किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 475, कुल 707 में से
संदर्भ में पढ़ेंएकादशः सर्गः २१७
-ससाध्वसमिव चकार। तेजस्विदर्शनाद्भयं भवति। यत्तु न दुःखजनकं तस्यामानुष- त्वादिति सूचयितुम् 'इव' शब्दः ॥ ७ ॥
हिन्दी — जीर्ण शरीरका धारण करते हुए भी अलौकिक आकारवाले इन्द्रने आश्रमसीमाका आक्रान्त करके आश्रमको भयभीत-सा कर दिया ॥ ७ ॥
अभितस्तं पृथासूनुः स्नेहेन परितस्तरे।
अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः ॥ ८ ॥
मल्लि० — अभित इति। पृथासूनुरर्जुनः। तम् इन्द्रम्। अभितस्तं प्रति स्नेहेन परितस्तरे। तद्गोचरेण प्रेम्णा पर्याप्तः। स्तृणातेः कर्मणि लिट्। 'ऋतश्च संयोगादेर्गुणः' इति गुणः। नन्वजातसम्बन्धविशेषस्य तस्येन्द्रे कथं स्नेहोदय इत्यत आह -- अविज्ञात इति। बन्धौ सुहृदि। अविज्ञातेऽपि बन्धुरयमित्यज्ञातेऽपि बलाद्बान्धवसत्तावशादेव मनः प्रह्लादते हि स्निह्यतीत्यर्थः ॥ ८ ॥
हिन्दी — पृथापुत्र (अर्जुन) इन्द्रके प्रति स्नेहसे व्याप्त हो गये, क्योंकि बन्धुके अपरिचित होनेपर भी मन हठात् स्नेह करता है ॥ ८ ॥
आतिथेयीमथासाद्य सुतादपचितिं हरिः।
विश्रभ्य विष्टरे नाम व्याजहारेति भारतीम् ॥ ९ ॥
मल्लि० — आतिथेयीमिति। अथ हरिरिन्द्रः सुतादर्जुनात्। आतिथेयीम्। अतिथिषु साध्वीम्। 'पथ्यतिथिवसतिस्वपतेर्ढञ्' अपचितिं पूजाम्। आसाद्य प्राप्य 'पूजा नमस्याऽपचितिः' इत्यमरः। विष्टरे आसने। 'ऋदोरप्' इति स्तृणातेरप्रत्ययः। 'वृक्षासनयोर्विष्टरः।' इति षत्वम्। विश्रभ्य नाम विश्रभ्य किल। श्रममपनीयेत्यर्थः। इति वक्ष्यमाणप्रकारां भारतीं व्याजहार उक्तवान्। 'व्याजहार उक्तिर्लपितम्' इत्यमरः ॥ ९ ॥
हिन्दी — तदनन्तर इन्द्रने पुत्र (अर्जुन) से अतिथिसत्कार पाकर आसनमें विश्राम कर अर्जुनके प्रति ऐसी वाणीको प्रकाश किया ॥ ९ ॥
त्वया साधु समारम्भि नवे वयसि यत्तपः।
ह्रियते विषयैः प्रायो वर्पीयानपि मादृशः ॥ १० ॥
मल्लि० — त्वयेति। त्वया साधु समारम्भि सम्यगुपक्रान्तम्। रभेः कर्मणि लुङ्। कुतः। यद् यस्मात्। नवे वयसि यौवने। तपश्चर्यत इति शेषः। तथा