किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 496, कुल 707 में से
संदर्भ में पढ़ें२३८ | किरातार्जुनीयम्
धूर्तस्य। वृत्तमोहितं विधेर्देवस्य वृत्तमिव दुर्विभावं विभावयितुमशक्यम्। किन्तु कार्येकसमधिगम्यमित्यर्थः। भयतेर्घञ्न्तात्कृच्छ्रार्थे खलप्रत्ययः ॥ ५६ ॥
हिन्दी—लोकाऽपवादसे न डरनेवाले और गुण तथा दोषमें समान बुद्धि रखनेवाले दुराचारीकी चेष्टा भाग्यके विधानके समान नहीं जानी जाती है ॥ ५६ ॥
नन्वेवं मानी कथं परिभूतो जीवसि तत्राह—
ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः।
यद्यमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥ ५७ ॥
मल्लि०—ध्वंसेतेति। परैः शत्रुभिः परिभूतस्य मे हृदयं सद्यो ध्वंसेत। भ्रश्येदित्यर्थः। अमर्षः कर्त्ता प्रतिक्रियारूपं भुजालम्बं हस्तावलम्बनं न लम्भयेन्न ग्राहयेद्यदि। हृदयेनेति शेषः। सत्यं जीवामि प्रतिविधित्सया। न तु निर्लज्जतयेति भावः ॥ ५७ ॥
हिन्दी—शत्रुओंसे तिरस्कृत मेरा हृदय, क्रोध प्रतीकार-स्वरूप बाहुका अवलम्बन ग्रहण न कराता तो उसी क्षण ध्वस्त हो जाता ॥ ५७ ॥
ननु तवैव कोऽयमभिमानस्तत्राह—
अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तितम्।
अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥ ५८ ॥
मल्लि०—अवधूयेति। अरिभिरवधूय परिभूय हरिणैर्मृगैस्तुल्यवृत्तित्वं तुल्यजीवनत्वम्। वन्याहारतामित्यर्थः। नीताः प्रापिता वयम्। पञ्चापीति शेषः। अन्योन्यस्यापि जिह्रीमो लज्जामहे। सहवासिनां सहचारिणां किं पुनः। प्रागेव जिह्रीम इति किमु वक्तव्यमित्यर्थः। क्रियायोगे संबन्धसामान्ये षष्ठी। यद्यप्यमी पञ्चापि तुल्याभिमाना एव। इदं तु मदेकसाध्यं कर्मेति मुनिशासनाम्ययानुजीव्यत इति भावः ॥ ५८ ॥
हिन्दी—शत्रुओंसे तिरस्कृत होकर हमलोग मृगोंके समान जीवनवाले बनाये गये हैं, एक दूसरेसे भी लज्जित होते हैं सहचारियोंसे मिलनेपर फिर क्या कहना है ? ॥ ५८ ॥
ननु तर्हि दुःखनिदानमन्तःशत्रु मान एव त्यज्यतामित्याशङ्क्य तत्त्यागे दोषमाह—