च तपोनिष्ठत्वाद् भेतव्यमित्याह—पुनरिति । पुनरपि पश्चादपि । 'पुनरप्रथमे भेदे' इति विश्वः । तपः सुलभम् । अनुरागी अनुरुपो योग्यश्च युवतिजनस्तु नाप्यते न लभ्यते खलु ॥५०॥
हिन्दी—इस कारणसे हे निष्पाप ! उस दुर्बल नायिकाका अभिलाष सफल हो जाय, क्योंकि वह आपके कारण प्राणहीन हो जायगी । तपस्या फिर भी सुलभ है परन्तु अनुराग और योग्य युवती प्राप्त नहीं होती है ॥ ५० ॥
एवं प्रलोभितस्यापि मुनेर्मनो न भग्नमित्याह—
जहिहि कठिनतां, प्रयच्छ वाचं, ननु करुणामृदु मानसं मुनीनाम् ।
उपगतमवधीरयन्त्यभव्याः स निपुणमेत्य कयाचिदेवमूचे ॥ ५१ ॥
मल्लि०—जहिहीति । कठिनतां निःस्पृहतां जहिहि । त्यजेत्यर्थः । जहातेः 'आ च हौ' इतीकारः । वाचं प्रयच्छ । संधत्स्वेत्यर्थः । मुनीनां मानसं मनः करुणामृदु ननु दयार्द्रं खलु । 'स्वान्तं हृन्मानसं मनः' इत्यमरः । किञ्च, अभव्या निर्माद्या उपगतं प्राप्तम् । विषयमिति शेषः । अवधीरयन्ति अवमन्यन्ते । एवमुक्तप्रकारेण सोऽर्जुनः कयाचिदेत्य समीपमागत्य निपुणं चतुरं यथा स्यातथा ऊचे उक्तः । नायिकया दूतीं प्रति वचनमुक्तम्, तया दूत्या च मुनि प्रति कथितमित्यर्थः । अत्र पञ्चश्लोक्यां विप्रलम्भशृङ्गारस्योत्सुक्यनाम्नो व्यभिचारिभावस्य चापुनरुक्तिः । अनौचित्येन नायिकायाः प्रवृत्तेराभासत्वमनुसंधेयम् । तदुक्तम्—'एकत्र चेशानुरागास्तिर्यङ्ग्म्लेच्छगतोऽपि वा । योषितां बहुसंसक्तिश्चेद्रासाभासस्त्रिधा मतः ।।' इति । तन्निबन्धनादूर्जस्वमलंकारः । तथा च सूत्रम्—'रसभेदतदाभासतत्प्रकाशमानां निबन्धने रसवरप्रेयोर्जस्विसमाहितानि' इति । [ समाहितातिरसबन्धे रसवदलंकारः । भावनिबन्धने प्रेयोऽलंकारः । रसभावनिबन्धने तूर्जस्वलालंकारः । संतप्रशमनिबन्धे समाहितालंकार इति । सूत्रार्थः ] ॥ ५१ ॥
हिन्दी—'कठोरता छोड़ दीजिए, वचन दें । मुनियोंका चित्त कोमल होता
दशमः सर्गः | २०९
है। भाग्यहीन पुरुष पाये हुए पदार्थोंका तिरस्कार करते हैं।' इस प्रकार किसी दूतीने अर्जुनको कहा ॥ ५१ ॥
सल्ललितचलितत्रिकाभिरामा शिरसिजसंयमनाकुलैकपाणिः ।
सुरपतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥ ५२ ॥
मल्लि०— सल्ललितेति । सल्ललितं सविलासं यथा तथा चलितेन विवर्त्तितेन त्रिकेण कटिभागेन । 'पृष्ठवंशाधरे त्रिकम्' इत्यमरः । अभिरामा । शिरसि जाताः शिरसिजाः । 'सप्तम्यां जनेर्डः' । 'अमूर्धमस्तकात्स्वाङ्गादकामे' इत्यलुक् । 'उपपदमतिङ्' इति समासः । एतेन मनसिजो व्याख्यातः । तेषां संयमने बन्धन आकुलो व्यग्र एकः पाणियस्याः सा । अपरा स्त्री सुरपतितनयेऽर्जुने । जेतुं जैत्रः । जेतृ-शब्दात्सञ्ज्ञातात् 'प्रज्ञादिभ्यश्च' इत्यण्प्रत्ययः । मनसिजस्य जैत्रः शरस्तं तथाभूतम् । विलोचनस्यार्द्धमेकदेशम् । कटाक्षमित्यर्थः । निरासे विससर्ज ॥ ५२ ॥
**हिन्दी—**विलासके साथ चले हुए कटिभागके कारण केशके बन्धनमें व्यग्र एक हाथवाली अन्य अप्सराने अर्जुनपर कामदेवके जयशील बाणरूप नेत्रका आधा भाग (कटाक्ष) छोड़ा ॥ ५२ ॥
कुसुमितमवलम्ब्य चूतमच्चैस्तनुरिभकुम्भपृथुस्तनानताङ्गी ।
तदभिमुखमनङ्गचापयष्टिविसृतगुणेव समुन्ननाम काचित् ॥ ५३ ॥
मल्लि०— कुसुमितमिति । इभकुम्भवत् पृथुभ्यां स्तनाभ्यामानतमङ्गं यस्याः सा । 'अङ्गगात्रकण्ठेभ्यश्च' इति ङीप् । काचित् तन्वङ्गी । 'वोतो गुणवचनात्' इति विकल्पात्र ङीष् । कुसुमितमुच्चैरून्नतं चूतमवलम्ब्य । अत एव चूतलतायोगाद्विसृतो विस्रस्तो गुणो ज्या यस्या सा । 'विसृतं विस्तृतं ततम्' इति, 'मोर्वी ज्या शिञ्जिनी गुणः' इति चामरः । अनङ्गचापयष्टिरिव । आकृष्टमुक्तेति भावः । तदभिमुखं समुन्ननाम समुज्जजृम्भे । अङ्गभङ्गं चकारेत्यर्थः ॥ ५३ ॥
**हिन्दी—**हाथीके मस्तकपिण्डोंके समान विशाल स्तनोंसे झुके हुए शरीरवाली किसी पतली अप्सराने खिली हुई आम्रलताका अवलम्बन कर विस्तृत प्रत्यञ्चावाली कामदेवकी खींचकर छोड़ी गई धनुर्यष्टिका समान अर्जुनके समक्ष अङ्गभङ्ग किया ॥ ५३ ॥
सरभसमवलम्ब्य नीलमन्त्या विगलितनीवि विलोलमन्तरीयम् ।
अभिपतितुमनाः ससाध्वसेन च्युतरशनागुणसंदितावदस्थे ॥ ५४ ॥
मल्लि०— सरभसमिति । अन्याऽपरा विगलितनीवि श्लथबन्धनमत एव
१४ कि०
| २१० | किरातार्जुनीयम् |
|---|
विलोलं स्थानचलितम् । नील्या रक्तं नीलम् । 'नील्या अन्वक्तव्यः' इत्यन्प्रत्ययः । अन्तरीयं परिधानम् । अवलम्ब्य हस्तेन गृहीत्वा । सरभसं सत्वरम् । अभिरन्तुं मनो यस्याः सा तथोक्ता । अपगन्तुमुद्युक्तेत्यर्थः । तथापि ससाध्वसेव । नतु वस्तुतः ससाध्वसा, किंतु च्युतेन गलितेन रशनागुणेन संदिता सती । अवतस्थे स्थिता । 'बद्धे संदानितं मूतमुदितं संदितं सितम्' । इत्यमरः । कर्मणि क्तः । 'द्युतिस्वापिमास्यामि—'तीकारः ॥ ५४ ॥
हिन्दी — अन्य अप्सरा शिथिल रसनावाली अतएव चञ्चल नीली साड़ीको हाथसे पकड़कर शीघ्र जानेका यत्न करके तो भी डरी हुई-सी होकर गिरे हुए रसनागुणसे बँधकर स्थित हुई ॥ ५४ ॥
काचिद्युग्मेनाह —
यदि मनसि शमः किमङ्ग ! चापं शठ ! विषयास्तव वल्लभा न मुक्तिः ।
भवतु दिशति नान्यकामिनीभ्यस्तव हृदये हृदयेश्वरावकाशम् ॥ ५५ ॥
मल्लि० — यदीत्यादि । तव मनसि शमः शान्तिर्यदि । अस्तीति शेषः । अङ्ग भोः ! चापं किम् । किमर्थमित्यर्थः । कि तु हे शठ हे वञ्चक ! तव विषयाः शब्दादयो वल्लभाः प्रियाः । न तु मुक्तिः । तदेव द्रढयितुमाह — भवतु । को दोष इति शेषः । यद्यहं रागी तर्हि किमिति भवतीर्न गणयामीति शङ्कां निवारयति — दिशतीति । तव हृदये मनसि हृदयेश्वरा काचित्तव प्रेयसी । अन्यकामिनीभ्यः स्त्र्यन्तरेभ्योऽवकाशं न दिशति न प्रयच्छति । स्त्र्यन्तरासक्त्या नास्मान्गणयसि न तु वैराग्यात् । तदर्थमेवायं ते सकलः प्रयासोऽपीत्यर्थः ॥ ५५ ॥
हिन्दी — किसी अप्सराने कहा — 'हे महाशय ! तुम्हारे मनमें शान्ति है तो धनुषको क्यों धारण करते हो ? हे धूर्त ! शब्द आदि विषय ही तुम्हारे प्रिय हैं मुक्ति नहीं । तुम्हारे हृदयमें कोई हृदयेश्वरी रहती है जो अन्य स्त्रियोंको स्थान नहीं देती है' ॥ ५५ ॥
इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठमसूयया कयाचित् ।
अगणितगुरुमानलज्जयाऽसौ स्वयमुरसि श्रवणोत्पलेन जघ्ने ॥ ५६ ॥
मल्लि० — इतीति । इतीत्थम् । असूयया मत्सरेण स्फुरन्नधरोष्ठो यस्मिन्कर्मणि तद्यथा तथाभिधायोक्त्वा विषमितचक्षुषा कुटिलोकषदृष्ट्याऽगणिता गुरव आचार्या-
दशमः सर्गः २११
दशमः सर्गः २११
दयो मानोऽभिमानो लज्जा च यया तया । कयाचित् । असौ मुनिः । उरसि स्वयं स्वहस्तेनैव श्रवणोत्पलेन जघ्ने हतः ॥ ५६ ॥
हिन्दी--इस प्रकार ईर्ष्यासे ओष्ठको स्फुरितकर ऐसा कहकर कुटिल बनाई गई दृष्टिसे आचार्य आदि, अभिमान और लज्जाको परवाह न कर किसो अप्सराने मुनि ( अर्जुन ) को कानमें रखे गये कमलसे ताडन किया ॥ ५६ ॥
सविनयमपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मोः । श्रवणनियमितेन तं निदध्यौ सकलमिवासकलेन लोचनेन ॥ ५७ ॥
मल्लि०—सविनयमिति । अपरा सविनयमनौद्धत्येन । साचि तिर्यक् । अभि- सृत्य समीपं गत्वा स्मितेन मन्दहासेन सुभगा एकस्य लसतः कपोलस्य लक्ष्म्यो यस्याः सेति बहुवचनपदोत्तरो बहुव्रीहिः । अन्यथा कप्रत्ययः स्यादित्युकं प्राक् । श्रवणनियमितेन कर्णान्तप्रापितेन श्रोत्ररुद्धप्रसरेण । तावदायतेनेत्यर्थः । असकलेनाऽ- संपूर्णेन, कटाक्षेणेति यावत् । लोचनेन तं मुनिं धनंजयं सकलमिव समग्रप्रायं यथा तथा निदध्यौ पश्यति स्म । कटाक्षेणैव गाढमद्राक्षीदित्यर्थः । एषु श्लोकेषु भावा- भासनिबन्धादूर्जस्वदलंकारः । औत्सुक्यमत्र भावः । आभासत्वं चास्य विरक्त- मुनाव नौचित्यादित्युक्तं प्रागेवेति ॥ ५७ ॥
हिन्दी—अन्य अप्सराने नम्रताके साथ तिरछे भागसे पास जाकर मन्दहास्यसे सुन्दर शोभित कपोलकान्तिसे युक्त होकर कानतक पहुंचाये गये असंपूर्ण नेत्र- ( कटाक्ष ) से मुनि ( अर्जुन ) को पूर्णरूपसे देख लिया ॥ ५७ ॥
अथ तासां मुनिविलोमनमुपसंहरति— करुणमभिहितं, त्रपा निरस्ता, तदभिमुखं च विमुक्तमश्रु ताभिः । प्रकुपितमभिसारगेष्वनुनेतुं प्रियमियतो ह्यबलाजनस्य भूमिः ॥ ५८ ॥
मल्लि०—करुणमिति । ताभिः स्त्रीभिः । तदभिमुखं मुनिप्रत्यक्षं करुण दीन- मभिहितमुक्तम् । त्रपा निरस्ता लज्जा त्यक्ता । किंबहुना, अश्रु च विमुक्तम् । ततः परं न किंचिदभिधेयमासीदिति भावः । कुतः । हि यस्मात्, अबलाजनस्याभिसारणे समागमविषये प्रकुपितमननुकूलं प्रियमनुनेतुमनुकूलयितुम् । इयतो भूमिरित्येतावतो सीमा । साधनानां परमावधिरिति भावः । अर्थान्तरन्यासोऽलङ्कारः ॥ ५८ ॥
हिन्दी--उन अप्सराओंने अर्जुनके सम्मुख दोनतापूर्वक कहा—लज्जा छोड़
| २१२ | किरातार्जुनीयम् |
|---|
दी, कि बहुना आंसू भी छोड़ दिया, क्योंकि स्त्रीके अभिसारके विषयमें कुपित प्रियको अनुनय करनेके लिए इतनी ही सीमा (हद) है ॥ ५८ ॥
अथासामनुरागदाढर्थं निगमयति—
असकलनेत्रेक्षितानि, लज्जा, गतमलसं, परिपाण्डुता, विषादः ।
इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ॥ ५९ ॥
मल्लि०— असकलेति। असकलनेत्रेक्षितानि नयनार्धविलोकित्तानि लज्जालसं गतं मन्दगमनं परिपाण्डुता पाण्डुरवर्णत्वं विषाद इष्टानवाप्तिनिमित्तश्चेतोभङ्गः। इति एवं प्रकारं विविधं नानाविधेष्टितम् । 'नपुंसकमनपुंसकेने'त्यादिना नपुंसकैकशेषत्वम् । तासु भूषामियायेति भावप्राधान्येन योज्यम् । तथा हि—अनङ्गो मदनो वधूर्म्मण्डयितुं प्रभवति । सर्वास्ववस्थास्विति शेषः । अतस्तासामनङ्गभूषितानामखिलं भूषणमेवेति भावः ॥ ५९ ॥
हिन्दी— नेत्रके आधे भागसे देखना, लज्जासे मन्द गति, पीला वर्ण, विषाद (खिन्नता) इस प्रकारसे अनेक प्रकारकी चेष्टाने अप्सराओमें आभूषणके भावको प्राप्त किया ॥ ५९ ॥
इदानीं तासां त्रिभिर्मुर्निविलोभने प्रयासवैकल्यमाह—
अलसपदमनोरमं प्रवृत्त्या जितकलहंसवधूगति प्रयातम् ।
स्थितमुरुजघनस्थलातिभारादुदितपरिश्रमजिह्वितेक्षणं वा ॥ ६० ॥
भृशकुसुमशरेषुपातमोहादनवसितार्थपदाकुलोऽभिलापः ।
अधिकविततलोचनं वधूनां युगपदुन्नमितभ्रु वीक्षितं च ॥ ६१ ॥
मल्लि०— अलसेति। वधूनां संबन्धि प्रकृत्यालसैः पदैर्मनोरमं मनोज्ञमत एव जिता कलहंसवधूनां गतिर्येन तत् । प्रयातं गमनम् । भावे क्तः । तथा उरुणोऽतिविपुलस्य जघनस्थलस्यातिभारादतिगौरवात् । उदितपरिश्रमेणोद्गतश्रमेण जिह्विते घूर्णिते ईक्षणे यस्मिन्, स्थितं वा स्थितिश्च । सर्वत्र 'वा' शब्द समुच्चये ॥ ६० ॥
मल्लि०— भृशेति। तथा भृशेन गाढेन कुसुमशरस्य कामस्य इषोर्निपातेन यो मोहो मूर्च्छा तस्माद्धेतोः, अनवसितार्थैरस्फुतोच्चारणानवधारिताभिधेयैः पदैः सुप्तिङन्तादिभिः क्षुभितशब्दैराकुलः संकीर्णोऽभिलापो वाक्यप्रयोगश्च । अधिकं वितते विस्तृते लोचने यस्मिंस्तद्युगपत् । पर्ययेण । उन्नमिते भ्रुवौ । यस्मिंस्तत्तथोक्तम् । 'ह्रस्वो नपुंसके प्रातिपदिकस्य' इति ह्रस्वः । वीक्षितं वीक्षणं च ॥ ६१ ॥
दशमः सर्गः २१३
हिन्दी — अप्सराओंके स्वभावसे आलस्यपूर्ण चरणन्यासोसे मनोहर अतएव हंसवधुओंकी गतिके जीतनेवाला गमन तथा अति स्थूल जघनस्थलके अधिक भारसे उत्पन्न परिश्रमसे कुटिल दृष्टिवालो स्थिति तथा कामबाणके गाढ प्रहारसे उत्पन्न मूर्च्छाके कारण अस्पष्ट उच्चारणसे अनिश्चितपदोंसे आकुल वाक्यप्रयोग, अधिक विस्तृत नेत्रोंवाले बारीबारीसे ऊँची की गई भौंहोंवाला दर्शन ॥ ६०–६१ ॥
रुचिकरमपि नार्थवद् बभूव स्तिमितसमाधिशुचौ पृथातनूजे ।
ज्वलयति महतां मनांस्यमर्षे न हि लभतेऽवसरं सुखाभिलाषः ॥ ६२ ॥
मल्लि०—रुचिकरमिति । पूर्वोक्तं रुचिकरं स्पृह्ाजनकमपि । 'रुचिः कान्त्य-भिक्षोर्भक्ति स्त्रियां शोभास्पृहार्ययोः' इति वैजयन्ती । स्तिमितेन स्थिरेण समाधिना तपोयोगेन शुचौ शुद्धे । निर्विकारचेतसीत्यर्थः । पृथातनूजेऽर्जुनविषये । अर्थवत् सप्रयोजनं न बभूव । तथा हि—महतां धीराणां मनांस्यमर्षे क्रोधे ज्वलयति सति सुखाभिलाषोऽवसरमवकाशं न लभते । रौद्रस्य शृङ्गारविरोधित्वादिति भावः । अत्र विशेषेणार्थान्तरन्यासोऽलङ्कारः ॥ ६२ ॥
हिन्दी—पूर्वोक्त विषय रुचि करनेवाला होकर भी निश्चल समाधिसे शुद्ध (निर्विकार) अर्जुनके विषयमें सफल नहीं हुआ, क्योंकि धीर पुरुषके मनके क्रोधसे प्रज्वलित होनेपर सुखका अभिलाष अवकाश (स्थान) को नहीं पाता है ॥ ६२ ॥
स्वयं संराध्येवं शतमखमखण्डेन तपसा
परोच्छित्त्या लभ्यामभिलषति लक्ष्मीं हरिसुते ।
मनोभिः सोद्वेगैः प्रणयविहतिध्वस्तरचयः
सगन्धर्वा धाम त्रिदशवनिताः स्वं प्रतिययुः ॥ ६३ ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये दशमः सर्गः ।
●
मल्लि०—स्वयमिति । एवं हरिसुतेऽर्जुने स्वयमखण्डेनाविलुप्तेन तपसा शतमखमिन्द्रं संराध्य प्रीणयित्वा परोच्छित्त्या शत्रुवधेन लभ्यां साध्यां लक्ष्मीं राज्यलक्ष्मीम् । अभिलषति सति सोद्वेगैः कार्यसिद्धयभावाज्जनितैरुद्वेगैर्मनोभिर्वालक्ष्यैः । किञ्च, प्रणयविहृत्या प्रार्थनाभङ्गेन ध्वस्तरुचयो नष्टकान्तयः सगन्धर्वा गन्धर्वसहिता-
२१४ | किरातार्जुनीयम्
त्रिदशवनिताः स्वं धाम स्वस्थानं प्रतिययुः । शिखरिणीवृत्तमेतत्—'रसै रुद्रै-श्छिन्ना यमनसभलागः शिखरिणी'ति लक्षणात् ॥ ६३ ॥
इति किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां दशमः सर्गः समाप्तः ।
●
हिन्दी—इस प्रकार कठोर तपस्यासे इन्द्रकी आराधना करके शत्रुओंके वधसे प्राप्त होनेको योग्य राजलक्ष्मीका अभिलाष करनेपर उद्वेगयुक्त अर्जुनके मनसे उपलक्षित और प्रार्थनाके भङ्गसे नष्ट कान्तिवाली अप्सराएँ गन्धर्वोंके साथ अपने स्थान (स्वर्ग) को चली गईं ॥ ६३ ॥
इति किरातार्जुनीये महाकाव्ये दशमः सर्गः ।
●
एकादशः सर्गः
अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया ।
आजगामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥ १ ॥
मल्लि०—अथेति । अथ अप्सरसां प्रतिप्रयाणानन्तरम् । पाको नाम कश्चिद्राक्षसस्तस्य शासन इन्द्रः । नन्द्यादित्वाल्ल्युप्रत्ययः । तयाऽप्सरोम्लाधुकतया अमर्षाद् द्विषद्द्वेषात्निसर्गाच्च या जितेन्द्रियता तयाऽऽगन्तुकानागन्तुकोभयविधहेतुकया प्रतीतो हृष्टः सन् । 'ख्याते हृष्टे प्रतीतः' इत्यमरः । जिष्णोरर्जुनस्य । 'जिष्णुः शक्रे धनंजये' इत्यमरः । आश्रममाजगाम । अत्रामर्षनिसर्गयोजितेंद्रियताहेतुकं काव्यलिङ्गं स्फुटमवगम्यते ॥ १ ॥
हिन्दी—तब गन्धर्व और अप्सराओंके लौटकर आनेके बाद इन्द्रदेव शत्रुओंके प्रति विद्वेषसे और स्वभावसे भी अर्जुन जितेन्द्रिय होनेसे प्रसन्न होकर अर्जुनके आश्रममें आये ॥ १ ॥
मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः ।
द्राघीयसा वयोतीतः परिक्लान्तं किराध्वना ॥ २ ॥
एकादशः सर्गः २१५
एकादशः सर्गः २१५
मल्लि०—मुनिरूप इति । मुने रूपमिव रूपं यस्य स मुनिरूपः । मुनिवेष- धारीत्यर्थः । इन्द्रोऽनुरूपेण दर्शनप्रदानयोग्येनेत्यर्थः । सूनुना पुत्रेणार्जुनैन पुरोऽग्रे ददृशे दृष्टः । कथंभूतः । वयो यौवनादिकमतीतो वृद्धः । 'द्वितीया श्रिते—'त्या- दिना द्वितीयासमासः । द्राघीयसाऽतिदीर्घेण । 'प्रियस्थिर'—त्यादिना दीर्घ- शब्दस्य द्राघादेशः । अध्वना । अध्वगमनेनेत्यर्थः । परिक्लान्तः परिश्रान्तः । किलेत्यलीके । 'किल संभाव्यवार्त्तयोः । हेत्वरुच्योरलीके न' इति हेमचन्द्रः । वृद्ध एव दूराध्वश्रान्त इव स्थित इत्यर्थः । 'इव' इति पाठे स्पष्टार्थः ॥ २ ॥
हिन्दी—मुनिका वेष लिये हुए तथा बहुत दूर मार्गमें गमन करनेसे थके-मांदेसे वृद्ध इन्द्रदेवको पुत्र अर्जुनने सामने देखा ॥ २ ॥
जटानां कीर्णया केशौः संहत्या परितः सितैः ।
पृक्तयेन्दुकरैरह्नः पर्यन्त इव संध्यया ॥ ३ ॥
मल्लि०—जटानामिति । परितः सितैः केशौः कीर्णया व्याप्तया जटानां संहत्या समूहेनोपलक्षितः । अत एव, इन्दुकरैः पृक्तया युक्तया संध्ययोपलक्षितोऽह्नः पर्यन्तो दिनान्त इव स्थितः । तस्याप्युपपरिणतरूपत्वाद् वृद्धोपमानत्वम् । जटानां संहत्ये- त्युक्तत्वात् संध्यासाम्यम् ॥ ३ ॥
हिन्दी—चारों ओरसे सफेद केशोंसे व्याप्त जटासमूहसे युक्त अतएव चन्द्र- किरणोंसे युक्त सन्ध्यासे उपलक्षित दिनके अवसान कालके समान इन्द्रदेवको पुत्र अर्जुनने देखा ॥ ३ ॥
विशदभ्रूयुगच्छन्नवलितापाङ्गलोचनः ।
प्रालेयावतस्तिम्लानपलाशाम्बुज इव ह्रदः ॥ ४ ॥
मल्लि०—विशदेति । पुनश्च विशदेन पलितपाण्डुरेण भ्रूयुगेन छन्ने वलिता- पाङ्गे वलिमत्प्रान्ते लोचने यस्य स तथोक्तः । 'अपाङ्गो नेत्रयोरन्तो' इत्यमरः । पामादित्वाल्लोमादिसूत्रेण वलच्प्रत्ययः । प्रालेयावततया हिमंसंहत्या म्लानपलाशानि म्लान्तदलानि अब्जानि यस्मिन्स ह्रद इव स्थितः ॥ ४ ॥
हिन्दी—जरासे सफेद भौंहोंसे व्याप्त नेत्रोंवाले इन्द्रदेवको अर्जुनने हिमसमूह- से मुरझाये हुए पत्तोंवाले कमलोंसे युक्त तालाबके समान देखा ॥ ४ ॥
आसक्तभरनीकाशैरङ्गैः परिकृशोरपि ।
साधूनः सद्वृत्तिष्व्येव प्रायो यष्ट्यावलम्बितः ॥ ५ ॥
| २१६ | किरातार्जुनीयम् |
|---|
मल्लि०—ग्रासङ्केति। पुनश्च, परिकृशंः परिशीर्णैरपि, आसक्तभरनीकाशैः भराक्रान्तसदृशैः । सभारवद्गुरुभवद्भिरित्यर्थः । 'हरूः काशे' इति दीर्घः। बहुभिः उपलक्षितः। कार्श्यादलघून्यपि स्वाङ्गानि स्वयं वोढुमसमर्थ इत्यर्थः । अत एव आधूनः औदरिकः । 'आधूनः स्यादौदरिको विजिगीषाविवर्जिते' इत्यमरः। आङ्पूर्वाद्धाञ्स्तेः क्तः। 'उदात्तोऽनुनासिके च' इत्यूठादेशः । 'दिवाऽविजिगीषायाम्' इति निपात्यम् । सदगृहिण्याऽनुकूलकलत्रेण इव प्रायः प्राचुर्येण यष्ट्याऽवलम्बनदण्डेन । अवलम्बितो धारितः । न तु स्वशक्त्येति भावः ॥ ५ ॥
हिन्दी—दुबले होने हुए भी भारसे आक्रान्तके समान अङ्गोंवाले अतएव जीतनेको इच्छासे रहित खाली पेट भरना ही चाहनेवाले अतएव अनुकूल पत्नीके समान प्रायः दण्डका अवलम्बन करनेवाले इन्द्रदेवको पुत्र अर्जुनने देखा ॥ ५ ॥
गूढोऽपि वपुषा राजन् धाम्ना लोकाभिभाविना ।
अंशुमानिव तन्वभ्रपटलच्छन्नविग्रहः ॥ ६ ॥
मल्लि०—गूढ इति। वपुषा गूढोऽपि । प्रच्छन्नरूपोऽपीत्यर्थः । प्रकृत्यादिभ्य उपसंख्यानात्तृतीया । तन्वभ्रपटलच्छन्नविग्रहः स्तोकाभ्रवृन्दाऽन्तरितमूर्तिः । अंशुमानिव लोकाभिभाविना लोकव्यापिना धाम्ना तेजसा । 'धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः' इति हेमचन्द्रः । राजन् दीप्यमानो ददृशे इति पूर्वेण संबन्धः ॥ ६ ॥
हिन्दी—शरीरसे प्रच्छन्न रूपवाले होकर भी थोड़ेसे मेघोंसे व्यवहित मूर्तिवाले सूर्यके समान लोकको व्याप्त करनेवाले तेजसे प्रकाशित होते हुए इन्द्रको अर्जुनने देखा ॥ ६ ॥
जरतीमपि बिभ्राणस्तनुमप्राकृताकृतिः ।
चकाराक्रान्तलक्ष्मीकः ससाध्वसमिवाश्रमम् ॥ ७ ॥
मल्लि०—जरतीमिति । जरतीं जीर्णाम् । 'जीना जीर्णा जरन्नपि' इत्यमरः । जीर्यतेरतीतार्थे शतृप्रत्ययः । 'उगितश्च' इति ङीप् । तनुं शरीरं बिभ्राणोऽपि दधदपि अप्राकृताऽलोकसामान्या आकृतिर्मूर्तिर्यस्य स इन्द्र आक्रान्ताऽभिभूता लक्ष्मीराश्रमशोभा येन स आक्रान्तलक्ष्मीकः । अत्र 'उरःप्रभृतिभ्यः कप्' इति नित्यकबाश्रयणम् । एकवचनोत्तरपदस्यैव 'लक्ष्मी' शब्दस्योरःप्रभृतिषु पाठात् । 'शेषाद्विभाषा' इति विकल्पाश्रयणे तु बहुवचनोत्तरपद इति विवेकः । आश्रमं
एकादशः सर्गः २१७
-ससाध्वसमिव चकार। तेजस्विदर्शनाद्भयं भवति। यत्तु न दुःखजनकं तस्यामानुष- त्वादिति सूचयितुम् 'इव' शब्दः ॥ ७ ॥
हिन्दी — जीर्ण शरीरका धारण करते हुए भी अलौकिक आकारवाले इन्द्रने आश्रमसीमाका आक्रान्त करके आश्रमको भयभीत-सा कर दिया ॥ ७ ॥
अभितस्तं पृथासूनुः स्नेहेन परितस्तरे।
अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः ॥ ८ ॥
मल्लि० — अभित इति। पृथासूनुरर्जुनः। तम् इन्द्रम्। अभितस्तं प्रति स्नेहेन परितस्तरे। तद्गोचरेण प्रेम्णा पर्याप्तः। स्तृणातेः कर्मणि लिट्। 'ऋतश्च संयोगादेर्गुणः' इति गुणः। नन्वजातसम्बन्धविशेषस्य तस्येन्द्रे कथं स्नेहोदय इत्यत आह -- अविज्ञात इति। बन्धौ सुहृदि। अविज्ञातेऽपि बन्धुरयमित्यज्ञातेऽपि बलाद्बान्धवसत्तावशादेव मनः प्रह्लादते हि स्निह्यतीत्यर्थः ॥ ८ ॥
हिन्दी — पृथापुत्र (अर्जुन) इन्द्रके प्रति स्नेहसे व्याप्त हो गये, क्योंकि बन्धुके अपरिचित होनेपर भी मन हठात् स्नेह करता है ॥ ८ ॥
आतिथेयीमथासाद्य सुतादपचितिं हरिः।
विश्रभ्य विष्टरे नाम व्याजहारेति भारतीम् ॥ ९ ॥
मल्लि० — आतिथेयीमिति। अथ हरिरिन्द्रः सुतादर्जुनात्। आतिथेयीम्। अतिथिषु साध्वीम्। 'पथ्यतिथिवसतिस्वपतेर्ढञ्' अपचितिं पूजाम्। आसाद्य प्राप्य 'पूजा नमस्याऽपचितिः' इत्यमरः। विष्टरे आसने। 'ऋदोरप्' इति स्तृणातेरप्रत्ययः। 'वृक्षासनयोर्विष्टरः।' इति षत्वम्। विश्रभ्य नाम विश्रभ्य किल। श्रममपनीयेत्यर्थः। इति वक्ष्यमाणप्रकारां भारतीं व्याजहार उक्तवान्। 'व्याजहार उक्तिर्लपितम्' इत्यमरः ॥ ९ ॥
हिन्दी — तदनन्तर इन्द्रने पुत्र (अर्जुन) से अतिथिसत्कार पाकर आसनमें विश्राम कर अर्जुनके प्रति ऐसी वाणीको प्रकाश किया ॥ ९ ॥
त्वया साधु समारम्भि नवे वयसि यत्तपः।
ह्रियते विषयैः प्रायो वर्पीयानपि मादृशः ॥ १० ॥
मल्लि० — त्वयेति। त्वया साधु समारम्भि सम्यगुपक्रान्तम्। रभेः कर्मणि लुङ्। कुतः। यद् यस्मात्। नवे वयसि यौवने। तपश्चर्यत इति शेषः। तथा
| २१८ | किरातार्जुनीयम् |
|---|
हि—अहमिव दृश्यतेऽसौ मादृशो वर्षीयानतिवृद्धोऽपि । 'प्रियस्थिरे--'त्यादिना 'वृद्ध' शब्दस्य वर्षादेशः । प्रायो विषयैर्हियत आकृष्यते । किमु भवादृशो यवीयानिति भावः ॥ १० ॥
हिन्दी — 'हे वत्स ! नई उम्रमें जो तपस्या कर रहे हो, यह तुमने उत्तम कार्यका आरम्भ किया है, क्योंकि मेरे समान अत्यन्त वृद्ध पुरुष भी विषयोंसे प्रायः खींचा जाता है ॥ १० ॥
अथैवमनारम्भे तव स्वाकारलाभोऽपि विफलः स्यादित्याशयेनाह—
श्रेयसीं तव संप्राप्ता गुणसंपदमाकृतिः ।
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥ ११ ॥
मल्लि०—श्रेयसीमिति । तवाकृतिर्मूर्तिः । रम्येति शेषः । श्रेयसीं श्रेष्ठां गुणसंपदं तपःसमारम्भरूपां संप्राप्ता । अतो न निष्फलेति भावः । न च स्वाकारा गुणाढ्याश्च कियन्तो न सन्तीति वाच्यमित्याह—लोक इति । लोके रम्यता रम्याकारता सुलभा हि, गुणार्जनं गुणसंपादनं दुर्लभम्, त्वयि तूभयं संपद्यत इति हेम्नः परमामोदः इति भावः ॥ ११ ॥
हिन्दी—( हे वत्स ! ) तुम्हारे आकारने श्रेष्ठ गुणसम्पत्तिको प्राप्त कर लिया है, क्योंकि लोकमें सुन्दर आकार सुलभ है, पर गुणका उपार्जन करना दुर्लभ है ॥ ११ ॥
यदुक्तम् 'त्वया साधु समारम्भि' ( श्लो० १० ) इति, तदेव साधुत्वं संसारनिःसारताख्यापनाय युग्मेनोपपादयति—
शरदम्बुधरच्छायागत्त्वर्यो यौवनश्रियः ।
आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ १२ ॥
**मल्लि—**शरदिति । यौवनश्रियस्तावत् शरदम्बुधरच्छाया इव गत्वर्यश्चञ्चलाः 'गत्वरश्च' इति क्वरबन्तो निपातः । 'टिड्ढाणञ्—'त्यादिना ङीप् । विषयाः शब्दादयस्तु आपातरम्यास्तत्कालरमणीयाः । 'तदात्वे पातः आपातः' इति वैजयन्ती । पर्यन्तेऽवसाने परितापयन्ति दुःखं कुर्वन्तीति तथोक्ताः ॥ १२ ॥
हिन्दी—( हे वत्स ! ) यौवनकी शोभा शरत् ऋतुके मेघकी छायाके समान चञ्चल हैं, विषय ( शब्द स्पर्श आदि ) उसी समय ( भोगकाल ) में ही रमणीक हैं परन्तु परिणाममें दुःख उत्पन्न करनेवाले हो जाते हैं ॥ १२ ॥
एकादशः सर्गः | २१९
अन्तकः पर्यवस्थाता जन्मिनः संततापदः ।
इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः ॥ १३ ॥
मल्लि०— अन्तक इति । किंच, संतता अनवच्छिन्ना आपदः क्लेशा यस्य तस्य जन्मिनः प्राणिनः । 'प्राणी तु चेतनो जन्मी' इत्यमरः । व्रीह्यादित्वादिनिः । अन्तको मृत्युः पर्यवस्थाता प्रतिरोद्धा । प्रथमं तावज्जन्मिनो जन्मदुःखमेव दुस्तरम्, ततो जातस्य जीवनमपि सततं दुःखसंमिश्रतया विषयुक्तान्नप्रायम्, तदपि मृत्युग्रस्तमिति सोऽयम् 'काकमांसं शुनोच्छिष्टं [ दुर्गन्धं कृमिसंकुलम् । श्लेष्मपक्वं सुरासिक्तम् ] स्वल्पं तदपि दुर्लभम् ।' इति न्यायादिति भावः । इति उक्तहेतोः । त्याज्ये भवे संसारे । भवतीति भव्यो योग्यो जनः । भवादृश इति शेषः । 'भव्यं सुखे शुभे चापि भव्यवद्योग्यभाविनोः इति विश्वः । 'भव्यगेये-'त्यादिना कर्तरि निपातः । मुक्तौ मोक्ष उत्तिष्ठत उद्युक्तो भवति । 'उदोऽनूर्ध्वकर्मणि' इत्यात्मनेपदम् ॥ १३ ॥
हिन्दी— (हे वत्स !) निरन्तर आपत्तिवाले प्राणीका यमराज प्रतिरोध करनेवाला है, इस कारणसे त्यागके योग्य संसारमें तुम-सा योग्यजन मुक्तिके लिए उद्योग करता है ॥ १३ ॥
संप्रति प्रशंसापूर्वकं स्वाभिसन्धि दर्शयति —
चित्तवानसि कल्याणी यत्त्वां मतिरूपस्थिता ।
विरुद्धः केवलं वेषः संदेहयति मे मनः ॥ १४ ॥
मल्लि०— चित्तवानिति । चित्तवान् प्रशस्तचित्तोऽसि । प्रशंसायां मतुप् । कुतः । यत् यतः, त्वां कल्याणी साध्वी । 'बह्वादिभ्यश्च' इति ङीष् । मतिरूपस्थिता संगता । किंतु केवलमेकं यथा तथा विरुद्धो वेषो मे मनः संदेहयति संशययुक्तं करोति । यद्वा—वेषः केवलम् । वेष एवेत्यर्थः । 'केवलः कृत्स्न एके च केवलं चावधारिते' । इत्युभयत्रापि शाश्वतः ॥ १४ ॥
हिन्दी— (हे वत्स !) तुम प्रशस्त चित्तवाले हो, जो कि तुमको कल्याणमयी बुद्धि उपस्थित हो गई है; परन्तु तुम्हारा ( परस्पर ) विरुद्ध वेष ही मेरे मनको सन्देहयुक्त कर रहा है ॥ १४ ॥
वेषविरोधमेवाह—
युयुत्सुरिव कवचं किमामुक्तमिदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ॥ १५ ॥
२२० | किरातार्जुनीयम्
मल्लि०—युयुत्सुनेति। युयुत्सुनेव योद्धुमिच्छुनेव त्वया। युधेः सन्नन्तादुः प्रत्ययः। किमिदं कवचं वर्म। आमुक्तमर्पितम्। तत्र को विरोध इत्यत्राह—यस्मात् तपस्विनः केवले एके। कवचाद्यसहचरिते इति यावत्। ते च ते अजिने वल्कले च। 'निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः' इत्यमरः। वसत आच्छादयन्ति। अतस्तपस्विनस्ते कवचधारणं विरुद्धमित्यर्थः॥ १५॥
हिन्दी—(हे वत्स!) लड़नेकी इच्छा करनेवालेके समान तुमने इस कवचको क्यों धारण किया है? क्योंकि तपस्वी पुरुष तो केवल मृगचर्म और वल्कलको धारण करते हैं॥ १५॥
प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे।
महेषुधी धनुर्भीमं भूतानामनभिद्रुहः॥ १६॥
मल्लि०—प्रपित्सोरिति। किं च, मुक्तिं प्रपित्सोः प्राप्तुमिच्छोः। 'सनि मीमे—'त्यादिनेसादेशः। अत्र 'लोपोऽभ्यासस्य' इत्यभ्यासलोपः। अतो मुमुक्षुत्वादेव कलेवरे शरीरे गतस्पृहस्य निःस्पृहस्य। अतो नात्मरक्षार्थं धनुर्धारणं युक्तमित्यर्थः। नापि परहिंसार्थमित्याह—भूतानां जन्तूनाम्। 'क्ष्मादौ जन्तौ च भूतानि' इति वैजयन्ती। 'क्रुधद्रुहोरुपसृष्टयोः कर्म' इति कर्मसंज्ञायां 'कर्तृकर्मणोः कृति—' इति कर्तरि षष्ठी। अनभिद्रुहोऽहिंसकस्य। 'सत्सूद्विषे—'त्यादिना क्विप्। ते तव महेषुधी महानिषङ्गौ भीमं त्रासजनकं धनुश्च। न समर्थयते शममित्युत्तरेणान्वयः। 'समर्थयतः' इति वचनविपरिणामः कार्यः॥ १६॥
हिन्दी—(हे वत्स!) मुक्ति पानेकी इच्छा करनेवाले अतः शरीरमें निःस्पृह और प्राणियोंका द्रोह न करनेवाले तुम्हारे ये तरकश और भयंकर धनु (शान्तिका समर्थन नहीं करते हैं)॥ १६॥
भयंकरः प्राणभृतां मृत्योर्भुज इवापरः।
असिस्तव तपःस्थस्य न समर्थयते शमम्॥ १७॥
मल्लि०—भयंकर इति। तथा, मृत्योरपरो भुज इव प्राणभृतां प्राणिनां भयं करोतीति भयंकरः। 'मेघर्तिभयेषु कृञः' इति खच्प्रत्ययः। 'अरुर्द्विष—'त्यादिना मुमागमः। असिः खड्गः। तपसि तिष्ठतीति तपःस्थः। तपश्चरन्नित्यर्थः। 'सुपि स्थः' इति कप्रत्ययः। तस्य, तव शमं शान्तिं न समर्थयते न संभावयति। किं शान्तस्य शस्त्रेणेति भावः॥ १७॥
एकादशः सर्गः २२१
हिन्दी—(हे वत्स !) मृत्युके दूसरे बाहुके समान प्राणियोंको भयंकर तुम्हारी तलवार शान्तिका समर्थन नहीं कर रही है ॥ १७ ॥
नन्वशान्तस्य किं तपसेत्याशङ्क्य जयार्थमित्याह—
जयमत्रभवान्नूनमरातिष्वभिलाषुकः ।
क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥ १८ ॥
मल्लि०—जयमिति । अत्रभवान् पूज्य इत्यर्थः । ‘इतरेभ्योऽपि दृश्यन्ते’ इति प्रथमार्थे प्राग्दिशीयस्त्रल्प्रत्ययः । सुप्सुपेति समासः । ‘त्रिषु तत्रभवान् पूज्यस्तथैवात्रभवानपि’ इति यादवः । अरातिषु शत्रुपु विषये जयमभिलाषुको जयमिच्छुः । ‘लषपते—’त्यादिनोकञ्प्रत्ययः । ‘न लोके--’त्यादिना षष्ठीप्रतिषेधः । नूनमिति निश्चये । ‘नूनं तर्केऽपि निश्चये’ इत्यमरः । क्रोधस्य लक्ष्म कोपस्य लिङ्गम् । आयुधं क्व । क्षमावन्तः शान्ताः तपोधनाः क्व । क्रोधशान्त्योविरोधात् तत्कार्ययोः शस्त्रतपसोरप्येकत्रासङ्गतेश्च शस्त्रिणस्ते तपो जयार्थं न तु मोक्षार्थमिति निश्चय इत्यर्थः ॥ १८ ॥
हिन्दी—(हे वत्स !) पूजनीय आप निश्चय ही शत्रुओंमें विजयका अभिलाष करते हैं, क्योंकि क्षमावाले तपस्वीलोग कहाँ और क्रोधका चिह्नस्वरूप हथियार कहाँ ? ॥ १८ ॥
तपसो जयार्थत्वे दोषमाह—
यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः ।
ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥ १९ ॥
मल्लि०—य इति । यः पुमान् । निश्चितं श्रेयो निःश्रेयसं मुक्तिः । ‘अचतुरे—’त्यादिना समासान्तो निपातः । ‘मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्’ इत्यमरः । निःश्रेयसं कुर्वन्तीति निःश्रेयस्करीः । निःश्रेयसहेतूनित्यर्थः । ‘कृञो हेतुताच्छील्यानुलोम्येषु’ इति हेत्वर्थे टप्रत्ययः । टित्त्वान्ङीप् । क्रियास्तपोदानादिकर्माणि वधोदर्का हिंसाफलकाः करोति । ‘उदर्कः फलमुत्तरम्’ इत्यमरः । अत एव मूढः स पुमान् । ग्लानिरेव दोषस्तं छिन्दन्तीति ग्लानिदोषच्छिदः पिपासाहारिणीः । क्विप् । स्वच्छा निर्मला अपः पङ्कयति पङ्कवतीः करोति । ‘णाविष्ठवद्भावे विन्मतोर्लुक्’ इति मतुपो लुक् । महाफलसाधनस्य तपसस्तुच्छफलैर्विनियोगः स्वच्छाम्बुनः पङ्कसङ्करवत् प्रेक्षावद्भिर्गर्हित इत्यर्थः । अत्र ‘यत्तपसो वधोदर्का—
| २१२ | किरातार्जुनीयम् |
|---|
करणं तन्निर्मलस्य पयसः पङ्कसंकरीकरणम्' इति वाक्यार्थे वाक्यान्तरसमारोप-प्रतिबिम्बकरणाक्षेपादसंभवद्वस्तुसंबन्धाद्वाक्यार्थवृत्तिनिदर्शनालंकारः ॥ १९ ॥
**हिन्दी—**जो पुरुष मोक्ष करनेवाली क्रियाओंको हिंसाका कारण बनाता है वह मूर्ख म्लानिरूप दोषको हटाने निर्मल जलको कीचड़वाला बना देता है ॥१९॥
नन्वर्थकामयोरपि मोक्षवत्पुरुषार्थत्वात्तत्पसतदर्थत्वे को दोषस्तत्राह—
मूलं दोषस्य हिंसादेरर्थकामो स्म मा पुषः ।
तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ॥ २० ॥
**मल्लि०--**मूलमिति । हिंसादेरिति तद्गुणसंविज्ञानो बहुव्रीहिः । 'आदि'-शब्दात् अनृतस्तेयादीनां संग्रहः । दोषस्य अवगुणस्य मूलं कारणभूतौ । 'स्त्रीकामा धनकामाश्च किं न कुर्वन्ति पातकम्' । इति भावः । अर्थकामो मा स्म पुषो नोपचिनुष्व । 'स्मोत्तरे लङ् च' इति लङ् । 'पुषादी-'त्यादिना च्लेरङादेशः । हि यस्मात्, तौ अर्थकामो तत्त्वावबोधस्य तत्त्वज्ञानस्य । मोक्षसाधनस्येति शेषः । दुरुच्छेदौ दुर्वारौ उपप्लवौ हिंसादिप्रवर्त्तकत्वादन्तको । अतः पुरुषार्थपरिपन्थिनाच्चैतौ न पुरुषार्थावित्यर्थः ॥ २० ॥
हिन्दी—( हे वत्स ! ) हिंसा आदि दोषके कारणस्वरूप अर्थ और कामको मत बढ़ाओ, क्योंकि वे (अर्थ और काम) मोक्षके साधनस्वरूप तत्त्वज्ञानके दुःखसे हटाये जानेवाले नाशक हैं ॥ २० ॥
मुक्तिप्रतिबन्धकत्वादपुरुषार्थावर्थकामावित्युक्तम्, तत्रार्थस्य दुःखनिदानत्वादप्यपुरुषार्थत्वमिति पञ्चभिः प्रपञ्चयति—
अभिद्रोहेण भूतानामर्जयन् गत्वरीः श्रियः ।
उदन्वानिव सिंधूनामापदामेति पात्रताम् ॥ २१ ॥
**मल्लि०--**अभिद्रोहेणेत्यादि । भूतानामभिद्रोहेण हिंसया गत्वरीरस्थिराः श्रियः संपदोऽर्जयन् जनः । उदकमस्तीति उदन्वानुदधिः । 'उदन्वानुदधौ च' इति निपातनात्साधुः । सिंधूनां नदीनामिव आपदां विपदां पात्रतां मूलत्वम् एति । २१।
**हिन्दी—**जो पुरुष प्राणियोंकी हिंसासे अस्थिर सम्पत्तिका उपार्जन करता है वह जैसे नदियोंका आश्रय समुद्र होता है वैसे ही आपत्तियोंका आश्रय हो जाता है ॥ २१ ॥
एकादशः सर्गः २२३
एकादशः सर्गः २२३
आपत्पात्रतामेव व्यनक्ति—
या गम्याः सत्सहायानां, यासु खेदो भयं यतः ।
तासां किं यन्न दुःखाय विपदामिव संपदाम् ॥ २२ ॥
मल्लि०— या इति। याः संपदः सत्सहायानां विद्यमानसाधनानामेव पुंसां गम्याः, प्राप्याः। विपदोऽपि सत्सहायानामेव गम्याः। निस्तीर्या इत्यर्थः। 'कृत्यानां कर्तरि वा' इति षष्ठी। यासु सतीषु खेदः रक्षणादिक्लेशः। विपत्सु स्वत एवेति विशेषः। यतो याभ्यः संपद्भ्यो भयम्। अनेकानर्थमूलत्वादिति भावः। विपद्भ्यस्तु स्वरूपत एवेति भावः। किं बहुना, विपदामिव तासां संपदां संबन्धि न किम्। अस्तीति शेषः। यद्दुःखाय न भवति। सर्वं दुःखावहमेवेति भावः। यदाहुः—'अर्थानामर्जने दुःखमर्जितानां च रक्षणे। नाशे दुःखं, व्यये दुःखं, धिगर्थं दुःखभाजनम्।' इति। अतो हेया इति भावः। अत्र 'यन्न दुःखाये'त्युत्तरवाक्यस्य यच्छब्दसामर्थ्यात्तासां किमपि पूर्ववाक्ये तच्छब्दोपादानं नापेक्षते। तदेतत्काव्य-प्रकाशे स्पष्टम् ॥ २२ ॥
हिन्दी— जो संपत्तियां सहायवालोंसे ही पाई जानेवाली हैं, जिनके रहने पर रक्षण आदि क्लेश होता है, जिन ( सम्पत्तियों ) से भय उत्पन्न होता रहता है वैसी विपत्तियोंके समान सम्पत्तियोंका कौन-सा विषय ऐसा है, जो कि दुःखके लिए नहीं हो ॥ २२ ॥
दुरासदानरीनूग्रान् धृतेर्विश्वासजन्मनः ।
भोगान्भोगानिवाहेयानध्यास्यापन्न दुर्लभा ॥ २३ ॥
मल्लि०— दुरासदानीति। किंच, दुरासदान् दुष्प्रापान्। विश्वासाज्जन्म यस्यास्तस्याः। जन्मोत्तरपदत्वात् व्यधिकरणो बहुव्रीहिः। धृतेः संतोषस्य। उग्रानरीन्। धनिकस्य सर्वत्रानाश्वाससंभवाद्विश्रम्भसुलभशङ्कानित्यर्थः। भुज्यन्त इति भोगास्तान् भोगान् धनानि। आहेयान् अहिषु भवान्। 'दृतिकुशिकेलशिशवस्त्य-हेर्ढञ्' । भोगान् फणानिव। 'भोगः सुखे घने चाहेः शरीरफणयोरपि' । इत्युभय-त्रापि विश्वः। अध्यास्य अधिष्ठाय। आपत् विपत्। न दुर्लभा। आशीविषमूह-मिव नेच्छन्तमेव भोगिनं पुमांसं बलादापदोऽनुसंदधतीत्यर्थः ॥ २३ ॥
हिन्दी— दुःखसे पाये जाने वाले विश्वाससे उत्पन्न सन्तोषके भयङ्कर शत्रुरूप
२२४ | किरातार्जुनीयम्
भोगोंको जो कि तृणोंके कणोंके समान है, उनका आश्रय करनेसे आपत्ति दुर्लभ नहीं अर्थात् सुलभ होती है ॥ २३ ॥
इतोऽपि श्रियो हेया इत्याह— नान्तरज्ञाः श्रियो जातु, प्रियैरासां न भूयते । आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ॥ २४ ॥
**मल्लि०—**नेति । श्रियः संपदो जातु कदाचित् । अन्तरज्ञा नीचानीचविशेषाभिज्ञा न भवन्ति । अत एव, आसां श्रियां प्रियैर्न भूयते । न ताः कुत्राप्यनुरज्यन्तीत्यर्थः । नन्वयं स्त्रीदोष इति चेत्तत्राह—मूढा अमी जनाः तासु अननुरक्तास्वपि स्त्रीषु आसक्ताः । स्त्रीष्विव श्रीष्वननुरक्तास्वनुरागः पुंसामेवायं दोष इत्यर्थः । विरुद्धं हि तास्वेव सर्वेषामासक्तिरित्यर्थान्तरं न्यस्यति—वामेति । जन्तवो वामशीला वक्रस्वभावा हि । स्वभावस्य दुर्वारत्वादिति भावः ॥ २४ ॥
**हिन्दी--**सम्पत्तियाँ कभी भी 'यह नीच है यह उदार है' ऐसे भेदको जानकार नहीं होती हैं, कोई भी पुरुष इनका प्रिय नहीं होता है, मूढ पुरुष ही इनमें आसक्त होते हैं, क्योंकि प्राणीलोग वक्र स्वभाववाले होते हैं ॥ २४ ॥
यदुक्तम्—'नान्तरज्ञाः श्रियः' ( श्लो० २४ ) इति, तदेव भङ्ग्यन्तरेणाह— कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः । साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव संपदः ॥ २५ ॥
**मल्लि०--**क इति । यत् संपदोऽशीलेषु दुःशीलेषु विषये चञ्चला अस्थिराः। न तद्विरुद्धमुच्यते, यतः चञ्चला इति । अतः स्तुतिविषये तत्र कोऽपवादः का निन्दा किन्तु क्षुद्राः संपदः साधुवृत्तानपि विक्षिपन्त्येव जहत्येव । तदेव तासां निन्दापदमित्यर्थः । तस्मादर्थो न पुरुषार्थ इति संदर्भार्थः ॥ २५ ॥
**हिन्दी--**सम्पत्तियाँ दुःशील जनोंमें चञ्चल होती हैं इस स्तुतिके विषयमें क्या निन्दा है ? किन्तु क्षुद्र सम्पत्तियाँ सच्चरित्र जनोंको भी छोड़ ही देती हैं ॥२५॥
ननु नार्थमहमर्थये, किन्तु वीरधर्ममनुपालयन् वैरनिर्यातनिमिच्छामीत्याह, यद्यपि तदपि परपीडात्मकत्वादयुक्तमिति श्लोकचतुष्टयेनाचष्टे— कृतवानन्यदेहेषु कर्ता च विधुरं मनः । अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह ॥ २६ ॥
**मल्लि०—**कृतवानिति । शत्रास्मद्दृष्टान्तेनैव परपीडातो निवर्तितव्यमित्याशये-
एकादशः सर्गः २२५
एकादशः सर्गः २२५
नाह – अप्रियैरनिष्टवस्तुभिः संयोग इव प्रियैरिष्टवस्तुभिः सह विप्रयोगो विरहोऽन्यदेहेषु स्वस्यैव देहान्तरेषु अतीतानागतेष्विति शेषः । मनो विधुरं दुःखितं कृतवान् कर्ता करिष्यति च । भविष्ये लुट् । तद्वर्तमाने चानुभूयत इति शेषः । इष्टनाशो दुःखहेतुरिति सर्वत्रापि त्रैकालिकसिद्धमिति श्लोकार्थः ॥ २६ ॥
**हिन्दी—**अप्रियों (अनिष्ट वस्तुओं) से संयोगके समान प्रियों (इष्ट वस्तुओं) से वियोगने अपने अन्य शरीरोंमें मनको दुःखित किया है और करेगा भी ॥ २६ ॥
संप्रतीष्टसमागमस्य सुखहेतुत्वमाह—
शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः । विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ॥ २७ ॥
**मल्लि०—**शून्यमिति । प्रियसमागम इष्टजनसंयोगे सति शून्यं रिक्तमपि आकीर्णतां संपूर्णताम्, एति । समृद्धिमिव ? प्रतीयत इत्यर्थः । व्यसनं विपदपि उत्सवैस्तुल्यम् । 'व्यसनं विपदि भ्रंशे' इत्यमरः । विप्रलम्भो वञ्चना । प्रतारणमिति यावत् । सोऽपि लाभाय । किं बहुना, प्रियसङ्गस्य सर्वावस्थास्वपि सुखमेवेत्यर्थः ॥ २७ ॥
**हिन्दी—**प्रियजनके समागममें शून्य भी परिपूर्ण हो जाता है और विपत्ति भी उत्सवोंके समान प्रतीत होती है प्रतारण भी लाभके लिए हो जाती है ॥२७॥
पुनः प्रकारान्तरेण विप्रयोगस्य दुःखहेतुत्वमाह—
तदा रम्याप्यरम्याणि, प्रियाः शल्यं तदासवः । तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ॥ २८ ॥
**मल्लि०—**तदेति । तदा रम्याण्यपि अमनोहराणि भवन्ति । किं बहुना, प्रिया असवः प्राणा अपि शल्यम् । शल्यवदसह्या भवन्तीत्यर्थः । किंच, तदा सबन्धुः सन्नपि, एकाकी असहाय एव । 'एकादाकिनिच्चासहाये' इत्याकिनिच्प्रत्ययः । यदा इष्टेन रहितो भवति तदा सर्वमसह्यमिति ॥ २८ ॥
**हिन्दी—**इसके विपरीत जब प्रियसे रहित (वियुक्त) होता है तब सुन्दर पदार्थ भी असुन्दर हो जाते हैं। प्रीतिके विषय प्राण भी कण्टक-सा हो जाता है, उस समय बन्धुओंके साथ रहता हुआ भी अकेला-सा हो जाता है ॥ २८ ॥
१५ कि०
२२६ | किरातार्जुनीयम्
युक्तः प्रमाद्यसि, हितादपेतः परितप्यसे । यदि नेच्छात्मनः पीडा मा सञ्जि भवता जने ॥ २९ ॥
**मल्लि०—**युक्त इति । किंच, युक्तः, हितेनेति शेषः । हितेनेष्टेन युक्तः सन् प्रमाद्यसि प्रकर्षेण माद्यसि हृष्यसि । हितादपेतः परितप्यसे परितप्तो भवसि । तपेर्दैवादिकात्कर्तरि लट् । सत्यमेवं ततः किमत आह—यदीति । पीडा बाधः स्वस्य च नेष्टा यदि तर्हि भवता जने परस्मिन्नपि मा सञ्जि न सञ्ज्यताम् । सञ्जतेर्ण्यन्तात्कर्मणि लुङ् । आत्मदृष्टान्तेन परपीडातो निवर्त्तितव्यमित्यर्थः । पीडायाः परात्मनोः समत्वात् ॥ २९ ॥
हिन्दी—( हे वत्स ! ) हितसे युक्त होकर बहुत ही प्रसन्न होते हो, परन्तु हितसे रहित होकर सन्तप्त हो जाते हो, इसलिए तुम दुःख भोगना नहीं चाहते हो तो अन्य जनमें आसक्त मत बनो ॥ २९ ॥
अथ देहास्थैर्याश्रद्धया च परपीडा न कार्येत्याह—
जन्मिनोऽस्य स्थितिं विद्वाँल्लक्ष्मीमिव चलाचलाम् । भवान्मा स्म वधीन्न्याय्यं, न्यायाधारा हि साधवः ॥ ३० ॥
**मल्लि०--**जन्मिन इति । अस्य जन्मिन उत्पत्तिधर्मकस्य शरीरिणः । व्रीह्यादित्वादिनिः । स्थितिं लक्ष्मीमिव चलाचलां चञ्चलां जन्मधर्मत्वादेव चञ्चलामनित्यामित्यर्थः । चलतेः पचाद्यच् । ‘चरिचलिपत्तिवदीनां वा द्वित्वमभ्यासस्यात्वं सद्येति वक्तव्यम्’ इति द्वित्वः । अभ्यासस्यागागमश्च । विद्वान् । जानन्नित्यर्थः । ‘विदेः शतुर्वसुः’ इति वैकल्पिको वसुरादेशः । भवान् । न्यायादनपेतं न्याय्यम् । ‘धर्मपथ्यर्थन्यायादनपेते’ इति यत्प्रत्ययः । मा स्म वधीत् । मा नाशयदित्यर्थः । ‘स्मोत्तरे लङ् च’ इति लङ् । ‘लुङि च’ इति हनो वधादेशः । ‘शेषे प्रथमः’ इति प्रथमपुरुषः । हि यस्मात् साधवो न्यायाधारा न्यायावलम्बाः । बहुव्रीहिस्तत्पुरुषो वा । न्यायत्यागे साधुत्वमेव न स्यादिति भावः । ‘न्यायाचाराः’ इति पाठे न्यायमाचरन्तीति तथोक्ताः । कर्मण्यण् ॥ ३० ॥
**हिन्दी—**इस जन्मवाले ( प्राणी ) की स्थितिको लक्ष्मीकी तरह चञ्चल ( अस्थिर ) जानते हुए तुम न्याय्य ( न्यायसे युक्त ) विषयका नाश मत करो, क्योंकि सज्जनलोग न्यायका अवलम्बन करनेवाले होते हैं ॥ ३० ॥