भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 497, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 497

एकादशः सर्गः (२३९)

शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः ।
जन्मिनो मानहीनस्य तृणस्य च समा गतिः ॥ ५९ ॥

मल्लि०— शक्तोति । शक्तिवैकल्येनोत्साहादिशक्तिवैधुर्य्येणाऽवष्टम्भसामर्थ्यविरहेण च नम्रस्य प्रह्वीभूतस्य विधेयभूतस्य च निःसारत्वात् दुर्बलत्वात् स्थिरांशरहितत्वाच्च । 'सारो बले स्थिरांशे च' इत्यमरः । लघीयसो गौरबहीनस्य । नीरसस्येत्यर्थः । मानहीनस्य जन्मिनो जन्तोः । व्रीह्यादित्वादिनिः । तृणस्य च गतिरवस्था समा इति । मानहीनस्य तृणादपि निकृष्टत्वान्न त्याज्यो मान इति भावः । श्लेषालंकारोऽयं तदनुप्राणितेयमुपमेत्यनेकार्थदीपिकेति व्यज्यते ॥ ५९ ॥

हिन्दी -- उत्साह आदि शक्तिकी विकलतासे नम्र और सारहीन होनेसे गौरवसे रहित, अभिमानहीन पुरुषकी और तृणकी अवस्था समान होती है ॥ ५९ ॥

मानत्यागे दोषमुक्त्वा तत्सद्भावे षड्भिर्गुणमाह—

अलङ्घ्यं तत्समुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् ।
प्रियतां ज्यायसी मागान्महतां केन तुङ्गता ? ॥ ६० ॥

मल्लि०— अलङ्घ्यमिति । महीभृतां पर्वतानां संबन्धि यद्यत् शृङ्गादिकम् । उच्चैरुन्नतं तत्तदलङ्घ्यमुदीक्ष्योत्प्रेक्ष्य । तर्कयित्वेति यावत् । महतां महात्मनां तुङ्गता मानोन्नत्यं ज्यायसीं प्रियतां प्रियत्वं केन हेतुना मागात् । न केनापि प्रियत्वं गच्छत्येवेत्यर्थः । आशिषि माङि लुङ् । अटोऽपवादः । दैवमनिच्छामूत्पादयत्योषधबदस्मिन्मयं इत्याशंसनार्थमाशीःप्रयोगः । उद्वीक्ष्येत्यसमानकर्तृकत्वनिर्देशः क्वचित्प्रयोगदर्शनात्सोढव्यः । केचित् 'उद्दीक्ष्यम्' इति पठन्ति । तत्र यद्यदुच्चैस्तत्तलङ्घ्यमुद्दीक्ष्यमवलोकनीयं न चोल्लङ्घनीयमिति । ततो महतामित्यादि योजयन्ति ॥ ६० ॥

हिन्दी— पर्वतोंके जो-जो शृङ्ग ( चोटी ) आदि उन्नत हैं उसको अलङ्घनीय तर्कना करके महात्माओंकी अभिमानसे उन्नतता श्रेष्ठ प्रियताको कि क्यों प्राप्त नहीं करेगा ? ॥ ६० ॥

तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः ।
पुरुषस्तावदेवासौ यावन्मानान्न हीयते ॥ ६१ ॥

मल्लि०— तावदिति । किंच, तावदेवासौ लक्ष्म्याऽऽश्रीयते । तावदस्य पुंसो यशः स्थिरम् । तावदेव असौ पुरुषः । पुरुषत्वेन गण्यत इत्यर्थः । यावत् मानान्-