किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 474, कुल 707 में से
संदर्भ में पढ़ें| २१६ | किरातार्जुनीयम् |
|---|
मल्लि०—ग्रासङ्केति। पुनश्च, परिकृशंः परिशीर्णैरपि, आसक्तभरनीकाशैः भराक्रान्तसदृशैः । सभारवद्गुरुभवद्भिरित्यर्थः । 'हरूः काशे' इति दीर्घः। बहुभिः उपलक्षितः। कार्श्यादलघून्यपि स्वाङ्गानि स्वयं वोढुमसमर्थ इत्यर्थः । अत एव आधूनः औदरिकः । 'आधूनः स्यादौदरिको विजिगीषाविवर्जिते' इत्यमरः। आङ्पूर्वाद्धाञ्स्तेः क्तः। 'उदात्तोऽनुनासिके च' इत्यूठादेशः । 'दिवाऽविजिगीषायाम्' इति निपात्यम् । सदगृहिण्याऽनुकूलकलत्रेण इव प्रायः प्राचुर्येण यष्ट्याऽवलम्बनदण्डेन । अवलम्बितो धारितः । न तु स्वशक्त्येति भावः ॥ ५ ॥
हिन्दी—दुबले होने हुए भी भारसे आक्रान्तके समान अङ्गोंवाले अतएव जीतनेको इच्छासे रहित खाली पेट भरना ही चाहनेवाले अतएव अनुकूल पत्नीके समान प्रायः दण्डका अवलम्बन करनेवाले इन्द्रदेवको पुत्र अर्जुनने देखा ॥ ५ ॥
गूढोऽपि वपुषा राजन् धाम्ना लोकाभिभाविना ।
अंशुमानिव तन्वभ्रपटलच्छन्नविग्रहः ॥ ६ ॥
मल्लि०—गूढ इति। वपुषा गूढोऽपि । प्रच्छन्नरूपोऽपीत्यर्थः । प्रकृत्यादिभ्य उपसंख्यानात्तृतीया । तन्वभ्रपटलच्छन्नविग्रहः स्तोकाभ्रवृन्दाऽन्तरितमूर्तिः । अंशुमानिव लोकाभिभाविना लोकव्यापिना धाम्ना तेजसा । 'धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः' इति हेमचन्द्रः । राजन् दीप्यमानो ददृशे इति पूर्वेण संबन्धः ॥ ६ ॥
हिन्दी—शरीरसे प्रच्छन्न रूपवाले होकर भी थोड़ेसे मेघोंसे व्यवहित मूर्तिवाले सूर्यके समान लोकको व्याप्त करनेवाले तेजसे प्रकाशित होते हुए इन्द्रको अर्जुनने देखा ॥ ६ ॥
जरतीमपि बिभ्राणस्तनुमप्राकृताकृतिः ।
चकाराक्रान्तलक्ष्मीकः ससाध्वसमिवाश्रमम् ॥ ७ ॥
मल्लि०—जरतीमिति । जरतीं जीर्णाम् । 'जीना जीर्णा जरन्नपि' इत्यमरः । जीर्यतेरतीतार्थे शतृप्रत्ययः । 'उगितश्च' इति ङीप् । तनुं शरीरं बिभ्राणोऽपि दधदपि अप्राकृताऽलोकसामान्या आकृतिर्मूर्तिर्यस्य स इन्द्र आक्रान्ताऽभिभूता लक्ष्मीराश्रमशोभा येन स आक्रान्तलक्ष्मीकः । अत्र 'उरःप्रभृतिभ्यः कप्' इति नित्यकबाश्रयणम् । एकवचनोत्तरपदस्यैव 'लक्ष्मी' शब्दस्योरःप्रभृतिषु पाठात् । 'शेषाद्विभाषा' इति विकल्पाश्रयणे तु बहुवचनोत्तरपद इति विवेकः । आश्रमं