भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

एकादशः सर्गः। २२७

तर्हि किं मे कर्तव्यं तत्राह— विजहीहि रणोत्साहं, मा तपः साधु नीनशः। उच्छेदं जन्मनः कर्तुमेधि शान्तस्तपोधन ! ॥ ३१ ॥

मल्लि०—विजहीहीति। हे तपोधन ! रणोत्साहं रणोद्योगम्। लोकोत्तरेषु कार्येषु स्थेयान्प्रयत्न उत्साहस्तं विजहीहि त्यज। 'आ च हौ' इतीकारः। साधु समीचीनम्। निःश्रेयसकरत्वादिति भावः। तपो मा नीनशो न नाशय। नश्यतेर्ण्यन्तान्माङ्‌योगेदाशिषि लुङ् अडागमनिषेधश्च किन्तु जन्मन उच्छेदं साधयितुमित्यर्थः। शान्त एधि। विजिगीषानिवृत्तो भवेत्यर्थः। 'हुश्झल्भ्यो हेर्धिः' धिः। 'ध्वसोरेद्धावभ्यासलोपश्च' इत्येकार इति ॥ ३१ ॥

हिन्दी—(हे तपस्विन् !) युद्धमें उत्साहको छोड़ दो, उत्तम तपस्या नष्ट मत करो, जन्मका उच्छेद (नाश) करनेके लिए अर्थात् मोक्षको प्राप्त करनेके लिए शान्त बनो ॥ ३१ ॥

अथ सर्वथा मे विषयकण्डूतिर्न निवर्तत इत्याशङ्क्य तर्ह्यन्तःशत्रुविजयेन विधीयतां तदपनोद इत्याह— जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः। जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः ॥ ३२ ॥

मल्लि०—जीयन्तामिति। दुर्जया अजय्याः। चक्षुरादयो देहे वर्तमाना रिपवो जीयन्ताम्। यस्मात् तेषु अन्तःशत्रुषु जितेषु सत्सु त्वयाऽयं कृत्स्नो लोको जितो ननु। किमुतान्ये शत्रवस्तदन्तर्गता इत्यर्थः। जितेन्द्रियस्येन्द्रियार्थानिःस्पृहस्य निर्भरवैरानुदयाद्विजयव्यपदेशः ॥ ३२ ॥

हिन्दी—(हे वत्स !) नहीं जीते जानेवाले शरीरमें वर्तमान नेत्र आदि शत्रुओंको जीत लो, क्योंकि उन शत्रुओंको जीतनेपर समस्त लोकको तुम जीत जाओगे ॥ ३२ ॥

अजितेन्द्रियस्यानिष्टमाचष्टे— परवानर्थसंसिद्धौ, नीचवृत्तिरपत्रपः। अविधेयेन्द्रियः पुंसां गौरिवेति विधेयताम् ॥ ३३ ॥

मल्लि०—परवानिति। अर्थसंसिद्धौ भव्यवहारार्दिस्वार्थसाधके परवान् पराधीनः। 'परतन्त्रः पराधीनः परवान्' इत्यमरः। नीचवृत्तिः कर्षणावहनादि-

२२८किरातार्जुनीयम्

कृष्टकर्मा । अपत्रपो निर्लज्जोऽविधेयेन्द्रियोऽजितेन्द्रियः पुमान् गोर्बलीवर्द इव पुंसां विधेयतां यथोक्तकारिताम् । प्रेष्यतामिति यावत् । 'विधेयो विनयग्राही वचने स्थित आश्रवः' । इत्यमरः । एति प्राप्नोति । उपमालंकारोऽयम्—'प्रकृतयोरैक-साधर्म्यात् श्लेषे तु शब्दमात्रसाधर्म्यम्' इति ॥ ३३ ॥

हिन्दी—प्रयोजनकी सिद्धिके लिए पराऽधीन, नीच कर्म करनेवाला, लज्जासे रहित और इन्द्रियोंको वशमें नहीं करनेवाला पुरुष बैलके समान अन्य पुरुषोंका वशवर्ती हो जाता है ॥ ३३ ॥

न केवलं हिंसादिदोषमूलत्वाद्विषयाणां हेयत्वम्, किन्तु अपारमार्थिकत्वादपीत्याह—

श्वस्त्वया सुखसंवित्तिः स्मरणीयाऽधुनातनी ।
इति स्वप्नोपमान् मत्वा कामान् मा गास्तदङ्गताम् ॥ ३४ ॥

मल्लि०—श्व इति । अधुना भवा अधुनातनी इदानींतनी । 'सायंचिर-'मित्यादिना ट्युप्रत्ययः । सुखसंवित्तिः सुखानुभवः श्वः परेऽहनि त्वया स्मरणीया । न त्वनुभवनीया । इति हेतोः । काम्यन्त इति कामा विषयास्तान् स्वप्नोपमान् स्वप्नतुल्यान् । मत्वाऽवास्तविकान्निश्चित्य तदङ्गतां तच्छेषत्वं मा गा न गच्छ । 'इणो गा लुङि' इति गादेशः ॥ ३४ ॥

हिन्दी—(हे वत्स ! ) इस समय हुए सुखके अनुभवको दूसरे दिन तुम्हें स्मरण (याद) करना चाहिए, इस कारणसे शब्द स्पर्श आदि विषयोंको स्वप्नके समान निश्चय करके विषयोके अधीन मत बनो ॥ ३४ ॥

अतो हेयाः कामा इत्याह—

श्रद्धेया विप्रलब्धारः, प्रिया विप्रियकारिणः ।
सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ॥ ३५ ॥

मल्लि०—श्रद्धेया इति । श्रद्धातुमर्हा श्रद्धेया विश्वसनीयतया विप्रलब्धारः प्रतारकाः । विश्वासघातका इत्यर्थः । तथा, प्रीणयन्तीति प्रियाः प्रीतिजनकाः । 'इगुपधे-'त्यादिना कप्रत्ययः । तथापि विप्रियकारिणो दुःखजननशीलाः । किञ्च, त्यजन्तोऽपि पुरुषं विहाय गच्छन्तोऽपि सुदुस्त्यजाः स्वयत्नेन त्यक्तुमशक्याः कामा विषयाः कष्टाः कुत्सिताः शत्रवो हि प्रसिद्धशत्रवः । वैधर्म्यादिति भावः । यत्र श्रद्धेयत्वादीनां विप्रलम्भकत्वादीनां चैकत्र विरोधो विषयस्वाभाव्येन समाधीयत

एकादशः सर्गः २२९

इति विरोधाभासोऽलंकारः । तेन च कामानां प्रसिद्धशत्रुवैधर्म्यं व्यतिरेकेण व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ ३५ ॥

हिन्दी — शब्द स्पर्श आदि विषय विश्वसनीय होकर भी प्रतारक (ठगनेवाले) होते हैं, प्रीतिजनक होकर भी अप्रिय करनेवाले होते हैं, पुरुषको छोड़कर जाते हुए भी दुखसे छोड़े जानेवाले होते हैं, अतः ये (विषय) कष्टजनक शत्रु (दुश्मन) हैं ॥ ३५ ॥

तर्हि किं कर्तव्यमित्याशङ्क्योपसंहरन्नाह — विविक्तेऽस्मिन्नगे भूयः प्लाविते जह्नुकन्यया । प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः ॥ ३६ ॥

मल्लि० — विविक्त इति । विविक्ते विजने । 'विविक्तविजनच्छन्ननिःशलाकास्तथा रहः' । इत्यमरः । जह्नुकन्यया गङ्गया भूयो भूयिष्ठं पुनः पुनर्वा । 'भूयः पुनः पुनः ख्यातं भूतार्थे पुनरव्ययम्' इति विश्वः । प्लाविते सिक्ते । 'पाविते' इति पाठे पवित्रीकृत इत्यर्थः । अस्मिन्नगे इन्द्रकीले त्वां मुक्तिः पुरा निकटे प्रत्यासीदति । संनिकृष्टा भविष्यतीत्यर्थः । 'पुरा पुराणे निकटप्रबन्धातीतभाविषु' । इति विश्वः । उदायुधो गृहीतशस्त्रो मा भूः । शस्त्रं विमुञ्चेत्यर्थः ॥ ३६ ॥

हिन्दी — एकान्त अथवा पवित्र गङ्गाजीसे वारंवार सेचन किये गये इस इन्द्रकील पर्वतमें तुम्हें मुक्ति समीप आयेगी शस्त्र लेनेवाले मत बनो ॥ ३६ ॥

व्याहृत्य मरुतां पत्याविति वाचमवस्थिते । वचः प्रश्रयगम्भीरमथोवाच कपिध्वजः ॥ ३७ ॥

मल्लि० — व्याहृत्येति । मरुतां पत्यौ देवेन्द्रे, इति वाचं व्याहृत्य उक्त्वा, अवस्थिते सति तूष्णीं स्थिते सति । अथ कपिध्वजोऽर्जुनः प्रश्रयगम्भीरं विनयमधुरम् । 'विनयप्रश्रयौ समौ' इति यादवः । वच उवाच उक्तवान् ॥ ३७ ॥

हिन्दी — ऐसा वाक्य कह कर देवराज इन्द्रके मौन धारण करने पर अर्जुनने विनयसे गम्भीर ऐसा वचन कहा ॥ ३७ ॥

किमुवाचेत्यपेक्षायां चतुर्भिरिन्द्रवाक्यमुपश्लोकयन्नाह — प्रसादरम्यमौजस्वि गरीयो लाघवान्वितम् । साकाङ्क्षमनुपस्कारं विश्र्वद्गति निराकुलम् ॥ ३८ ॥

मल्लि० — प्रसादेति । प्रसादोऽत्र प्रसिद्धार्थपदत्वं तेन रम्यम् । 'प्रसिद्धार्थ-

२३० | किरातार्जुनियम्

पदत्वं यत्स प्रसादो निगद्यते' । इति लक्षणात् । ओजस्वि समासभूयिष्ठम् । 'ओजः समासभूयस्त्वम्' इति शासनात् । गरीयोऽर्थभूयस्त्वपरिगतम् । न तु शब्दाडम्बरमात्रमित्यर्थः । लाघवान्वितं विस्तरदोषरहितम् । साकाङ्क्षम् आकाङ्क्षावतां कदम्बात्मकम् । न तु दशदाडिमादिवाक्यवदनाकाङ्क्षितमित्यर्थः । अनुपस्कारं अध्याहारदोषरहितम् । विष्वग्गति कृत्स्नार्थप्रतिपादकम् । न तु सावशेषार्थम् । अत एव निराकुलमसंकीर्णार्थम् ॥ ३८ ॥

हिन्दी—( हे महोदय ! ) प्रसिद्ध अर्थवाले पदोंसे रमणीय, प्रचुर समासोंयुक्त, प्रचुर अर्थोंवाला, विस्तर दोषसे रहित, आकाङ्क्षावाले पदोंसे सहित, अध्याहार दोषसे रहित और समस्त अर्थोंका प्रतिपादक ॥ ३८ ॥

न्यायनिर्णीतसारत्वान्निरपेक्षमिवागमे ।
अप्रकम्प्यतयाऽन्येषामाम्नायवचनोपमम् ॥ ३९ ॥

**मल्लि०—**न्यायेति । पुनः, न्यायेन युक्त्या निर्णीतसारत्वान्निर्णीततत्त्वार्थत्वाद्धेतोः, आगमे शास्त्रे विषये निरपेक्षं स्वतन्त्रमिव । युक्तिदाढर्यादेवं प्रतीयते वस्तुतस्तु शास्त्रसिद्धार्थमेवेति 'इव' शब्दार्थः । किञ्च, अन्येषां प्रतिवादिनाम् । अप्रकम्प्यतया अनुमानादिभिरबाध्यत्वात्प्रत्याख्याततया आम्नायवचनोपमम् । वेदवाक्यसदृशमित्यर्थः ॥ ३९ ॥

**हिन्दी—**युक्तिसे सारका निर्णय करनेसे शास्त्रके विषयमें अपेक्षा न रखनेवाला (स्वतन्त्रके समान ), अनुमान आदिसे बाध्य न होनेसे वेदवाक्यके समान। ३९॥

अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूजितम् ।
औदार्यादर्थसंपत्तेः शान्तं चित्तमृषेरिव ॥ ४० ॥

**मल्लि०—**अलङ्घ्यत्वादिति । अन्यैर्जनैरलङ्घ्यत्वाद् अनुल्लङ्घनीयत्वात् । क्षुभितोदन्वदूजितम् उद्वेलार्णवोद्गम्भीरम् । औदार्याद्युक्तिविशेषत्वात् । श्लाघ्यविशेषणत्वाद्वा । तदुक्तं दण्डिना—'उत्कर्षवान्गुणः कश्चिदुक्ते यस्मिन्प्रतीयते । तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः । श्लाघ्यैर्विशेषणैर्युक्तमुदारं कैश्चिदिष्यते ॥' इति अग्राम्यार्थत्वात्' इति केचित् । अन्यत्र—त्यागित्वादित्यर्थः । अर्थसंपत्तेः प्रयोजनसंपत्तेः अन्यत्र—अणिमादिसमृद्धेः ऋषेर्मुनेश्चित्तमिव शान्तं सौम्यम् ॥ ४० ॥

**हिन्दी—**अन्य जनोंसे लंघनीय न होनेसे क्षुब्ध समुद्रके समान गम्भीर, युक्ति विशेष और प्रयोजन सम्पत्तिके कारण ऋषिके चित्तके समान सौम्य ॥ ४० ॥

एकादशः सर्गः २११

एकादशः सर्गः २११

इदमीदृग्गुणोपेतं लब्धावसरसाधनम् । व्याकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ॥ ४१ ॥

मल्लि० — इदमिति । इदमीदृग्गुणोपेतं यथोक्तगुणयुक्तम् । इदमपपदाद् दृशेः क्विप् । 'इदंकिमोरिशकी' इतीशादेशः । लब्धे प्राप्तेऽवसरसाधने कालोपायौ येन तत् प्रियं प्रीतिकरं वाक्यं को वक्ता व्याकुर्यात् व्याहरेत् । यो वक्ता सोऽनीदृगाशय- ईदृग्विधवाशयाम् न भवति । अनुद्विरित्यर्थः । तस्यार्थस्य वक्तुमशक्यत्वादिति भावः ।

हिन्दी — यह ऐसे गुणोंसे युक्त, अवसर और साधनको प्राप्त, प्रीति करनेवाले ऐसे वाक्यका ऐसे आशयसे रहित कौन पुरुष प्रतिपादन करेगा ? ॥ ४१ ॥

एवमिन्द्रवाक्यमुपश्लोक्य नाहमस्योपदेशस्याधिकारोति परिहरति— न ज्ञातं तात ! यत्नस्य पौर्वापर्यममुष्य ते । शासितुं येन मां धर्मं मुनिभिस्तुल्यमिच्छसि ॥ ४२ ॥

मल्लि० — नेति । हे तात ! अमुष्य तपोरूपस्यास्य मदीययोगस्य पूर्वं चापरं च पूर्वापरे । त एव पौर्वापर्यं कारणं फलं च । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ् प्रत्ययः । ते तव न ज्ञातम् । त्वया न ज्ञायत इत्यर्थः । 'मतिबुद्धो-'त्यादिना वर्तमाने क्तः । तद्योगोदेव षष्ठी । कुतः । येन कारणेन मां मुनिभिस्तुल्यं सदृशं धर्मं मोक्षधर्मं शासितुमुपदेष्टुम् । इच्छसि । शासिरयं दुहादित्वाद् द्विकर्मको ज्ञेयः ॥४२॥

हिन्दी — हे तात ! तपस्यारूप इस मेरे प्रयत्नके कारण और फलको आपने नहीं समझा, जिस कारणसे आप मुझे मुनिके समान मोक्षधर्मका उपदेश देना चाहते हैं ॥ ४२ ॥

अथ पौर्वापर्यमज्ञात्वाप्युपदेशे दोषमाह— अविज्ञातप्रबन्धस्य वचो वाचस्पतेरपि । व्रजत्यफलतामेव नयद्रुह इवेहितम् ॥ ४३ ॥

मल्लि० — अविज्ञातेति । अविज्ञातः प्रबन्धः पूर्वापरसंगतिर्येन तस्य वाच-स्पतेर्बृहस्पतेरपि । कस्कादित्वात्सः । अथवा—'बह्वपाः पतिपुत्रपृष्ठपारपवपयस्योवेषु' इति सकारः । एतस्मादेव ज्ञापकादलुगिति केचित् । वच उपदेशो नयद्रुहो नीति-विरुद्धकारिणः पुरुषस्य । ईहितमुद्योग इव । अफलतां निष्फलतां गच्छेदित्येव ॥४३॥

हिन्दी — पूर्वापर संगतिको न जाननेवाले बृहस्पतिका भी उपदेश, नीति-विरुद्ध आचरण करनेवाले पुरुषके उद्योगके समान निष्फल हो जाता है ॥ ४३ ॥

२३२ | किरातार्जुनीयम्

ननु सदुपदेशस्य कुतो वैफल्यमित्याशङ्क्य सोऽप्यस्थाने प्रयुक्तश्चेदूषरक्षेत्रे शालिबीजवन्निष्फल एवेत्याशयेनाह—

श्रेयसोऽप्यस्य ते तात ! वचसो नास्मि भाजनम् ।
नभसः स्फुटतारस्य रात्रेरिव विपर्ययः ॥ ४४ ॥

मल्लि० — श्रेयस इति । हे तात ! ‘पुत्रे पितरि पूज्ये च तातशब्दं प्रयुञ्जते’ इति । श्रेयसोऽपि हितार्थयोगात्प्रशस्ततरस्यापि । अस्य ते तव वचसो हितोपदेशरूपस्य रात्रेर्विपर्ययो दिवसः स्फुटतारस्य व्यक्ततारकस्य नभस इव भाजनं पात्रं नास्मि । अनधिकारित्वादिति भावः । अत्राह्नो नभोमात्रसम्बन्धसम्भवेऽपि तारासम्बन्धासंभवात्तद्विशिष्टनभःसंबन्धविरोधादुक्तं तारकितस्य नभसो न पात्रमहरिति ॥ ४४ ॥

हिन्दी — हे तात ! जैसे दिन ताराओंसे व्यक्त आकाशका पात्र नहीं होता है, वैसे ही कल्याणकारक होनेपर भी आपके इस हितोपदेशका मैं पात्र नहीं हूँ ॥ ४४ ॥

कुतस्ते मोक्षोपदेशानधिकारित्वम्, किंच, ते तपसः पौर्वापर्यं कथं न वार्य इत्याशङ्क्य तत्सर्वं स्वजात्यादिकथनपूर्वकं निरूपयति—

क्षत्रियस्तनयः पाण्डोरहं पार्थो धनंजयः ।
स्थितः प्रास्तस्य दायादेर्भ्रातुर्ज्येष्ठस्य शासने ॥ ४५ ॥

मल्लि० — क्षत्रिय इति । अहं क्षत्रियः क्षत्रियकुले जातः । तत्रापि महापुण्यप्रसूतः, वीरसंतानश्चेत्याह—पाण्डोस्तनय इति । कौन्तेयोऽस्मि, न माद्रेय इत्याह—पार्थ इति । पृथा कुन्ती, तत्सुतः पार्थः । ‘तस्यापत्यम्’ इत्यण् । अर्जुनोऽहं महावीरश्चेत्याह—धनंजय इति । उत्तरकुरून्विजित्य धनाहरणाद्धनंजयोऽस्मीत्यर्थः । ‘खचिमुमागम’ इत्युक्तं प्राक् । धनंजय इत्युक्ते शरीरस्थो वायुः सर्पविशेषो वा स्यात्तदर्थः पार्थः, गन्धर्वोऽपि कश्चित्पृथासुतोऽस्ति तदर्थं पाण्डोः सुतः, नैमिषारण्ये पाण्डुविप्रस्तत्पत्नी पृथा नाम काचित् ब्राह्मणी तत्पुत्रोऽपि स्यात्तदर्थं क्षत्रिय इति । अयं चेत्किमर्थं तर्हि तपस्यसि, मोक्षार्थं वा किं न तपस्यसि, तत्राह—स्थित इति । दायं पैतृकं धनमाददत इति दायादा ज्ञातयः । ‘दायादा ज्ञातिपुत्रयोः’ इति, ‘विभक्तव्यं पितृद्रव्यं दायमाहुर्मनीषिणः’ । इति च विश्वः । ‘स्वामीश्वरादि’ सूत्रेण सोपसर्गादपि दायादेति कप्रत्ययान्तो निपातनात्साधुः । तैः, प्रास्तस्य राज्यान्निरस्तस्य । वैरिभिर्निर्वासितस्य इत्यर्थः । ज्येष्ठस्य भ्रातुर्युधिष्ठिरस्य । ‘गुरु...

एकादशः सर्गः२३१


शब्दादिष्ठन्प्रत्ययः । वृद्धस्य च ज्यादेशः । शासने निदेशे स्थितः । तदाज्ञया तपस्यामीत्यर्थः । अन्यथा मानहानिः सौभ्रात्रभङ्गः पूज्यपूजाव्यतिक्रमदोषश्च स्फुरतीति भावः । अत एव हिंसेकरसस्य रागद्वेषरुषायितचेतसः कुतो मे मोक्षाधिकार इति तात्पर्य्यार्थः । सार्थविशेषणत्वात्परिकरालंकारः ॥ ४५ ॥

हिन्दी—( हे तात ! ) मैं क्षत्रिय तथा पाण्डु और कुन्तीका पुत्र धनञ्जय ( अर्जुन ) ज्ञातियोंसे राज्यसे हटाये गये बड़े भाई ( युधिष्ठिर ) की आज्ञामें स्थित हूँ ( अतः मेरी तपस्या मोक्षप्राप्तिके लिए नहीं है ) ॥ ४५ ॥

यदुक्तम्—'विरुद्धः केवलं वेषः' ( श्लो० १४ ) इति तत्रोत्तरमाह—

कृष्णद्वैपायनादेशाद्विभर्मि व्रतमीदृशम् ।
भृशमाराधने यतः स्वाराध्यस्य मरुत्वतः ॥ ४६ ॥

**मल्लि०—**कृष्णेति । द्वीपोऽयनं जन्मभूमिर्यस्य स द्वैपायनः, स एव द्वैपायनो व्यासः । प्रज्ञादित्वात्स्वार्थेऽण्प्रत्ययः । स एव कृष्णवर्णत्वात् कृष्णद्वैपायनसंज्ञः । तस्यादेशादुपदेशात् । ईदृशम् । विरुद्धवेषमित्यर्थः । व्रतं तपोनियमं बिभर्मि धारयामि । न तु स्वेच्छयेति भावः । अथोपास्यां देवतामाह—भृशमिति । स्वाराध्यस्य सुखमाराध्यस्य । प्रादिसमासः । 'स्वाराधस्य' इति पाठे उपसृष्टात्खल्प्रत्ययः । मरुत्वत इन्द्रस्य । भृशं सम्यक् । आराधने यतः प्रयत्नवानित्यर्थः । तस्य क्षत्रियदैवतत्वादिति भावः ॥ ४६ ॥

**हिन्दी—**मैं व्यासजीकी आज्ञासे ऐसा व्रत कर रहा हूँ, सुखपूर्वक आराधनाके योग्य इन्द्रदेवकी उचित आराधनामें यत्नयुक्त हूँ ॥ ४६ ॥

ननु भवादृशभ्रातृसहायस्य महावीरस्य युधिष्ठिरस्य कथमरिपरिभवप्राप्तिरित्यत आह—

दुरक्षान्दीव्यता राजा राज्यमात्मा वयं वधूः ।
नीतानि पणतां नूनमीदृशी भवितव्यता ॥ ४७ ॥

**मल्लि०—**दुरक्षानिति । दुरक्षान् । कपटपाशकै रित्यर्थः । 'दिवः कर्म च' इति करणे कर्मसंज्ञा । दीव्यता क्रीडता । 'आहूतो न निवर्तेत द्यूतादपि रणादपि' । इति शास्त्रात् । न तु व्यसनतयेति भावः । राजा युधिष्ठिरेण राज्यं राष्ट्रम्, आत्मा स्वयं, वयं चत्वारोऽनुजाः, वधूर्भार्या द्रौपदी च, पणतां ग्लहत्वम् । 'पणोऽक्षेष्वाहवेष्वास्तु देवनाः पाशकाश्च ते, इत्यमरः । नीतानि । सर्वं द्यूते राज्ञा हारित-

२३४ किरातार्जुनीयम्

मित्यर्थः । नीतानीति नपुंसकैकशेषः । नयतेर्द्विकर्मकत्वात्प्रधाने कर्मणि क्तः । द्यूतु सर्वज्ञस्य राज्ञः कथमियमविमृश्यकारिता तत्राह—भवितव्यताऽनयनामवश्यं भाविता। ईदृशी नूनं निश्चितम् । नात्र संशय इत्यर्थः । बुद्धिरपि भवितव्यतानुसारिण्येव, न स्वतन्त्रेत्यर्थः ॥ ४७ ॥

हिन्दी—दुष्ट जूआ खेलते हुए राजा ( युधिष्ठिर ) ने अपनेको हम ( भाई ) लोगोंको किंबहुना पत्नी ( द्रौपदी ) को भी दाँवमें लगा दिया, भवितव्यता ( होनहार ) ऐसी ही होती है ॥ ४७ ॥

ननु तथापि तत्रैव तेष्वासङ्गो न तेषां त्वयि तत्राह—

तेनानुजसहायेन द्रौपद्या च मया विना ।
भृशमायामियामासु यामिनीष्वभितप्यते ॥ ४८ ॥

मल्लि०—तेनेति । अनुजाः सहजाताः सहाया यस्य तेन । अनुजयुक्तेनेत्यर्थः, तुल्ययोगः सहायार्थः । तेन युधिष्ठिरेण द्रौपद्या च मया विना । मद्विरहादित्यर्थः । आयामिनो दीर्घा यामाः प्रहरा यासां तास्तासु । दुःखितस्य तथाभावादिति भावः यामिनीष्वभितप्यते । भावे लट् । तेषु मदृत्तेषां मय्यप्यासङ्गान्न वैराग्यावकाश इत्यर्थः ॥ ४८ ॥

हिन्दी—अपने भाइयोंके साथ वे ( राजा युधिष्ठिर ) और द्रौपदी भी सब-लोग मेरे बिना लम्बे प्रहरोंसे युक्त रातोंमें अत्यन्त सन्ताप कर रहे हैं ॥ ४८ ॥

अथ वैरिनिर्यातनावश्यंभावद्योतनाय चतुर्भिः परापकृतिं दर्शयन् परनिकारान् वर्णयति—

हृतोत्तरीयां प्रसभं सभायामागतह्रियः ।
मर्मच्छिदा नो वचसा निरतक्षन्नरातयः ॥ ४९ ॥

मल्लि०—हृतेत्यादि । अरातयः शत्रवः सभायां प्रसभं बलात्कारेण हृतोत्तरीयाम्, अत एव, आगतह्रियः संप्राप्तलज्जान् नोऽस्मान् । मर्मच्छिदा मर्मच्छेदिन। वचसा निरतक्षन् अशातयन् । वस्त्राद्यपहारखावक्पारुष्याभ्यां तया व्यथयामासुरित्यर्थः । 'तक्ष्ण'शब्दसामर्थ्याद्वचसो वाऽश्यौपम्यं गम्यत इति वस्तुनालङ्कारध्वनिः ।

हिन्दी—शत्रुओंने सभामें बलात्कार ( जबर्दस्ती ) से हटाये गये उत्तरीय वस्त्रवाली द्रौपदीको और लज्जासे युक्त हमलोगोंको भी मर्मच्छेदन करनेवाले वचनसे छील दिया है ॥ ४९ ॥

एकादशः सर्गः | २३५

अथातिदुःसहनिकारान्तरमाह-- उपाधत्त सपत्नेषु कृष्णाया गुरुसन्निधौ।
भावमानयने सत्याः सत्यङ्कारमिवान्तकः ॥ ५० ॥

मल्लि०— उपाधत्तेति। अन्तको मृत्युः गुरुसंनिधौ भीष्मद्रोणादिसमक्षमेव सत्याः पतिव्रतायाः कृष्णाया द्रौपद्या आनयने केशाम्बरादिकर्षणे भावं चित्ताभिप्रायमितः परमेनैन पाण्डवाभिभवेनैतान् स्वनगरं नेष्यामोत्येवंभूतं सत्यङ्कारमिव। क्रियऽनेनेति कारः। करणे घञ्। सत्यस्य कारः सत्यङ्कारः सत्यापन्नम्। चिकीर्षितस्य कार्यस्यावश्यं क्रियास्र्वापनार्थं परहस्ते यद्दीयते स सत्यङ्कारः। क्रियादौ सत्यदाऽर्धाय प्राग्दीयमानो मूल्यैकदेशश्च। 'क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम्'। इत्यमरः। 'कारे सत्यागदस्य' इति मुमागमः। तमिव, सपत्नेषूपाधत्त निहितवान्। तेषां विनाशकाले विपरीतबुद्धिमुत्पादितवानित्यर्थः ॥ ५० ॥

हिन्दी— यमराजने भीष्म और द्रोणाचार्य आदि गुरुजनोंके समीपमें ही पतिव्रता द्रौपदीको लानेपर चित्तके अभिप्रायको (कौरवोंको मैं अपने नगरमें पहुँचाऊँगा) ऐसा बयानेके समान धारण कर लिया ॥ ५० ॥

केनेयमाकृष्टा, सभ्यैर्वा किं कृतं तत्राह-- तामैक्षन्त क्षणं सभ्या दुःशासनपुरःसराम्।
अभिसायार्कमावृत्तां छायामिव महातरोः ॥ ५१ ॥

मल्लि०-- तामिति। दुःशासनः पुरःसरो यस्यास्तां तथोक्ताम्। दुःशासनेन सभां प्रत्याकृष्यमाणामित्यर्थः। 'अनुपसर्जनात्' इति न ङीप्। तां कृष्णां। सभायां साधवः सभ्याः। 'सभाया यः' इति यप्रत्ययः। अभिसायार्कं दिनान्तसूर्याभिमुख्यम्। स्थितस्येति शेषः। 'सायो नाशदिनान्तयोः' इति विश्वः। 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः। महातरोः संबन्धिनीम्, आवृत्तां छायामिव तां कृष्णां क्षणमैक्षन्त। न चिरं जुगुप्सितत्वात्। नापि किंचिद्व्याप्रियन्त माध्यस्थ्यभङ्गभयात्। ते स्वकर्त्तव्येषु साक्षित्वमात्रमास्थिता इत्यर्थः। अत्राकृष्यमाणायाः कृष्णायाः आक्रष्टारं प्रति पराङ्मुखत्वादावृत्तच्छायौपम्यम्। तथापि तां न मुञ्चतीति दुःशासनस्य तरुसाम्यम् ॥ ५१ ॥

हिन्दी— दुःशासनसे खींची गई द्रौपदीको सभासद् लोगोंने सूर्यके सम्मुख रहे हुए विशाल वृक्षकी विद्यमान छायाकी तरह कुछ समय तक देख लिया ॥ ५१ ॥

२३६किरातार्जुनीयम्

अथास्यास्तादात्विकमपायधाव्यं वर्णयति— अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः । अरुध्येतामितीवास्या नयने वाष्पवारिणा ॥ ५२ ॥

मल्लि०—अयथार्थेति । अयथार्था मिथ्याभूताः क्रियारम्भाः पतिशब्दप्रवृत्तिनिमित्तभूतकर्मोद्योगः येषां तैः । तामरक्षद्भिरित्यर्थः । तव संबन्धिभिः । पान्ति रक्षन्तीति पतयो भर्तारः । 'पातेर्डतिः' इत्यौणादिको डतिप्रत्ययः । तैः, ईक्षितैर्वेक्षितैः किम् । न किंचित्फलमस्तीत्यर्थः । इतीव इत्थं विचार्येवेत्युत्प्रेक्षा । बाष्पवारिणाऽस्याः कृष्णाया नयने अरुध्येतामावृते । रुधेः कर्मणि लङ् । अश्रूणा रुरोदेत्यर्थः ॥ ५२ ॥

हिन्दी—'मिथ्याभूत कर्मका उद्योग करनेवाले तुम्हारे पतियोंको देखनेसे क्या होगा ?' मानों ऐसा विचार कर आँसूने द्रोपदीके नेत्र आच्छादित कर दिया ॥ ५२ ॥

ननु भवद्भिः किमर्थमसमर्थैरिवोपेक्षितं तत्राह— सोढवान्नो दशामन्त्यां ज्यायानेव गुणप्रियः । सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ॥५३॥

मल्लि०—सोढवानिति । गुणाः प्रिया यस्य स गुणप्रियः । 'वा प्रियस्य' इति परनिपातः । ज्यायान् अग्रजो युधिष्ठिर एव । 'वृद्ध'शब्दादीयसुनि 'ज्यायादीयसः' इत्याकारादेशः । नोऽस्माकम् । अन्ते भवाम्, अन्त्यां निकृष्टां दशामवस्थां सोढवान्, न तु वयम् । किन्तु तद्वशगा इति भावः । ननु शत्रूपेक्षा महाऽनर्थकारिणीत्याशङ्क्याह—सुलभ इति । द्विषां विद्विषां भङ्गः सुलभः । कालान्तरेऽपीति शेषः । सत्सु सज्जनेषु । अवाच्यताऽनिन्द्यता दुर्लभा, न तु शत्रूपेक्षा । हि प्रसिद्धौ । क्षमूपेक्षातो लोकापवाद एव बलवान् । तस्योत्पन्नस्य पुनरप्रतिविधेयत्वात्, स च समयोल्लङ्घने स्यादेवेति भावः ॥ ५३ ॥

**हिन्दी—**गुणोंमें प्रीति करनेवाले बड़े भाई ( युधिष्ठिर ) ने ही हमलोगोंकी निकृष्ट अवस्थाको सहन कर लिया, क्योंकि शत्रुओंको जीतना सुलभ है परन्तु सज्जनोंमें निन्दाका विषय न बनना दुर्लभ है ॥ ५३ ॥

ननु शत्रुवधे राज्ञां को नामापवादः प्रत्युत कीर्तिरेवेत्याशङ्क्य, सत्यं स एव समयोल्लङ्घनकलङ्कितकीर्त्यां महानिन्दानिदानमित्याशयेनाह—

एकादशः सर्गः । २३७

स्थित्यतिक्रान्तिभीरूणि स्वच्छान्याकुलितान्यपि ।
तोयानि तोयराशीनां मनांसि च मनस्विनाम् ॥ ५४ ॥

मल्लि०—स्थितीति । तोयराशीनां समुद्राणां तोयानि मनस्विनां मनांसि च स्थित्यतिक्रान्तेर्मर्यादोल्लङ्घनाद्धेतोः भीरूणि, अत एव आकुलितानि संक्षोभितान्यपि स्वच्छानि अकलुषाणि । न त्वरन्त इत्यर्थः । मनस्व्ययं युधिष्ठिर इति भावः । अत्र तोयानां सामान्यतो मनस्विनां चाप्रकृतानामेव गुणतौल्यादौपम्यस्य गम्यतया तुल्ययोगितालङ्कारः । गुणश्चात्र भीरुत्वं स्वच्छता च ॥ ५४ ॥

हिन्दी—समुद्रके जल और मनस्वी पुरुषोंके मन भी मर्यादाके उल्लङ्घनसे डरनेवाले होते हैं अत एव क्षुब्ध किये जानेपर भी कलुषित नहीं होते हैं ॥ ५४ ॥

नन्वेवमजातशत्रोः स्वजनवैरे किं कारणमित्याशङ्क्य पास्मत्सोहार्दमेवेत्याह—

धार्तराष्ट्रैः सह प्रीतिर्वैरमस्मास्वसूत ।
असन्मैत्री हि दोषाय कूलच्छायेव सेविता ॥ ५५ ॥

मल्लि०—धार्तराष्ट्रैरिति । धार्तराष्ट्रैर्धृतराष्ट्रपुत्रैः सह प्रीतिः सोहार्दमेव, अस्मासु विषये वैरमसूत सूतवती । सूयतेर्देवाविकात्कर्तरि लङ् । ननु सोहार्दं वैरजनकं चेद्विप्रतिषिद्धं तत्राह—असन्निति । हि यस्मात्, असन्मैत्री दुर्जनेन सङ्गतिः कूलस्यासन्नपातस्य नदीतटस्य छायेव सेविता श्रिता सती दोषायोपद्रवाय (दोषायनर्थाय) भवति । न खलु दुर्जनः सुजनवन्मित्रद्रोहोपातकं पश्यतीति भावः । उपमाप्राणितोऽयमर्थान्तरन्यासालङ्कारः ॥ ५५ ॥

हिन्दी—धृतराष्ट्रके पुत्रोंके साथ प्रीतिने ही हमलोगोंके विषयमें शत्रुता उत्पन्न की, क्योंकि दुर्जनके साथ नदीतटकी छायाकी तरह सेवा अनर्थके लिए होती है ॥ ५५ ॥

नन्वादावेव तेषां वृत्तमाविज्ञाय कथं मैत्री कृतेत्याशङ्क्य—किं कुर्मः, दुर्जनवृत्तं दुर्विज्ञेयमित्याह—

अपवादादभीतस्य समस्य गुणदोषयोः ।
असद्वृत्तेरहो वृत्तं दुर्विभावं विधेरिव ॥ ५६ ॥

मल्लि०—अपवादादिति । अपवादात् जनाक्रोशात् । अभीतस्य । अजुगुप्समानस्येत्यर्थः । गुणदोषयोः समस्य तुल्यबुद्धेः । निग्रहानुग्रहौ गुणदोषयोरननुरुन्धत इत्यर्थः । विधावप्येतद्विशेषणं योज्यम् । अहो ! असद्वृत्तेर्दुराचारस्य

२३८ | किरातार्जुनीयम्

धूर्तस्य। वृत्तमोहितं विधेर्देवस्य वृत्तमिव दुर्विभावं विभावयितुमशक्यम्। किन्तु कार्येकसमधिगम्यमित्यर्थः। भयतेर्घञ्न्तात्कृच्छ्रार्थे खलप्रत्ययः ॥ ५६ ॥

हिन्दी—लोकाऽपवादसे न डरनेवाले और गुण तथा दोषमें समान बुद्धि रखनेवाले दुराचारीकी चेष्टा भाग्यके विधानके समान नहीं जानी जाती है ॥ ५६ ॥

नन्वेवं मानी कथं परिभूतो जीवसि तत्राह—

ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः।
यद्यमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥ ५७ ॥

मल्लि०ध्वंसेतेति। परैः शत्रुभिः परिभूतस्य मे हृदयं सद्यो ध्वंसेत। भ्रश्येदित्यर्थः। अमर्षः कर्त्ता प्रतिक्रियारूपं भुजालम्बं हस्तावलम्बनं न लम्भयेन्न ग्राहयेद्यदि। हृदयेनेति शेषः। सत्यं जीवामि प्रतिविधित्सया। न तु निर्लज्जतयेति भावः ॥ ५७ ॥

हिन्दी—शत्रुओंसे तिरस्कृत मेरा हृदय, क्रोध प्रतीकार-स्वरूप बाहुका अवलम्बन ग्रहण न कराता तो उसी क्षण ध्वस्त हो जाता ॥ ५७ ॥

ननु तवैव कोऽयमभिमानस्तत्राह—

अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तितम्।
अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥ ५८ ॥

मल्लि०अवधूयेति। अरिभिरवधूय परिभूय हरिणैर्मृगैस्तुल्यवृत्तित्वं तुल्यजीवनत्वम्। वन्याहारतामित्यर्थः। नीताः प्रापिता वयम्। पञ्चापीति शेषः। अन्योन्यस्यापि जिह्रीमो लज्जामहे। सहवासिनां सहचारिणां किं पुनः। प्रागेव जिह्रीम इति किमु वक्तव्यमित्यर्थः। क्रियायोगे संबन्धसामान्ये षष्ठी। यद्यप्यमी पञ्चापि तुल्याभिमाना एव। इदं तु मदेकसाध्यं कर्मेति मुनिशासनाम्ययानुजीव्यत इति भावः ॥ ५८ ॥

हिन्दी—शत्रुओंसे तिरस्कृत होकर हमलोग मृगोंके समान जीवनवाले बनाये गये हैं, एक दूसरेसे भी लज्जित होते हैं सहचारियोंसे मिलनेपर फिर क्या कहना है ? ॥ ५८ ॥

ननु तर्हि दुःखनिदानमन्तःशत्रु मान एव त्यज्यतामित्याशङ्क्य तत्त्यागे दोषमाह—

एकादशः सर्गः (२३९)

शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः ।
जन्मिनो मानहीनस्य तृणस्य च समा गतिः ॥ ५९ ॥

मल्लि०— शक्तोति । शक्तिवैकल्येनोत्साहादिशक्तिवैधुर्य्येणाऽवष्टम्भसामर्थ्यविरहेण च नम्रस्य प्रह्वीभूतस्य विधेयभूतस्य च निःसारत्वात् दुर्बलत्वात् स्थिरांशरहितत्वाच्च । 'सारो बले स्थिरांशे च' इत्यमरः । लघीयसो गौरबहीनस्य । नीरसस्येत्यर्थः । मानहीनस्य जन्मिनो जन्तोः । व्रीह्यादित्वादिनिः । तृणस्य च गतिरवस्था समा इति । मानहीनस्य तृणादपि निकृष्टत्वान्न त्याज्यो मान इति भावः । श्लेषालंकारोऽयं तदनुप्राणितेयमुपमेत्यनेकार्थदीपिकेति व्यज्यते ॥ ५९ ॥

हिन्दी -- उत्साह आदि शक्तिकी विकलतासे नम्र और सारहीन होनेसे गौरवसे रहित, अभिमानहीन पुरुषकी और तृणकी अवस्था समान होती है ॥ ५९ ॥

मानत्यागे दोषमुक्त्वा तत्सद्भावे षड्भिर्गुणमाह—

अलङ्घ्यं तत्समुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् ।
प्रियतां ज्यायसी मागान्महतां केन तुङ्गता ? ॥ ६० ॥

मल्लि०— अलङ्घ्यमिति । महीभृतां पर्वतानां संबन्धि यद्यत् शृङ्गादिकम् । उच्चैरुन्नतं तत्तदलङ्घ्यमुदीक्ष्योत्प्रेक्ष्य । तर्कयित्वेति यावत् । महतां महात्मनां तुङ्गता मानोन्नत्यं ज्यायसीं प्रियतां प्रियत्वं केन हेतुना मागात् । न केनापि प्रियत्वं गच्छत्येवेत्यर्थः । आशिषि माङि लुङ् । अटोऽपवादः । दैवमनिच्छामूत्पादयत्योषधबदस्मिन्मयं इत्याशंसनार्थमाशीःप्रयोगः । उद्वीक्ष्येत्यसमानकर्तृकत्वनिर्देशः क्वचित्प्रयोगदर्शनात्सोढव्यः । केचित् 'उद्दीक्ष्यम्' इति पठन्ति । तत्र यद्यदुच्चैस्तत्तलङ्घ्यमुद्दीक्ष्यमवलोकनीयं न चोल्लङ्घनीयमिति । ततो महतामित्यादि योजयन्ति ॥ ६० ॥

हिन्दी— पर्वतोंके जो-जो शृङ्ग ( चोटी ) आदि उन्नत हैं उसको अलङ्घनीय तर्कना करके महात्माओंकी अभिमानसे उन्नतता श्रेष्ठ प्रियताको कि क्यों प्राप्त नहीं करेगा ? ॥ ६० ॥

तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः ।
पुरुषस्तावदेवासौ यावन्मानान्न हीयते ॥ ६१ ॥

मल्लि०— तावदिति । किंच, तावदेवासौ लक्ष्म्याऽऽश्रीयते । तावदस्य पुंसो यशः स्थिरम् । तावदेव असौ पुरुषः । पुरुषत्वेन गण्यत इत्यर्थः । यावत् मानान्-

२४०किरातार्जुनीयम् ,

भिमानात् । न हीयते न भ्रश्यति । मानहीनस्य न किञ्चिच्छुभमस्तीत्यर्थः ॥

हिन्दी—पुरुष तब तक लक्ष्मीसे आश्रय किया जाता है और उसका तब तक स्थिर होता है जब तक वह अभिमानसे रहित नहीं होता है ॥ ६१ ॥

स पुमानर्थवज्जन्मा यस्य नाम्नि पुरःस्थिते ।
नान्यामङ्गुलिमभ्येति संख्यायामुद्यताङ्गुलिः ॥ ६२ ॥

मल्लि०—स इति । स पुमान्, अर्थवज्जन्मा सार्थकजन्मा यस्य पुंसो पुरोऽग्रे स्थिते सति संख्यायां पुरुषगणनाप्रस्तावे उद्यता गुणमधिकृत्योद्यताङ्गुलिरन्यां द्वितीयाम् । अङ्गुलिम् । उद्यतामिति शेषः । नाभ्येति न प्राप्नोति अद्वितीयत्वादस्येत्यर्थः । एतन्मानरहितस्य न संभवतीति भावः ॥ ६२ ॥

हिन्दी—उस पुरुषका जन्म सार्थक है जिसका नाम आगे रहनेपर पुरुषगणनाके अवसरमें उद्यत अंगुलि दूसरी अंगुलिको प्राप्त नहीं करती है ॥ ६२ ॥

दुरासदवदज्यायान् गम्यस्तुङ्गोऽपि भूधरः ।
न जहाति महौजस्कं मानप्रांशुमलङ्घ्यता ॥ ६३ ॥

मल्लि०—दुरासदेति । दुरासदैर्वनैर्ज्यायान् प्रवृद्धस्तथापि तुङ्गोऽपि गम्यो गन्तुं शक्य एव । प्रसिद्धे चैतदिति भावः । महौजस्कं प्रतापसंपन्नं प्रांशुं मानोन्नतम् । पुरुषमिति शेषः । अलङ्घ्यता न जहाति । कदाचिन्मानोन्नतं चालयितुं न शक्यत इत्यर्थः । गिरेरपि गरीयान् मानाधिक इति भावः । अत्रोपमानभूधरादुपमेयस्य मानिनो धर्मान्तरसाम्येऽप्यलङ्घ्यत्वेनाधिक्यकथनाद्व्यतिरेकालंकारः ॥ ६३ ॥

हिन्दी—दुष्प्राप्य, वनोंसे बड़ा हुआ और ऊँचा होनेपर भी पर्वत जाया जा सकता है, परन्तु प्रतापसे सम्पन्न और मानसे उन्नत पुरुष अलङ्घनीयता नहीं छोड़ता है अर्थात् कोई उसका लंघन नहीं कर सकता है ॥ ६३ ॥

गुरून्कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुन्धरा ।
येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥ ६४ ॥

मल्लि०—गुरून्निति । ते नराः । वंश्यान् अन्वये भवान् । गुरून् अधिकान् प्रथयन्ति । स्वनाम्ना व्यपदिशयन्ति रघुदिलीपादिवदित्यर्थः । तैर्नरैः । वसूनि रत्नानि धरतीति वसुन्धरा । 'संज्ञायां भृतृवृजी-'त्यादिना खच्प्रत्यये 'खचि ह्रस्वः'

एकादशः सर्गः२४५

ह्रस्वान्नुमागमोऽत्र । अन्वर्याऽनुगतार्था । तेषां वसुभूतानां धारकत्वादितिभावः । येषां शुभ्राणि यशांसि इन्दुमण्डलं ह्रेपयन्ति लज्जयन्ति । यशसो निष्कलङ्कत्वादिति भावः । ईदृशं हि यशो मानमहत एव संभवतीति तात्पर्यार्थः । ह्रीधातोर्ण्यन्ताल्लट् 'ऋतिह्री-'त्यादिना पुगागमः । अत्र ह्रेपणस्य सादृश्यपर्यवसानादुपमालंकारः ॥

**हिन्दी—**जिन पुरुषोंके सफेद यश चन्द्रमण्डलको लज्जित करते हैं, वे पुरुष ही वसुन्धरा (पृथिवी) को अन्वर्थ (नामके अनुसार अर्थवाली) करते हैं तथा अपने वंशमें उत्पन्न जनोंको प्रख्यात कर देते हैं ॥ ६४ ॥

उदाहरणाशीःषु प्रथमे ते मनस्विनाम् ।
शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते ॥ ६५ ॥

**मल्लि०—**उदाहरणमिति । यैरमर्षः क्रोधः शुष्के नीरसे । अशनिरिव अरातिषु विषये पात्यते प्रक्षिप्यते । मनस्विनां मानिनां प्रथमेऽग्रेसरास्ते आशीःषु पूर्वैरेवं भवितव्यमेवंरूपासु । उदाहरणं निदर्शनम् । भवन्तीति शेषः । रामादिवद्वर्तव्यं भवन्तीत्यर्थः । अतो न त्याज्यो मान इति संदर्भार्थः ॥ ६५ ॥

**हिन्दी—**जिन पुरुषोंसे क्रोध सूखे पत्तोंपर वज्रके समान शत्रुओंपर प्रहार किया जाता है, अभिमानी पुरुषोंमें अग्रसर वे ही 'पुरुषोंको ऐसा होना चाहिए' ऐसे अभिलाषोंमें उदाहरणस्वरूप होते हैं ॥ ६५ ॥

न सुखं प्रार्थये नार्थमुदन्वद्वीचिवञ्चलम् ।
नानित्यताशनेस्त्रस्यन् विविक्तं ब्रह्मणः पदम् ॥ ६६ ॥

**मल्लि०—**नेत्यादि । उदन्वद्वीचिरिव चञ्चलं समुद्रतरङ्गवदस्थिरं सुखं कामं न प्रार्थये नेच्छामि । तथा, चञ्चलमर्थं च न प्रार्थये । किंच अनित्यता विनाशिता सैव अशनिस्तस्मात् त्रस्यन् बिभ्यत् । 'वा भ्राशो-'त्यादिना श्यन्प्रत्ययः । विविक्तं निर्बाधं ब्रह्मणो वेधस आत्मनः पद्यत इति पदं स्थानमैक्यलक्षणं मुक्तिं च न प्रार्थये । एतेन यदुक्तम् 'उच्छेद जन्मनः कर्तुम्' (श्लो० ३१) इत्यादि तत् समाहितम् । ६६।

**हिन्दी—**मैं समुद्रकी तरङ्गके समान चञ्चल सुख और अर्थको और न अनित्यता रूप वज्रसे डरता हुआ बाधारहित ब्रह्मपदको ही चाहता हूँ ॥ ६६ ॥

प्रमाष्टुंमयशःपङ्कमिच्छेयं छद्मना कृतम् ।
वैधव्यतापितारातिवनितालोचनाम्बुभिः ॥ ६७ ॥

१६ कि०

२४२किरातार्जुनीयम्

मल्लि०—प्रमार्ष्टुमिति। किंतु, छद्मना कपटेन कृतम्। शत्रुभिरिति शेषः। अयश एव पङ्कमिति रूपकालंकारः। वैधव्येन तापितानां दुःखीकृतानामराति-वनितानां लोचनाम्बुभिः प्रमार्ष्टुं क्षालयितुम्। इच्छेयमभिलषेयम्। इषिर्लिङि रूपम्। वैरिर्निर्यातिनातिरिक्तं न किंचिदिच्छामीत्यर्थः॥ ६७॥

**हिन्दी—**मैं शत्रुओंसे कपटपूर्वक किये गये अपनी अकीर्तिरूप पङ्क (कीचड़) को वैधव्यसे सन्तापित शत्रुपत्नियोंके आँसुओंसे धोना चाहता हूँ॥ ६७॥

एवं तर्हि ‘यः करोति वधोदर्काः’ (श्लो० १९) इत्याद्युक्तदोषः स्यादिति शङ्कामङ्गीकृत्य ग्लानिर्न दोषायेति न्यायमाश्रित्य युग्मेनोत्तरमाह—

अपहस्येऽथवा सद्भिः, प्रमादो वास्तु मे धियः।
अस्थानविहितायासः कामं जिह्रेतु वा भवान्॥ ६८॥

मल्लि०—अपहस्य इत्यादि। अथवा, सद्भिः पण्डितैः अपहस्ये। उपहसिष्ये इत्यर्थः। ‘वर्तमानसामीप्ये वर्तमानवद्वा’ इति हसतेरप्यन्तात्कर्मणि लट्। व्यत्ययभ्रान्तः पाठः। मे धियः प्रमादोऽनवधानत्वं वाऽस्तु। भवान् अस्थानेऽयोग्यविषये विहित आयासो हितोपदेशो येन स तथोक्तः। विफलप्रयत्नः सन्नित्यर्थः। कामं वा जिह्रेतु लज्जताम्॥ ६८॥

**हिन्दी—**इस उद्देश्यसे की गई मेरी तपस्यामें मैं विद्वानोंका उपहासपात्र हो जाऊँ या मेरी बुद्धिकी असावधानीता हो अथवा अयोग्य विषयमें प्रयास करनेवाले होते हुए आप लज्जित हों॥ ६८॥

वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्विषाम्।
निर्वाणमपि मन्येऽहमन्तरायं जयश्रियः॥ ६९॥

मल्लि०—वंशेति। अहं तु विद्विषां शत्रूणां समुच्छेदेन विनाशेन करणेन वंशलक्ष्मीमनुद्धृत्यापुनरावश्यं निर्वाणं मोक्षमपि जयश्रियोऽन्तरायं विघ्नं मन्ये। न तु पुरुषार्थमित्यर्थः। किमुताभ्योरसवादिकमिति भावः॥ ६९॥

**हिन्दी—**मैं तो शत्रुओंका संहार कर अपनी वंशलक्ष्मीका उद्धार किये बिना मोक्षको भी विजयलक्ष्मीमें विघ्न रूप समझता हूँ॥ ६९॥

अजन्मा पुरुषस्तावद् गतासुस्तृणमेव वा।
यावन्नेषुमिरादत्ते विलुप्तमरिमियंशः॥ ७०॥

मल्लि०—अजन्मेति। पुरुषो यावत् अरिभिर्विलुप्तं संहृतं यश इषुभिर्नदत्ते।

एकादशः सर्गः | २४३

एकादशः सर्गः | २४३

अरिवधेन न प्रत्याहरतीत्यर्थः । तावत् अजन्मा । अजातप्राय इत्यर्थः । नन्वजातो जननान्तरमुपयुज्यत एवेत्यरुच्या पक्षान्तरमाह—गतासुमूर्तः । मृततुल्य इत्यर्थः । मृतोऽपि प्रागुपयुक्तवानित्यरुच्याह—तृणमेवेति । तृणतुल्य इत्यर्थः । अचिकित्करस्तु त्रैकाल्यानुपयोगोज्जीवन्मृत इत्यर्थः । अतो नाहमाग्रहद् ब्रवीमि, किन्तु वीरधर्ममनु-पालयामीति भावः ॥ ७० ॥

हिन्दी—पुरुष जब तक शत्रुओंसे विलुप्त यशको बाणोंसे नहीं लौटाता है तब तक वह जन्महीन-सा है । वा मरा हुआ-सा है वा तृणके ही समान है ॥ ७० ॥

सर्वथा वैरनिर्यातं कर्तव्यमित्युक्तम्, तदकरणे पुरुषगुणानां हानिदोषमाह—

अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।
पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ! ॥ ७१ ॥

मल्लि०—अनिर्जयेनेति । यस्यामर्षः क्रोधो द्विषतां शत्रूणाम् । अनिर्जयेन विजयं विनैव प्रशाम्यति । उपलक्षणे तृतीया । तस्मिन् पुरुष इत्युक्तिः ‘पुरुष’ शब्दः कथम् ? न कथंचिदित्यर्थः । प्रवर्तत इति शेषः । प्रवृत्तिनिमित्तस्य पुरुषकारस्या-भावादिति भावः । हे तपोधन ! त्वं हि त्वमेव ब्रूहि कथय । न च ते किंचिदविदित-मस्तीति भावः । ‘हि हेताववधारणे’ इत्यमरः ॥ ७१ ॥

हिन्दी—हे तपस्विन् ! जिस पुरुषका क्रोध शत्रुओंके जीते बिना शान्त होता है उसमें 'पुरुष' शब्दसे व्यवहार कैसे उचित होगा ? आप ही कहिए ॥ ७१ ॥

ननु पुरुषत्वजात्यैव पुरुषोक्तिप्रवृत्तेः किंपुरुषकारेण, तत्राह—कृतमित्यादिद्वयेन—

कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।
योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः ॥ ७२ ॥

मल्लि०—कृतमिति । जातिमात्रावलम्बिना जातिमात्राभिधायिना पुरुषशब्देन कृतमलम् । न तेन किंचित्साध्यत इत्यर्थः । अत्र गम्यमानसाधनक्रियापेक्षया करण-त्वात्तृतीयेत्युक्तं प्राक् । ‘कृतम्’ इति निषेधार्थकमव्ययं चादिषु पठ्यते । सत्यं जातिमात्रेऽपि ‘पुरुष’ शब्दः प्रवर्तते । परन्तु नासौ पुंस्त्वमात्राच्छ्लाघ्यः पश्वादिसाधारणा-दिति तात्पर्यार्थः । तर्हि कीदृशश्लाघ्य इत्याशङ्कयाह—य इत्यादिनाधयुग्मेन । अङ्गी-कृतगुणैर्गुणपक्षपातिभिः । यः पुमान् श्लाघ्यः स्तुत्यः सन् सविस्मयं ससंभ्रमम् । उदाहृतः कथितः । पुंसा ईदृशेन भवितव्यमिति निश्चितः ॥ ७२ ॥

हिन्दी—जातिमात्रका अवलम्बन करनेवाले 'पुरुष' शब्दको कुछ आवश्यकता

२४४किरातार्जुन्रीयम्

नहीं है, जो गुणोंका अङ्गीकार करनेवाले पुरुषोंसे आश्चर्यपूर्वक उदाहरणरूप होता है वही पुरुष प्रशंसनीय है ॥ ७२ ॥

ग्रसमानमिवौजांसि सदसा गौरवेरितम् ।
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् ॥ ७३ ॥

**मल्लि०—**ग्रसमानमिति । किञ्च, सदसा सभया गौरवेणेरितं कथाप्रसङ्गाद् गौरवपूर्वकमुच्चारितं सत् । ओजांसि शृण्वतां तेजांसि ग्रसमानं गिलदिव स्थितं यस्य पुंसो नाम द्विषोऽप्यभिनन्दन्त्यनुमोदन्ते । किमुत सुहृद इति भावः । स पुमान् पुमान् । पुरुषत्वेन गण्यत इत्यर्थः । प्रथमः 'पुं' शब्दो जातिवचनः, द्वितीयो गुणवचनः । स एव श्लाघ्यः । अत्र पुमान्पुमानिति तात्पर्यमात्रभेदभिन्नार्थकत्वादेरुक्तलक्षणो लाटानुप्रासोऽलंकारः । तथा च सूत्रम्—'तात्पर्यभेदयुक्तो लाटानुप्रासः' इति ॥ ७३ ॥

**हिन्दी—**सभासे गौरवसे उच्चारित होते हुए और सुननेवालोंके तेजको ग्रस करते हुए जिस पुरुषके नामका शत्रुलोग भी अनुमोदन करते हैं, वही पुरुष 'पुरुष' शब्दसे परिगणित होता है ॥ ७३ ॥

ननु सत्सु भीमादिषु तवैवायं कोऽभिनिवेश इत्यत्राह—

यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया ।
ममैवाध्येति नृपतिस्तृष्यन्निव जलाञ्जलेः ॥ ७४ ॥

**मल्लि०—**यथेति । नृपतियुधिष्ठिरः यथाप्रतिज्ञं युधि द्विषतां प्रतिचिकीर्षया द्विषतः प्रतिकर्तुमिच्छया । प्रतिज्ञानुसारेणैव जिघांसयेत्यर्थः । तृष्यन् पिपासुः जलाञ्जलेरिव ममैवाध्येति इच्छति । कार्यसिद्धेर्मदायत्तत्वान्मामेव स्मरति, अतोऽयं ममाभिनिवेश इत्यर्थः 'अधीगर्थे—'त्यादिना कर्मणि षष्ठी ॥ ७४ ॥

**हिन्दी—**राजा (युधिष्ठिर) प्रतिज्ञाके अनुसार युद्धमें शत्रुओंका प्रतिकार करनेकी इच्छासे जैसे प्यासा पुरुष जैसे जलाञ्जलिकी इच्छा करता है उसी तरह मेरा स्मरण करते हैं ॥ ७४ ॥

ननु युधिष्ठिरः स्वार्थं साधयति, त्वया च स्वार्थमात्रमनुसंधीयतामित्यत आह—

स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् ।
कृच्छ्रेषु व्यर्थता यत्र भूयते भर्तुराज्ञया ॥ ७५ ॥

एकादशः सर्गः २४५

मल्लि०—स इति। स नरोऽवदातस्य स्वच्छस्य वंशस्य शशाङ्कस्येव लाञ्छनं कलङ्कः। यत्र यस्मिन्पुरुषे कृच्छ्रेषु व्यसनेषु भर्तुः स्वामिन आज्ञया व्यर्थया भूयते। भावे लट्। आपदि स्वार्थसाधकः कुलघातकः तत्कथं स्वार्थनिष्ठकार्यत युक्तमित्यर्थः ॥ ७५ ॥

**हिन्दी—**जो पुरुष विपत्तिमें स्वामीकी आज्ञाको व्यर्थ कर देता है वह पुरुष चन्द्रमाके समान स्वच्छ वंशका कलङ्क-स्वरूप है ॥ ७५ ॥

यदुक्तम्—'विजहीहि रणोत्साहम्' (श्लो० २१) इत्यादि, तत्रोत्तरमाह—

कथं वादीयतामर्वाङ् मुनिता धर्मरोधिनी।
आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः॥ ७६ ॥

मल्लि०—कथमिति। धर्मरोधिनी धर्मविरोधिनी। अर्वाक् गार्हस्थ्यात्प्रागेव मुनिता वानप्रस्थत्वं चतुर्थाश्रमतो वा। वर्णक्रमेण तस्य विधानात् 'त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः' इति सूत्रकारवचनाच्च क्षत्रियस्यापि केञ्चिदिष्टत्वात्। तदेतत्सम्बग्विचेचितमस्माभी रघुवंशसंजीविन्याम् (स० ८।१४)—'स किलाक्रममन्त्यमाश्रितः' इत्यत्र। कथं वा आदीयतां मया कथं वाऽङ्गीक्रियताम्। संप्रश्ने लोट्। तथा हि पूर्वैर्मन्वादिभिराश्रमानुक्रमः स्मर्यते। न तु व्यतिक्रमः। 'ब्रह्मचारी भूत्वा गृही भवेत्, गृही भूत्वा वनी भवेत्, वनी भूत्वा प्रव्रजेत्' इति श्रुत्यनुसारादित्यर्थः। एतदपि 'चत्वार आश्रमाः' इत्येतत्पक्षमाश्रित्योक्तम्। 'यदि चेद्वैराग्यं तदा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा। वनाद्वा' इति व्युत्क्रमपक्षस्यापि श्रवणात्। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ७६ ॥

**हिन्दी—**गृहस्थाश्रमसे पहले ही धर्मविरोधी वानप्रस्थधर्म वा संन्यासधर्मका कैसे ग्रहण किया जाय ? मनु आदि पूर्वजोंने ब्रह्मचर्य, गार्हस्थ्य, वानप्रस्थ और संन्यास ऐसे आश्रमके क्रमका स्मरण किया है ॥ ७६ ॥

ननु भवान्गृहस्थ एव तत्कथमर्वाङ्मुनित्वविरोध इत्याशङ्क्य, सत्यं गृहस्थोऽस्मि, तथापि कृतनिखिलगृहस्थकर्तव्यस्यैव वानप्रस्थाधिकारो न गृहस्थमात्रस्य। न चाहमद्यापि कृतकृत्य इत्युत्तरमाह—

आसक्ता भूरियं रूढा जननी दूरगा च मे।
तिरस्करोति स्वातन्त्र्यं ज्यायांश्चाचारवान्नृपः॥ ७७॥

मल्लि०—आसक्तेति। आसक्ता लग्ना। अवश्यं कर्तव्येत्यर्थः। रूढा प्रसिद्धा

२४६किरातार्जुनीयम्

महतीत्यर्थः । इयं पूर्वोक्ता धूः वैरिनिर्यातनभारः । दूरगा दूरवर्तिनी जननी मातापि । तथा, नृपोऽप्याचारवान् । तपोऽधिक इत्यर्थः । तथापि ज्यायान् श्रेष्ठो नृपो युधिष्ठिरश्च मे मम स्वातन्त्र्यं स्वाच्छन्द्यं तिरस्करोति दूरीकरोति । आश्रमान्तरं प्रतिबध्नातीत्यर्थः । तिरस्करोतीति प्रत्येकमभिसंबध्यते । अन्यथा बहुवचनप्रसङ्गात् ॥ ७७ ॥

हिन्दी— वैरीसे बदला लेनेका महान् यह भार मेरे ही ऊपर लगा हुआ है। मेरी माता भी दूरवर्तिनी हैं और आचारवान् राजा (बड़े भाई युधिष्ठिर) भी मेरी स्वतन्त्रताको दूर कर रहे हैं (अतः दूसरा आश्रम वानप्रस्थ वा संन्यास) मैं नहीं ले सकता हूँ ॥ ७७ ॥

उक्तमर्थमुपसंहरति—

स्वधर्ममनुरुन्धन्ते नातिक्रममरातिभिः ।
पलायन्ते कृतध्वंसा नाहवान्मानशालिनः ॥ ७८ ॥

मल्लि०— स्वधर्ममिति । मानशालिनः स्वधर्मं क्षात्रधर्ममनुरुन्धन्तेऽनुवर्तन्ते । अतिक्रमं स्वधर्मातिक्रमं नानुरुन्धन्ते । ततः किमत आह—अरातिभिरिति । अरातिभिः कृतध्वंसाः कृतापकाराः सन्तः आहवान्न पलायन्ते । अयमेव स्वधर्मानुरोध इत्यर्थः । 'उपसर्गस्यायतौ' इति रेफस्य लत्वम् । अत्र मनुः—'न निवर्तेत सङ्ग्रामात् क्षात्रधर्ममनुस्मरन्' इति । अत्रोत्तरवाक्यार्थं प्रति पूर्ववाक्यार्थस्य हेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ ७८ ॥

हिन्दी— मानी पुरुष क्षत्रियधर्मका अनुसरण करते हैं, स्वधर्मका लङ्घन नहीं करते हैं । शत्रुओंसे अपकार किये जाते हुए युद्धसे पलायन नहीं करते हैं ॥ ७८ ॥

किं बहुना, ममायं निश्चयः श्रूयतामित्याह—

विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि ।
आराध्य वा सहस्राक्षमयशःशल्यमुद्धरे ॥ ७९ ॥

मल्लि०— विच्छिन्नेति । विच्छिन्नं वाताहतं यदभ्रं तदिव विलीयेति विच्छिन्नाभ्रविलायं यथा तथा 'उपमाने कर्मणि च' इति कर्मण्यपदे णमुल् । नगमूर्धनि अस्मिन्गिरिशृङ्गे विलीये विशीर्ये वा । कषादिषु यथाविध्यनुप्रयोगः । यद्वा—सहस्राक्षमिन्द्रम्, आराध्यायश एव शल्यं तत् । उद्धरे उद्धरिष्यामि । न तु गत्यन्तरं शङ्क्येत्यर्थः । 'वा' शब्दो विकल्पे ॥ ७९ ॥