किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 498, कुल 707 में से
संदर्भ में पढ़ें| २४० | किरातार्जुनीयम् , |
|---|
भिमानात् । न हीयते न भ्रश्यति । मानहीनस्य न किञ्चिच्छुभमस्तीत्यर्थः ॥
हिन्दी—पुरुष तब तक लक्ष्मीसे आश्रय किया जाता है और उसका तब तक स्थिर होता है जब तक वह अभिमानसे रहित नहीं होता है ॥ ६१ ॥
स पुमानर्थवज्जन्मा यस्य नाम्नि पुरःस्थिते ।
नान्यामङ्गुलिमभ्येति संख्यायामुद्यताङ्गुलिः ॥ ६२ ॥
मल्लि०—स इति । स पुमान्, अर्थवज्जन्मा सार्थकजन्मा यस्य पुंसो पुरोऽग्रे स्थिते सति संख्यायां पुरुषगणनाप्रस्तावे उद्यता गुणमधिकृत्योद्यताङ्गुलिरन्यां द्वितीयाम् । अङ्गुलिम् । उद्यतामिति शेषः । नाभ्येति न प्राप्नोति अद्वितीयत्वादस्येत्यर्थः । एतन्मानरहितस्य न संभवतीति भावः ॥ ६२ ॥
हिन्दी—उस पुरुषका जन्म सार्थक है जिसका नाम आगे रहनेपर पुरुषगणनाके अवसरमें उद्यत अंगुलि दूसरी अंगुलिको प्राप्त नहीं करती है ॥ ६२ ॥
दुरासदवदज्यायान् गम्यस्तुङ्गोऽपि भूधरः ।
न जहाति महौजस्कं मानप्रांशुमलङ्घ्यता ॥ ६३ ॥
मल्लि०—दुरासदेति । दुरासदैर्वनैर्ज्यायान् प्रवृद्धस्तथापि तुङ्गोऽपि गम्यो गन्तुं शक्य एव । प्रसिद्धे चैतदिति भावः । महौजस्कं प्रतापसंपन्नं प्रांशुं मानोन्नतम् । पुरुषमिति शेषः । अलङ्घ्यता न जहाति । कदाचिन्मानोन्नतं चालयितुं न शक्यत इत्यर्थः । गिरेरपि गरीयान् मानाधिक इति भावः । अत्रोपमानभूधरादुपमेयस्य मानिनो धर्मान्तरसाम्येऽप्यलङ्घ्यत्वेनाधिक्यकथनाद्व्यतिरेकालंकारः ॥ ६३ ॥
हिन्दी—दुष्प्राप्य, वनोंसे बड़ा हुआ और ऊँचा होनेपर भी पर्वत जाया जा सकता है, परन्तु प्रतापसे सम्पन्न और मानसे उन्नत पुरुष अलङ्घनीयता नहीं छोड़ता है अर्थात् कोई उसका लंघन नहीं कर सकता है ॥ ६३ ॥
गुरून्कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुन्धरा ।
येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥ ६४ ॥
मल्लि०—गुरून्निति । ते नराः । वंश्यान् अन्वये भवान् । गुरून् अधिकान् प्रथयन्ति । स्वनाम्ना व्यपदिशयन्ति रघुदिलीपादिवदित्यर्थः । तैर्नरैः । वसूनि रत्नानि धरतीति वसुन्धरा । 'संज्ञायां भृतृवृजी-'त्यादिना खच्प्रत्यये 'खचि ह्रस्वः'