भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

अष्टादशः सर्गः

अष्टादशः सर्गः

मल्लि०—शरणमिति। हे अजित अपराजित ! हे भव ! अतिकारुणिकमति- दयालुम्। 'तदस्य प्रयोजनम्' इति ठक्। भक्तिगम्यं भक्तिमात्रसुलभं भवन्तं शरणं रक्षकमधिगम्य जितमृत्यवो विगतमरणाः। अमरा भूत्वेत्यर्थः। जनाः ससुरासुरस्य जगतो भय आपदि स्वयं रक्षितारो भवन्ति। 'शरणं गृहरक्षित्रोः' इति विश्वः। प्रमिताक्षरा वृत्तम् ॥ २२ ॥

हिन्दी—किसीसे पराजित न होनेवाले हे शिवजी ! अत्यन्त दयालु भक्तिसे सुलभ आपको रक्षक पाकर मृत्युको जीतकर भयके समयमें देवताओं और दैत्योंसे युक्त लोकको शरण देनेवाले हो जाते हैं ॥ २२ ॥

विपदेति तावदवसादकरी न च कामसंपदभिकामयते । न नमन्ति चैकपुरुषं पुरुषास्तव यावदीश ! न नतिः क्रियते ॥ २३ ॥

मल्लि०—विपदेति । हे ईश ! यावत्तव नतिः प्रणामो न क्रियते । पुरुषेणेति शेषः। तावदेव एकं पुरुषमेकाकिनं सन्तमवसादकरी क्षयकरी विपदेति प्राप्नोति । कामसंपत् मनोरथसंपच्च नाभिकामयते नेच्छति पुरुषाश्चान्ये लोकास्तमेकं पुरुषं तव स्तुतिमकुर्वाणं न नमन्ति न वशे वर्तन्ते । नानिष्ठनिवृत्तिर्नापीष्टप्राप्तिरित्यर्थः । यदा तु त्वां प्रणमन्ति तदैव सर्वं लभ्यते इति भावः ॥ २३ ॥

हिन्दी—हे ईश्वर ! पुरुष जबतक आपको प्रणाम नहीं करता है तबतक सहायहीन उसको क्षय करनेवाली विपत्ति प्राप्त हो जाती है । मनोरथसम्पत्ति भी उस पुरुषको नहीं चाहती है । अन्यपुरुष भी अपनी स्तुति न करनेवालेके वशमें नहीं रहते हैं ॥ २३ ॥

संसेवन्ते दानशीला विमुक्त्यै संपश्यन्तो जन्मदुःखं पुमांसः । यन्निःसङ्गस्त्वं फलस्यानतेभ्यस्तत्कारुण्यं केवलं न स्वकार्यम् ॥२४॥

मल्लि०—संसेवन्त इति । दानं शीलं स्वभावो निजधर्मो येषां ते दानशीलाः । त्वामेवोद्दिश्य दानं कुर्वन्त इत्यर्थः । 'तस्माद्दानं परमं वदन्ति' इति श्रुतेरिति भावः । कुतः । यतो जन्मदुःखं संपश्यन्तोऽनुभवन्तः पुमांसो विमुक्त्यै मोक्षाय संसेवन्ते । भवन्तमिति शेषः । न च तच्चित्रम्, किंतु आनतेभ्यः प्रणम्रेभ्यो निःसङ्गो निःस्पृहस्त्वं यत् फलसि फलं ददासि । तेषां फलार्थित्वादिति भावः । यत् केवलं निरुपाधिकं कारुण्यं करुणा । स्वार्थे ष्यञ् । 'कारुण्यं करुणा घृणा'

४१२किरातार्जुनीयम्

इत्यमरः । न स्वकार्यम् । एतदेव चित्रम् । केवलं परार्थत्वादिति भावः । शालिनी- वृत्तम् ॥ २४ ॥

**हिन्दी—**दान करनेके स्वभाववाले पुरुष और जन्मके दुःखको देखते हुए मोक्ष पानेके लिए आपकी सेवा करते हैं । प्रणाम करनेवालोंको निस्पृह होकर जो आप फल देते हैं वह केवल आपकी करुणा है, अपना कार्य नहीं है ॥ २४ ॥

प्राप्यते यदिह दूरमगत्वा यत्फलत्यपरलोकगताय ।
तीर्थमस्ति न भवार्णवबाह्यं सार्वकामिकमृते भवतस्तत् ॥ २५ ॥

**मल्लि०—**प्राप्यत इति । यत् तीर्थम् । इहाऽस्मिँल्लोके दूरमगत्वा प्राप्यते । स्मृतिमात्रसुलभमित्यर्थः । गङ्गादिकं तु न तथेति भावः । यत्तीर्थमपरलोकगताय फलति फलं प्रयच्छति । अत्रापि स्मरणमात्रादेवेति भावः । भवः संसारः स एव अर्णवस्ततो बाह्यं बहिर्भवं संसारातीतम् । मोक्षपदमित्यर्थः । 'बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्' इति ञ्यप्रत्ययः । सर्वे कामाः प्रयोजनमस्येति सार्वकामिकम् । 'तदस्य प्रयोजनम्' इति ठक् । तत् तादृक् । तरन्त्यनेनेति तीर्थं तारकं भवतस्त्वदृते । 'अन्यारात्—' इत्यादिना पञ्चमी । अन्यन्नास्ति । औपच्छन्दसिकं वृत्तम् ॥ २५ ॥

**हिन्दी—**जिस तीर्थको मनुष्य इस लोकमें दूर न जाकर पाता है जो तीर्थ परलोकमें गये हुए पुरुषको फल देता है, संसाररूप समुद्रसे बाह्य अर्थात् मोक्षपद जो कि सकल अभिलाषरूप प्रयोजनवाला तीर्थ है वह आपसे अतिरिक्त नहीं है ॥ २५ ॥

व्रजति शुचि पदं त्यवयि प्रीतिमान्प्रतिहतमतिरेति घोरां गतिम् ।
इयमनघ ! निमित्तशक्तिः परा तव वरद ! न चित्तभेदः क्वचित् ॥२६॥

**मल्लि०—**व्रजतीति । हे वरद ! त्वयि प्रीतिमान् नरः शुचि निर्मलं पदं कैवल्यं मुक्ति व्रजति । 'मुक्तिः कैवल्यनिर्वाण—' इत्यमरः । प्रतिहतमतिरुपहतबुद्धिः । त्वद्वेषीत्यर्थः । घोरां गतिं तीव्रं नरकम् । एति प्राप्नोति । न चैतावता तव रागद्वेषकलङ्कपङ्क इत्याह — इयमिति । हे अनघ निष्कलङ्क ! इयम् । भक्ताभक्तयोरिति शेषः । विधेयप्राधान्यात्स्त्रीलिङ्गता । परा दुस्तरा निमित्तशक्तिर्निमित्तभूता शक्तिः स्वचेष्टितमहिमा । तव क्वचिद्भक्ते द्वेषिणि वा कुत्रापि

अष्टादशः सर्गः ४१९

अष्टादशः सर्गः ४१९

चित्तभेदो बुद्धिवैषम्यं नास्ति । स्वकर्मणैव जन्तुस्तरति पतति वा । त्वं साक्षितया सर्वत्र सम इत्यर्थः ॥ २६ ॥

हिन्दी— हे वरद ! आपमें प्रीति करनेवाला पुरुष निर्मल पद ( मोक्ष ) को प्राप्त करता है । इसके विपरीत आपसे द्वेष करनेवाला पुरुष तीव्र नरकको प्राप्त करता है । हे निष्कलङ्क ! यह दुस्तर निमित्तशक्ति आपकी कहीं ( अपने भक्तमें वा अपने द्वेषी जनमें ) भी बुद्धिकी विषमता नहीं है ॥ २६ ॥

दक्षिणां प्रणतदक्षिणमूर्ति तत्त्वतः शिवकरीमविदित्वा ।
रागिणापि विहिता तव भक्त्या संस्मृतिर्भव भवत्यभवाय ॥ २७ ॥

मल्लि०— दक्षिणामिति । हे भव ! प्रणतदक्षिण ! प्रणतेषु दाक्षिण्यसंपन्न ! दाक्षिण्यं परच्छन्दानुवर्तित्वम् । 'दक्षिणः सरलावामपरच्छन्दानुवर्तिषु' । इति विश्वः । शिवकरीं श्रेयस्करीम् । 'कृञो हेतु-' इत्यादिना टप्रत्यये ङीप् । तव दक्षिणां मूर्तिं तत्त्वतो याथार्थ्येन अविदित्वापि रागिणा रागद्वेषवतापि भक्त्या विहिता तव संस्मृतिः सम्यक्स्मरणमभवाय संसारनिवृत्तये । प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते । भवति । तत्त्वज्ञानं विनापि भक्तिपूर्विका तव संस्मृतिरेव मुक्तिनिदानमित्यर्थः । स्वागता वृत्तम् ॥ २७ ॥

हिन्दी— हे भक्तोंमें उदार ! हे शिवजी ! कल्याण करनेवाली आपकी दक्षिणामूर्तिको यथार्थरूपसे न जानकर भी रागद्वेष करनेवाले पुरुषसे भी भक्तिसे किया गया आपका संस्मरण संसारकी निवृत्तिके लिए ( मोक्ष प्राप्तिके लिए ) हो जाता है ॥ २७ ॥

दृष्ट्वा दृश्यान्याचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तमपायैः ।
सम्यग्दृष्टिस्तस्य परं पश्यति यस्त्वां यश्चोपास्ते साधु विधेयं स विधत्ते ॥

मल्लि०— दृष्ट्वेति । प्रेक्षया बुद्ध्या करोतीति प्रेक्षाकारी विमृश्यकारी दृश्यानि द्रष्टव्यानि दृष्ट्वा ज्ञात्वा आचरणीयानि कर्तव्यानि च विधाय कृत्वा, अपायैर्मुक्तं नाशवर्जितं पदं याति । 'अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते' । इति श्रुतेः । ज्ञानकर्मभ्यां मुक्तिरित्यर्थः । किन्तु ते अपि ज्ञानकर्मणी त्वद्विषय एव मुक्तिसाधनं नान्यविषय इत्याशयेनाह—सम्यगिति । यः पुमान् परं पुरुषोत्तमत्वेन सर्वोत्कृष्टं त्वां पश्यति तस्य सम्यग्दृष्टिः सम्यग्ज्ञानम् । यश्च त्वामुपास्ते सेवते स एव साधु विधेयं विधत्ते । साधुकारीत्यर्थः । मत्तमयूरं वृत्तम् । लक्षणं तूक्तम् । २८ ।

४१४किरातार्जुनीयम्

हिन्दी— विचारपूर्वक कार्य करनेवाला द्रष्टव्य तत्त्वोंको जानकर कर्त्तव्योंको भी करके नाशरहित पद (मोक्ष) को प्राप्त करता है। जो पुरुष परमपुरुष आपको जान लेता है उसका उत्तम ज्ञान है और जो आपकी उपासना करता है वह उत्तम कर्म करता है ॥ २८ ॥

युक्ताः स्वशक्त्या मुनयः प्रजानां हितोपदेशैरुपकारवन्तः ।
समुच्छिनत्सि त्वमचिन्त्यधामा कर्माण्युपेतस्य दुरुत्तराणि ॥ २९ ॥

मल्लि०— युक्ता इति। मुनयो व्यासादयः स्वशक्त्या निजयोगमहिम्ना युक्ताः। तया हितोपदेशैर्विधिनिषेधवाक्यैः स्मृतीतिहासपुराणमुखेन प्रजानामुपकारवन्तः कृतोपकाराश्च। मोक्षप्रदस्तु तेषामन्येषां च त्वमेवेत्याह — समिति। अचिन्त्यधामाऽचिन्त्यमहिमा त्वमेव उपेतस्य शरणं प्राप्तस्य प्रपन्नस्य संबन्धीनि दुरुस्तराणि कर्माणि बन्धकानि पुण्यपापानि समुच्छिनत्सि नाशयसि। ते त्वन्नाशसमर्था एवेति भावः ॥ २९ ॥

हिन्दी— व्यास आदि मुनि अपने योगकी महिमासे युक्त होकर हितके उपदेशोंसे (धर्मशास्त्र, पुराण और इतिहास आदि शास्त्रोंसे प्रजाओंका उपकार करते हैं। परन्तु अचिन्तनीय महिमावाले आप ही शरणमें प्राप्त पुरुषके दुस्तर बन्धक पुण्य और पाप कर्मोंका नाश कर देते हैं ॥ २९ ॥

संनिबद्धमपहतुंमहार्यं भूरि दुर्गतिभयं भुवनानाम् ।
अद्भुताकृतिमिमामतिमायस्त्वं बिभर्षि करुणामय ! मायाम् ॥ ३०॥

मल्लि०— संनिबद्धमिति। अतिक्रान्तो मायां बन्धरूपामतिमायः। 'अत्यादयः क्रान्ताद्यर्थे द्वितीया' इति समासः। हे करुणामय ! हे कृपालो ! संनिबद्धं स्वकर्मणा दृढबद्धमत एव, अहार्यमन्यैरनुच्छेद्यं भूरि प्रभूतं भुवनानां दुर्गतिभयं नरकभयम्। 'स्यान्नारकं तु नरको निरयो दुर्गतिः स्त्रियाम्' इत्यमरः। अपहर्तुं मद्भुताकृति विचित्ररूपामिमां मायां दृश्यमानां लीलाविग्रहरूपां बिभर्षि। अन्येषां कर्मानुबन्धी विग्रहपरिग्रहः। भवतस्तु परोपकारार्थ इत्यर्थः ॥ ३० ॥

हिन्दी— बन्धरूप मायाका लंघन करनेवाले हे दयालो ! अपने कर्मसे दृढ़-रूपसे बद्ध औरोंसे अनुच्छेद्य लोकोंका प्रचुर नरकभयको हटानेके लिए आपही विचित्ररूपवाली दृश्यमान लीलाविग्रहरूप इस मायाको धारण कर लेते हैं। ३०।

अष्टादशः सर्गः ४१९

अष्टादशः सर्गः ४१९

न रागि चेतः परमा विलासिता वधूः शरीरेऽस्ति न चास्ति मन्मथः ।
नमस्क्रिया चोषसि धातुरित्यहो निसर्गदुर्बोधमिदं तवेहितम् ॥ ३१ ॥

मल्लि०—न रागीति । देव ! यतस्तव चित्तं रागि रागयुक्तं न । परमयोगित्वादिति भावः । तथापि परमा निरतिशया विलासिता शृङ्गारादिचेष्टाशीलता । भिक्षाटनादिषु विहरणेन तौर्यत्रिकव्यसनितया चेति भावः । किंच, शरीरेऽर्धाङ्गे वधूरस्ति । प्रसिद्धं चैतदिति भावः तथापि मन्मथः कामश्च नास्ति । तस्य भस्मीकरणादिति भावः । किंच, उषसि प्रातःसंध्यायां धातुर्ब्रह्मणो नमस्क्रिया वन्दनम् । स्वयं जगद्वन्द्यस्यापीत्यर्थः । इतोत्थं विरुद्धमिदमुक्तं तवेहितं चेष्टितं निसर्गतो दुर्बोध दुराकलनीयम् । दुर्ग्रहमित्यर्थः । अदृष्टपूर्वत्वादिति भावः । वंशस्थं वृत्तम् ॥ ३१ ॥

**हिन्दी—**हे भगवन् ! आपका चित्त रागद्वेषवाला नहीं है । तो भी आपको अनुपम शृङ्गार आदि चेष्टाशीलता है तथा आपके अर्धाङ्गमें पत्नी (पार्वती) है, तथापि आपमें कामविकार नहीं है; परन्तु प्रातःकालकी सन्ध्यामें आप ब्रह्माजीको नमस्कार करते हैं, आश्चर्य है कि आपकी यह चेष्टा स्वभावतः दुर्बोध है ॥ ३१ ॥

तवोत्तरीयं करिचर्म साङ्गजं ज्वलन्मणिः सारसनं महानहिः ।
स्रगास्यपङ्क्तिः शवभस्म चन्दनं कला हिमांशोश्च समं चकासति ॥

मल्लि०—तवेति । हे देव ! तव साङ्गजं सलोमकं करिचर्मोत्तरीयं संव्यानम् । दुःस्पर्शमिति भावः । 'संव्यानमुत्तरीयं च' इत्यमरः । ज्वलन्मणिर्ज्वलद्रत्नो महानहिः सारसनं कटिभूषाविशेषः । योऽन्येषां प्राणहर इत्यर्थः । 'क्लीवे सारसनं चाथ पुंसकव्यां शृङ्खलं त्रिषु' इत्यमरः । आस्यपंक्तिः कपालमाला स्रक् माल्यम् । शवभस्म चन्दनम् । उभयत्राप्यस्पृश्यममङ्गलं चेति भावः । किंच, एतानि वस्तूनि हिमांशोः कला च समं तुल्यतया चकासति दीप्यन्ते । स्वदाश्रयवशादरम्यस्यापि रम्यतेति किमाश्चर्यं तवेति भावः ॥ ३२ ॥

**हिन्दी—**हे भगवन् ! रोमसे युक्त गजचर्म आपका उत्तरीय है, चमकती मणिवाला विशाल सर्प आपका कटिभूषण है, नरकपालोंकी पङ्क्ति आपकी माला है, शवभस्म आपका चन्दन है और (आपके शिरमें स्थित) चन्द्रकला भी ये सब पदार्थ आपमें तुल्यरूपसे प्रकाशित हो रहे हैं ॥ ३२ ॥

४१६ किरातार्जुनीयम्

अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः। तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥३३॥

मल्लि०—अविग्रहस्येति। अविग्रहस्य वस्तुतोऽशरीरस्यापि सतोऽतुलेन दुर्बोधत्वादसदृशेन हेतुना। केनापि कारणेनेत्यर्थः। समेता संगता भिन्ना विलक्षणा च द्वयी द्विविधा स्त्रीपुंमात्मिका मूर्तिर्यस्मिन्कर्मणि तत् समेतभिन्नद्वयमूर्ति यथा तथा तिष्ठतः। अशरीरस्य शरीरमेव विरुद्धम्, तदपि नारीनरत्मकमिति कियताद्वित्रमस्तीति भावः। एवंविधस्य तवैव जगत्सु विरुद्धे वेषाभरणे पूर्वोक्ते यस्य तस्य विरुद्धवेषाभरणस्यापि सतः कान्ता रमणीयता दृश्यते। अन्यस्य न दृश्यते। तस्मादचिन्त्योऽसौ तव महिमेति भावः ॥ ३३ ॥

हिन्दी—वस्तुतः शरीरसे रहित होकर भी अनुपम कारणसे संगत विलक्षण स्त्री और पुरुषरूप दो मूर्तियोंसे रहनेवाले इस प्रकार लोकोंमें विरुद्ध वेष और आभरणवाले आपको ही रमणीयता देखी जा रही है ॥ ३३ ॥

आत्मलाभपरिणामनिरोधैर्भूतसङ्घ इव न त्वमुपेतः। तेन सर्वभुवनातिग लोके नोपमानमसि नाप्युपमेयः ॥ ३४ ॥

मल्लि०—आत्मति। हे देव! त्वं भूतसङ्घ इव शरीरादिसंघात इव आत्मलाभपरिणामनिरोधैर्जन्मजरामरणैः। उपेतो युक्तो नासि। तेन कारणेन हे सर्वभुवनातिग सर्वलोकोत्तर! उपमीयतेऽनेनेत्युपमानं नासि। उपमीयते यत्तदुपमेयमपि नासि। न कश्चित्त्वादृशोऽस्ति। त्वमपि नान्यसदृशः। अनन्यसाधारणत्वादित्यर्थः। वृत्तमुक्तम् ॥ ३४ ॥

हिन्दी—हे भगवन् ! आप शरीर आदिके समूहके समान जन्म, जरा (बुढापा) और मृत्युसे युक्त नहीं हैं, इस कारणसे सकल लोकोंका अतिक्रमण करनेवाले हे भगवन् ! आप लोकमें न उपमान-स्वरूप हैं और न तो उपमेयस्वरूप ही हैं ॥ ३४ ॥

त्वमन्तकः स्थावरजङ्गमानां, त्वया जगत्प्राणिति देव ! विश्वम्। त्वं योगिनां हेतुफले रुणत्सि त्वं कारणं कारणकारणानाम् ॥ ३५ ॥

मल्लि०—त्वमिति। हे देव! त्वंस्थावरजङ्गमानामन्तकः संहर्ता। त्वया हेतुना विश्वं सर्वं जगत् प्राणिति जीवति। त्वं योगिनां हेतुः प्रवर्तकं कर्म फलं भोगश्च ते हेतुफले रुणत्सि निवर्तयसि। तेषां त्वमेव बन्धविमोचक इत्यर्थः। किञ्च,

अष्टादशः सर्गः ४१७

अष्टादशः सर्गः ४१७

त्वं कारणानि भूतानि, तेषां कारणानि भूतसूक्ष्माणि परमाणवो वा तेषां कारण- कारणानां कारणं प्रकृत्यादिद्वारोत्पत्तिस्थानम्। अत्र सर्वत्र 'यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत् प्रयन्त्यभिसंविशन्ति' इति श्रुतिः प्रमाणमिति भावः ॥ ३५ ॥

हिन्दी—हे भगवन्! आप स्थावर (अचर) और जङ्गम (चर) प्राणियों- के संहारक हैं। आपसे समस्त लोक प्राणधारण करता है। आप योगियोंके प्रवर्तक कर्म और उनके भोगका निवारण करते हैं, अर्थात् उनके बन्धको छुड़ाते हैं। आप पञ्चमहाभूत और उनके कारण भूतसूक्ष्म (शब्द स्पर्शा) आदिके कारण हैं ॥ ३५ ॥

रक्षोभिः सुरमनुजैर्दितेः सुतैर्वा यल्लोकेष्वविकलमाप्तमाधिपत्यम्।
पाविन्याः शरणागतातिहारिणे तन्माहात्म्यं भव भवते नमस्क्रियायाः॥

मल्लि०—रक्षोभिरिति । रक्षोभी राक्षसैः सुरमनुजै. सुराश्च मनुजाश्च तैर्देवमनुष्यैर्दितेः सुतैर्दैत्यैर्वा लोकेषु यदविकलं संपूर्णमाधिपत्यमाप्तं प्राप्तं, तत् हे भव ! शरणागतानामार्तिहारिणे दुःखनाशकाय भवते तुभ्यं नमस्क्रियायाः । 'नमःस्वस्ती-'त्यादिना चतुर्थी । पाविन्याः पापहारिण्या माहात्म्यं सामर्थ्यम् । 'न कश्चाप्युन्नतस्ते भवति शिरसस्त्वय्यवनतिः' इति भावः । प्रहर्षिणीवृत्तम् ॥ ३६॥

हिन्दी—हे भव (शिवजी)! राक्षस, देवता, मनुष्य अथवा दैत्य इन सभीने लोकमें जो सम्पूर्ण आधिपत्य पा लिया वह शरणागतोंके दुःखनाशक आपको किये गये पापनाशक नमस्कार कर्मका सामर्थ्य है ॥ ३६ ॥

अथाष्टमूर्तिषु काश्चित्स्तुवन् वायुमूर्ति तावदाह—

तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रम्।
परितो दुरितानि यः पुनीते शिव तस्मै पवनात्मने नमस्ते ॥ ३७ ॥

मल्लि०—तरसेति । यः पवनः । तरसा बलेन । 'तरसी बलरंहसी' इति विश्वः । भुवनानि बिभर्ति प्राणात्मना धारयति । यतो यत्प्रेरणात् पवित्रं परं परमं ब्रह्म वर्णात्मकं ध्वनति नदति । 'सोदीर्णो मूर्धन्यभिहतो वक्त्रमापद्य मारुतः । वर्णाञ्जनयते' इति वचनात् । यः पवनः परितो दुरितानि पातकानि पुनीते शोधयति । नाशयतीति यावत् । हे शिव ! तस्मै पावयतीति पवनो वायुः स एवात्मा यस्य तस्मै पवनात्मने ते तुभ्यं नमः । वृत्तमुक्तम् ॥ ३७ ॥

२७ कि०

४१८ | किरातार्जुनीयम्

हिन्दी— हे शिवजी ! जो वायुदेव बलसे लोकोंका धारण करते हैं, जिसकी प्रेरणासे पवित्र परम ब्रह्म ध्वनित होता है जो वायुदेव चारों ओरसे पातकोंको नष्ट करते हैं, ऐसे पवित्र करनेवाले वायुस्वरूप आपको नमस्कार है ॥ ३७ ॥

भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुषाम् ।
दहते भवबीजसंततिं शिखिनेऽनेक शिखाय ते नमः ॥ ३८ ॥

मल्लि० — भवत इति। जयिनि जयशीले सर्वोत्कृष्टे ब्रह्ममये ब्रह्मप्रदाने। तत्प्राप्त्युपायत्वात्। सदासने सम्यगासने। योगासन इत्यर्थः। निषेदुषामुपविष्टानां भवतः स्मरतां भवन्तं ध्यायताम्। 'अधीगर्थे-'त्यादिना शेषे कर्मणि षष्ठी। भवबीजसंततिं संसारनिदानकर्मसंघातं दहते भस्मीकुर्वतेऽनेक शिखाय बहुज्वालाय शिखिने वह्निमूर्तये ते तुभ्यं नमः ॥ ३८ ॥

हिन्दी— जयशील ब्रह्म प्रदानमें योगासनमें बैठे हुए आपका स्मरण करते हुए योगियोंका संसारके हेतु कर्मसमूहका दाह करते हुए अनेक ज्वालाओंसे युक्त अग्निस্বরূপ आपको नमस्कार है ॥ ३८ ॥

अथ जलमूर्तिं स्तौति—
आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यो भव महता भवानलेन ।
निर्वाणं समुपगमेन गच्छते ते बीजानां प्रभव नमोऽस्तु जीवनाय ॥ ३९ ॥

मल्लि०— आबाधेति। भव ! बीजानां प्रभव ! कारणभूत ! 'जीवानाम्' इति पाठे तेषां तत्प्रतिबिम्बत्वादिति भावः। आवाधाऽध्यात्मिकादिदुःखं मरणं पञ्चत्वं ताभ्यां भयं तदेवाचिर्यस्य तेन महता भवानलेन संसाराग्निना चिराय चिरं प्लुष्टेभ्यो दग्धेभ्यः समुपगमेन संसेवया निर्वाणं संतापशान्तिं यच्छते ददते जीवयतीति जीवनं तस्मै जीवनाय जलात्मने ते तुभ्यं नमः ॥ ३९ ॥

हिन्दी— हे शिवजी ! हे बीजोंके कारणस्वरूप ! आध्यात्मिक आदि दुःख और मरणसे भयरूप ज्वालासे युक्त, महान् संसाररूप अग्निसे बहुत समय तक जले हुए लोगोंको सेवासे निर्वाण ( सन्तापकी शान्ति ) देते हुए और जीवित करते हुए जलस्वरूप आपको नमस्कार है ॥ ३९ ॥

इदानीं नभोमूर्तिं स्तौति—
यः सर्वेषामावरीता वरीयान् सर्वैर्भाविर्नावृतोऽनादिनिष्ठः ।
मार्गातीतायेन्द्रियाणां नमस्तेऽविज्ञेयाय व्योमरूपाय तस्मै ॥ ४० ॥

अष्टादशः सर्गः | ४१९

अष्टादशः सर्गः४१९

**मल्लि०—**य इति । भवेत्यनुवर्तते । भवत्यस्मादयं प्रपञ्च इति भवस्तत्संबुद्धौ सकलजगज्जनकेति यावत् । वरीयानुरुतरः विभुरित्यर्थः । ‘प्रियस्थिरे—’त्यादिना ‘उरु’ शब्दस्य वरादेशः । यस्त्वं सर्वेषां वस्तूनां आवरीताऽऽच्छादयिता । वृणोतेस्तृच्प्रत्ययः । सर्वैर्भावैः पदार्थैनावृतः केनापि कदाचिदप्यनावृतः, स्वयं व्यापकत्वादिति भावः । अविद्यमाने आदिनिष्ठे उत्पत्तिनाशे यस्यासावनादिनिष्ठो नित्यः ‘निष्ठानिष्पत्तिनाशान्ताः’ इत्यमरः । इन्द्रियाणां चक्षुरादीनां मार्गमतीतागतीन्द्रियाय । अत एव अविज्ञेयायापरिच्छेद्याय तस्मै व्योमरूपाय ते तुभ्यं नमः ॥ ४० ॥

**हिन्दी—**प्रपञ्चोंको उत्पन्न करनेवाले हे भव (शिवजी) ! विभु आप जो सकल पदार्थोंका आच्छादन करनेवाले हैं परन्तु किसीसे भी स्वयम् आच्छादित नहीं होते हैं, उत्पत्ति और नाशसे रहित नित्य हैं, नेत्र आदि इन्द्रियोंके मार्गका अतिक्रमण किये हुए अत एव अविज्ञेय ऐसे आकाशस्वरूप आपको नमस्कार है ॥ ४० ॥


अणीयसे विश्वविधारिणे नमो नमोऽन्तिकस्थाय नमो दवीयसे ।
अतीत्य वाचां मनसां च गोचरं स्थिताय ते तत्पतये नमो नमः ॥

**मल्लि०—**अणीयस इति । भवेत्यनुवर्तते हे भव ! अणीयसे सूक्ष्मतराय तथापि विश्वधारिणे जगद्धारकाय ते तुभ्यं नमः । अन्तिकस्थायान्तर्यामितया संनिकृष्टाय सते । तथापि दवीयसे दुर्ग्रहत्वाद् दूरतराय ते तुभ्यं नमः । वाचां मनसां च गोचरं विषयम् अतीत्य स्थितायावाङ्मनसगोचराय । तत्पतये तेषां वाङ्मनसानामध्यक्षाय । तदध्यक्षस्तैरेव न दृश्यत विरोधः । ते तुभ्यं नमो नमः । ‘चापले द्वे भवत इति वक्तव्यम्’ इति द्विरुक्तिः । संभ्रमेण, प्रवृत्तिश्चापलम्’ इति काशिका । भक्त्युद्रेकाच्च संभ्रमः । विरोधाभासोऽलंकारः ॥ ४१ ॥

**हिन्दी—**हे शिवजी ! अतिशय सूक्ष्म होकर भी विश्वका धारण करनेवाले आपको नमस्कार है, अन्तर्यामी होनेसे निकटमें रहे हुए परन्तु दुर्ग्रह होनेसे अति दूर रहे हुए आपको नमस्कार है, वचन और मनसे अप्राप्य होकर भी उनके अध्यक्ष ऐसे आपको नमस्कार है, नमस्कार है ॥ ४१ ॥


असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वमर्हसि ।
विरोध्य मोहात्पुनरभ्युपेयुषां गतिर्भवानेन दुरात्मनापि ॥ ४२ ॥

**मल्लि०—**असंविदानस्येति । संविदां ज्ञानानामीश ! ‘ईशानः सर्वविद्यानाम्’

४२० | किरातार्जुनीयम्

इति श्रुतेरिति भावः । 'प्रेशोऽधिवांश्चत्सःवत्' इत्यमरः । असंविदानस्याजानतः । 'समो गम्यृच्छीत्यादिना विदेः संपूर्वादकर्मकाच्छानच्प्रत्ययः । मम दुश्चरितं शस्त्रप्रयोगरूपं दुश्चेष्टितं तितिक्षतुं सोढुम् । तिजेः सन्नन्तात्तुमुन्प्रत्ययः । त्वमर्हसि योग्योऽसि । ननु तव महानपराधः कथं सोढव्यस्तत्राह-विरोध्येति । मोहादज्ञानात् विरोध्य वैरमुत्पाद्य पुनरभ्युपेयुषां पश्चाच्छरणागतानां दुरात्मनामपि भवानेव गतिः। त्वं हि शरणागतानामपराधं न गणयसीत्यर्थः ॥ ४२ ॥

हिन्दी--हे जीवोंके स्वामिन् ! ज्ञानसे रहित मेरे शस्त्रप्रहाररूप दुश्चरित्रको सहन करनेके लिए आप योग्य हैं, अज्ञानसे विरोधको उत्पन्न करके फिर शरणमें आनेवाले दुरात्माओंके भी आप ही गति हैं ॥ ४२ ॥

संप्रति वरं याचते—

आस्तिक्यशुद्धमवतः प्रियधर्म ! धर्मं धर्मात्मजस्य विहितागसि शत्रुवर्गे ।
संप्राप्नुयां विजयमीश यया समृद्ध्या तां भूतनाथ विभुतां वितराहवेषु ॥

मल्लि०आस्तिक्येति । प्रियो धर्मो यस्यासौ प्रियधर्मः 'समासान्तो विधिरनित्यः' इति न समासान्तोऽनिच्प्रत्ययः । परलोके मतिरस्तीत्यास्तिकः पारलौकिकः। 'अस्ति नास्तिदिष्टमि-'ति ठक् । तस्य भाव आस्तिक्यं विश्वासस्तेन शुद्धं विमलं धर्मं वैदिकाचारम् । अवतः पालयतो धर्मात्मजस्य युधिष्ठिरस्य विहितागसि कृतापराधे शत्रुवर्गे शत्रुवर्गविषये हे ईश ! यया समृद्ध्याऽस्त्रवैभवेन विजयं संप्राप्नुयां भजेयम् । हे भूतनाथ ! आहवेषु तां विभुतां विभूतिमस्त्रविद्यां वितर देहि ॥ ४३ ॥

हिन्दी--हे स्वामिन् ! हे भूतनाथ ! हे धर्मको प्रिय माननेवाले ! आस्तिकतासे शुद्ध धर्मकी रक्षा कराते हुए युधिष्ठिरपर अपराध किये हुए शत्रुसमूहपर जिस अस्त्रवैभवसे विजयको प्राप्त करूँगा, युद्धमें उस विभुता (अस्त्र-विद्या) का प्रदान कीजिए ॥ ४३ ॥

इति निगदितवन्तं सूनुमक्ष्णोर्मघोनः प्रणतशिरसमीशः सादरं सान्त्वयित्वा ।
ज्वलदनलपरीतं रौद्रमस्त्रं दधानं धनुरुपपदमस्मै वेदमभ्यादिदेश ॥ ४४॥

मल्लि०इतीति । इत्युक्तैर्निगदितवन्तं प्रणतशिरसं मघोन इन्द्रस्य सूनुमर्जुनम् । ईशो महादेवः सादरं यथा तथा सान्त्वयित्वोपसान्त्व्य, अस्मै अर्जुनाय ज्वलताऽनलेन तेजसा परीतं व्याप्तं रौद्रं रुद्रदेवतार्कं पाशुपतमस्त्रं दधानं धनुरुपपदं

अष्टादशः सर्गः

अष्टादशः सर्गः ४२१

‘धनुःशब्दोपपदं वेदम्’ । ‘धनुर्वेदमित्यर्थः । अभ्यादिदेश ददौ । अध्यापयामासेत्यर्थः । ‘धनुरुपपदवेदम्’ इत्यत्र धनुरुपपदत्वं ‘वेद’ शब्दस्य न तु संज्ञिनस्तदर्थस्येति संज्ञायाः संज्ञिगतत्वाभावादवाच्यवचनदोषमाहुरालंकारिकाः । तदुक्तम्—‘यदेवावाच्यवचनमवाच्यवचनं हि तत्’ । इति । समाधानं तु धनुःशब्दविशेषितेन ‘वेद’ शब्देन शब्दरत्नेनेत्यर्थः । पत्रोपदेशयोग्यो धनुर्वेदो लक्ष्यत इति कथंचित्संपाद्यम् ॥

हिन्दी—ऊंचे स्वरसे ऐसा कहते हुए प्रणाम करनेवाले इन्द्रपुत्र अर्जुनको शिवजीने आदरपूर्वक सान्त्वना देकर उनको जलते हुए तेजसे व्याप्त रुद्र देवतावाले पाशुपत अस्त्रको धारण करते हुए धनुर्वेदको पढ़ाया ॥ ४४ ॥

स पिङ्गाक्षः श्रीमान् भुवनमहनीयेन महसा
तनुं भीमां बिभ्रत्त्रिगुणपरिवारप्रहरणः ।
परीत्येशानं त्रिः स्तुतिभिरुपगीतः सुरगणैः
सुतं पाण्डोर्वीरं जलदमिव भास्वानभिययौ ॥ ४५ ॥

मल्लि०—स इति । पिङ्गाक्षः पिङ्गलाक्षः श्रीमान् शोभावान् भुवनमहनीयेन लोकपूज्येन महसा तेजसा भीमां तनुं बिभ्रत् । त्रिगुणस्त्रिशिखः परिवारः आकारो यस्य तत् त्रिगुणपरिवारं त्रिशूलं तदेव प्रहरणमायुधं यस्य स तथोक्तः । 'सूर्यपक्षे तु-गुणत्रयपरिवारस्त्रय्यात्मक इति योज्यम् । स धनुर्वेदः सुरगणैः स्तुतिभिरुपगीतः सन् । ईशानं शिवं त्रिस्त्रिवारम् । ‘द्वित्रिचतुर्भ्यः सुच्’ इति सुच्प्रत्ययः । परीत्य प्रदक्षिणीकृत्य वीरं पाण्डोः सुतमर्जुनम् । भास्वान् सूर्यो जलदमिव । अभिययौ । शिखरिणी वृत्तम् ॥ ४५ ॥

हिन्दी—पीले नेत्रोंवाले, शोभासम्पन्न, लोकमें पूजनीय तेजसे भयङ्कर शरीर को धारण करते हुए, त्रिशूलरूप बायुध लिए हुए, (सूर्य पक्षमें वेदत्रयीरूप), वह धनुर्वेद देवसमूहसे स्तुतिसे गाया जाता हुआ शिवजीको तीन वार प्रदक्षिणा कर वीर पाण्डुपुत्र अर्जुनके जैसे सूर्य मेघके पास जाते हैं उसी तरह सम्मुख गया ॥ ४५ ॥

अथ शशधरमौलेरभ्यनुज्ञामवाप्य
त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै ।
अवितथफलमाशीर्वादमारोपयन्तो
विजपि विविधमस्त्रं लोकपाला वितेरुः ॥ ४६ ॥

४२२ किरातार्जुनीयम्

मल्लि०—अथेति। अथ शशधरमौलिवरप्रदानान्तरं त्रिदशपतिपुरोगा इन्द्रादयो लोकपालाः शशधरमौलेः शम्भोः अभ्यनुज्ञामवाप्य पूर्णकामाय तस्मै पाण्डवाय अवितथफलममोघफलम् आशीर्वादमारोपयन्तः प्रयुञ्जाना विजयि जयशीलं विविधं नानाविधम् अस्त्रमैन्द्रादिकं वितेरुर्ददुः। मालिनीवृत्तम् ॥ ४१ ॥

हिन्दी—तब शिवजीके अर्जुनको वर देनेके अनन्तर इन्द्र आदि लोकपालोंने शिवजीकी आज्ञा पाकर पूर्ण कामनासे युक्त अर्जुनको अमोघ फलवाला आशीर्वाद देकर जयशील और अनेक प्रकारके इन्द्राऽस्त्र आदिका वितरण किया ॥ ४६ ॥

असंहायोत्साहं जयिनमुदयं प्राप्य तरसा
धुरं गुर्वीं वोढुं स्थितमनवसादाय जगतः ।
स्वधाम्ना लोकानां तमुपरि कृतस्थानममरा-
स्तपोलक्ष्म्या दीप्तं दिनकृतमिवोच्चैरुपजगुः ॥ ४७ ॥

मल्लि०—असंहायोत्साहमिति। तरसा बलेन वेगेन च जयिनं जयशीलमुदयमस्त्रलाभरूपमभ्युदयम्। अन्यत्र,—उदयाद्रिं च प्राप्य, असंहायोत्साहं संहर्तुमशक्यमुद्योगं जगतोऽनवसादाय क्षेमाय गुर्वी धुरं दुष्टनिग्रहभरं तमोपसंहाररूपं च भारं वोढुं स्थितम्। स्वधाम्ना स्वतेजसा लोकानामुपरि कृतस्थानं कृतपदम्। अन्यत्र, उपरि वर्तमानम्। तपोलक्ष्म्या दीप्तं तं पाण्डवम्। अमरा इन्द्रादयो दिनकृतं सूर्यमिबोच्चैरुपजगुः साधु महाभाग्योऽसीति तुष्टुवुः। शिखरिणी वृत्तम् ॥ ४७ ॥

हिन्दी—बलसे और वेगसे भी जयशील उदय अस्त्र-लाभरूप अभ्युदय, (सूर्यपक्षमें उदयपर्वत) को प्राप्त कर संहार करनेके लिए अशक्य उद्योगको लोकके कल्याणके लिए गौरवपूर्ण (सूर्यपक्षमें अन्धकार निवारणरूप गौरवपूर्ण) भारको वहन करनेके लिए स्थित, अपने तेजसे लोकोंके ऊपर स्थान किये हुए (सूर्यपक्षमें ऊपर रहे हुए) तपस्या सम्पत्तिसे प्रदीप्त अर्जुनकी इन्द्र आदि देवताओंने सूर्यके समान स्तुति की ॥ ४७ ॥

व्रज जय रिपुलोकं पादपद्मानतः सन्
गदित इति शिवेन श्लाघितो देवसंघैः ।
निजगृहमथ गत्वा सादरं पाण्डुपुत्रो
धृतगुरुजयलक्ष्मीर्धर्मसूनुं ननाम ॥ ४८ ॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीयेऽष्टादशः सर्गः ।

अष्टादशः सर्गः | ४२३

अष्टादशः सर्गः | ४२३

मल्लि०—व्रजेति । शिवेन व्रज स्वपुरं गच्छ, रिपुलोकं जयेति गदित उक्तः । यतः पादपद्मानतः शिवपादपङ्कजानतः सन्, तथा देवसंघैः श्लाघितः स्तुतोऽत एव धृता गुर्वी जयलक्ष्मीर्येन स पाण्डुपुत्रोऽर्जुनो निजगृहं स्वाश्रमं गत्वा प्राप्य, अथ सादरं यथा तथा धर्मसूनुं युधिष्ठिरं ननाम नमश्चक्रे ॥ ४८ ॥

इति मल्लिनाथकृतव्याख्यायां घण्टापथसमाख्यायामष्टादशः सर्गः समाप्तः ।

हिन्दी—शिवजीसे—'जाओ और शत्रुसमूहको जीत लो' ऐसा कहे गये तथा शिवजीके चरणकमलोंमें प्रणाम करते हुए और देवसमूहसे स्तुतिके विषय होकर एवम् महती जयलक्ष्मीका धारण किये हुए अर्जुनने अपने आश्रममें पहुँचकर धर्म-पुत्र युधिष्ठिरको आदरपूर्वक प्रणाम किया ॥ ४८ ॥

किरातार्जुनीय महाकाव्यमें अठारहवें सर्गका अनुवाद समाप्त हुआ ।

नमो भगवते सूर्यनारायणाय नमो नमः ।

पञ्चदशसर्गे स्थितानां चित्रबन्धानामुद्धारः

गोमूत्रिकाबन्धः ( १२ श्लोकः )

ना सु रो य न क्ष मा गो ध र सं स्थो न रा क्ष सः
ना सु खो यं न वा भो गो ध र णि स्थो वि रा ज सः


सर्वतोभद्रः ( २५ श्लोकः )

देवाकानिनिकावादे
वाहिकास्वस्ववाहिका
काकारेरेकाका
निस्वव्यव्यस्वनि
निस्वव्यव्यस्वनि
काकारेरेकाका
वाहिकास्वस्वकाहिवा
देवाकानिनिकावादे

अर्धभ्रमकः ( २७ श्लोकः )

त्यतिदेनियं
रार्षंनाशिनी
त्वराधिसंनादे
त्वबंति

परिशिष्ट

किरातार्जुनीय में अलङ्कार-स्थापना

१ अतिशयोक्ति—द्वि० सर्ग २४, ३१, तृ० २१, पं० २, १९, ४३, ष० ४२, स० ११, १२, १६, अष्ट० २०, ४६, नव० ४, दश० १, २४, ३४, द्वाद० ७, त्रयो० १६, २१, २३।<br>२ अनुप्रास—अष्ट० २ छेकानुप्रास और वृत्त्यनुप्रास।<br>३ अनुमान—त्रयो० ३०।<br>४ अपह्नुति—द्वाद० १५।<br>५ अर्थत्रयवाचिन्—पञ्च० ४५।<br>६ अर्थान्तरन्यास—प्र० २, ५, ८, २३, २५, ३०, ४५, द्वि० १५, १८, २०, २१, ३०, तृ० १३, ३१, ५३, चतु० ४, २०, २३, पं० ४१, ५१, ष० ३०, ४१, ४०, ४५, सप्त० १३, १५, अष्ट० ४, ७, नव० ३३, ३५, ४९, ५८, ६४, दश० २५, ३५, ३७, ५८, ६२, एका० ५५, ७६, द्वाद० २९, त्रयो० ८, ६६, चतु० १, ११, २२, षो० ६१।<br>७ अर्थापत्ति—सप्त० २७।<br>८ अर्धभ्रमक—पञ्चद० २७।<br>९ उत्प्रेक्षा—द्वि० ५४, तृ० १, ३, ४३, ४७, ४८, ४९, चतु० ७, ११, १३,२६, २७, ३०, ३१, पं० १, ३, ७, ८, १५, १७, ३०, ३२, ३४, ३५, ४८, ष० १०, ११, १२, १७, २५, २६, २७, ३३, ४१; स० ६, १४, २३, ३१; अष्ट० १०, ११, २१; २६, २७, २८, ३२, ३३, ३४, ३८, ५०, ५५; नव० १, ३, ५, ९, १२, १४, २१, २३, २६, ३२, ५३, ५५, ६१, ७२; ७४, ७५, ७६; दश० ३, ११, २१, ३२, ३३, ४३; द्वाद० १३, १४, २४, ४५; त्रयो० ५, ८, २२, ३३, ३४; चतु० २९, ३०, ३२, ३३, ३४, ४८, ५०, ५३, ५४; पञ्चद० ९; षो० ३, ३५, ३८, ४५, ४६, ६२, सप्तद० ८, २७, ४७; अष्टा० १८, १९ हेतूत्प्रेक्षा।<br>१० उदात्त—प्र० १६; त्रयो० ५५।<br>११ उपमा—प्र० २१; द्वि० ५०; तृ० ३२, ३६, ४३, ४६; च० १, ६, १५, १७, १९, २८, ३६, प० १८, २६, ४१, ४५, ष० २, २३, ४०, ४९, न० ८, १०, १२, १४, १५, १८, २७, २९, ३२, ६३, ६

पञ्चदशसर्गे स्थितानां चित्रबन्धानामुद्धारः

गोमूत्रिकाबन्धः ( १२ श्लोकः )

ना सु रो य न त्रा ता गो ध र सं स्थो न रा क्ष सः
╳╳╳╳╳╳╳╳╳╳╳╳╳╳
मा सु खो यं न वा भो गो ध र णि स्थो हि रा ज सः


सर्वतोभद्रः ( २५ श्लोकः )

देवाकानिनिकावादे
वाहिकास्वस्ववाहिका
काकारेरेकाका
निस्वव्यव्यस्वनि
निस्वव्यव्यस्वनि
काकारेरेकाका
वाहिकास्वस्वकाहिवा
देवाकानिनिकावादे

अर्धभ्रमकः ( २७ श्लोकः )

त्यतिदेनियं
रार्षंनाशिनी
त्वराधिसंनादे
त्वषंति

परिशिष्ट

किरातार्जुनीय में अलङ्कार-स्थापना

१ अतिशयोक्ति—द्वि० सर्ग २४, ३१, तृ० २१, पं० २,१९,४३, ष० ४२, स० ११, १२, १६, अष्ट० २०,४६, नव० ४, दश० १, २४,३४, द्वाद० ७, त्रयो० १६, २१, २३।
२ अनुप्रास—अष्ट० २ छेकानुप्रास और वृत्यनुप्रास।
३ अनुमान—त्रयो० ३७।
४ अपह्नुति—द्वाद० १५।
५ अर्थत्रयवाचिन्—पञ्च० ४५।
६ अर्थान्तरन्यास—प्र० २,५,८, २३, २५, ३०, ४५, द्वि० १५,१८,२०, २१, ३०, तृ० १३,३१,५३, चतु० ४, २०, २३, पं०४१,५१,ष०२७, ४१, ४४, ४५, सप्त० १३, १५, अष्ट० ४, ७, नव० ३२, ३५, ४९, ५८, ६४, दश० २५, ३५, ३७, ५८, ६२, एका० ५५, ७६, द्वाद० २९, त्रयो० ८, १६, चतु० १, ११, २२, षो० ६१।
७ अर्थापत्ति--सप्त० २७।
८ अर्धभ्रमक--पञ्चद० २७।
९ उत्प्रेक्षा--द्वि० ५४, तृ० १, ३,४३, ४७, ४८, ४९, चतु० ७, ११, १३, २६, २७, ३०, ३१, पं० १, ३, ७, ८, १५, १७, ३०, ३२, ३४, ३५, ४८, ष० १०, ११, १२, १७, २५, २६, २७, ३३, ४१; स० ६, १४, २३, ३१; अष्ट० १०, ११, २१; २६, २७, २८, ३२, ३३,३४, ३८, ५०, ५५; नव० १, ३, ५, ९, १२, १४, २१, २३, २६, ३२, ५३, ५५, ६१, ७२; ७४, ७५, ७६; दश० ३, ११, २१, ३२, ३३, ४३; द्वा० १३, १४, २४, ४५; त्र० ५, ८, २२, ३३, ३४; चतु० २९, ३०, ३२, ३३, ३४, ४८, ५०, ५३, ५४; पञ्चद० ९; षो० ३, ३५, ३८, ४५, ४६, ६२, सप्तद० ८, ३७, ४७, अष्टा० १८, १९ हेतूत्प्रेक्षा।
१० उदात्त—प्र० १६; त्रयो० ५५।
११ उपमा—प्र० २१; द्वि० ५०; तृ० ३२, ३६, ४३, ४६; च० १, ६, १५,१७, १९, २८, ३६, प० १८, २६, ४१, ४६, ष० २, २१, ४०, ४९, स० ८, १०, १२, १४, १७, १८, २७, २९, ३२, ६३, ६७,

४२६ | किरातार्जुनीयम्

७८, द० ८, २४, ३४, ४२, एका० ३३, ५५, ५९, ६४, द्दा० १७, २०, २२, त्रयो० १४, १५, १७, २२, २८, ५३, ६६, चतुर्द० ७, ३५, ४०, ५२, षो० २६, ६०, सप्तद० ४ पूर्णोपमा, मालोपमा, श्लिष्टोपमा।९, द० २७, एका० १९, षो० २१, ४१, ६२, सप्तद० ४६।
१२ ऊर्जस्वल - द०५१, ५७।२४ निरोष्ठ्य - पञ्चद० ७, २१।
१३ एकव्यञ्जन - पञ्चद० १४।२५ परिकर -- प्र० १९, ष० ४०, स० ४, एका० ४५।
१४ एकावली -- प्र० १२, द्वि० ३२, द० १३।२६ परिणाम -- च० २।
१५ कारणमाला - द्वि० १४, ४०, सप्तदश १७२७ परिवृत्ति - द्वि० १९ संपरिवृत्ति।
१६ काव्यलिङ्ग - प्र० ७, द्वि० २९, ३९ ४०, ४४, तृ० ४२, प० २०, २३, २६, ४०, ४४, ष० २८, स० २६, अष्ट० ३, १२, १८, ४४, न० ५५, ५७, ६२, ६३, द० १५, एका० १, ७८; चतुर्द० २९।२८ पर्याय -- द० ३७।
१७ गोमूत्रिका बन्ध - पञ्चद० १२।२९ पर्यायोक्ति -- प० ४१।
१८ छेकानुप्रास - अष्ट० १।३० पूर्णोपमा -- प्र० ४६, तृ० ४३।
१९ तद्गुण - ष० ८, स० २३, द्दा० २३।३१ प्रतिलोम - पञ्चद० २३।
२० तुल्ययोगिता - न० ५१, एका० ५४।३२ प्रतिलोमानुलोमपाद - पञ्चद० २०
२१ दृष्टान्त - द्वि० ५१, पञ्चद० २५।३३ प्रेय - प० ५१।
२२ द्व्यक्षर - पञ्चद० ३८।३४ भाविक - प्र० २९, ३३।
२३ निदर्शना - द्वि० ५१, प० ३९, ष० ४, स० ३, १७,४०, ५७, न०३५ भ्रान्तिमत् - प० २६, ३१, ४२, ष० ८, स० २२, ३१, अष्ट० ७, द० ४, ४२, अष्टाद० २१।
३६ माला - अष्टाद० ४६।
३७ मालोपमा - त्रयो० २९, चतुर्द० ६३, सप्तद० ११।
३८ मीलन - अष्ट० ४६, ४८।
३९ यथासंख्य - अष्ट०४२, पञ्चद० १६
४० यमक - प० १८, २० २३, पञ्चद० १, ३, १६, ३१, शृङ्खला यमक।
४१ रसवत - द० ५१।
४२ रूपक - तृ० ४१, च० २४, प० २८, ष० ४१, स० ५, ११, १५, न० ३, २७, ५७, ६२, द० ३२, चतुर्द० १२, पञ्चद० ३८।
अलङ्कारस्थापना४२७
४३ वस्तुध्वनि — त्रयो० २३, २७।५८ संसृष्टि — द्वि० ५०, तृ० ४६, च० १७, प० १८, २० २३, सप्त० १२ अष्ट० १, ७, १०, ४६, न० ६३, ६४, द० ३२, पञ्चद० १६, सप्तद० ४६।
४४ वास्तव — च० २२।५९ संदेह — च० ५, पं० १२, ३६, ष० १२, अष्ट० १५, ३५, ३६, ५३, न० ७, १५, ९२, ९४।
४५ विभावना — प० २६, अष्ट० ४०, न० २५।६० सम — द० २५।
४६ विरोध — द० १४।६१ समपरिवृत्ति — स० ३५।
४७ विरोधाभास — न० ६३, ६४, एका० ३५, द्वा० १६, अष्टाद० ४१।६२ समासोक्ति — प्र० १८, तृ० ४४, ६०, प० २७, अष्ट० ६, न० ५, ११, द० ३१, चतुर्द० ३।
४८ विशेषोक्ति — तृ० ८।६३ समाहित — द० ५१।
४९ विषम — अष्ट० ४१, द० ३८।६४ समुच्चय — पञ्चद० १, षो० ३५।
५० वृत्त्यनुप्रास — प्र० १।६५ सर्वतोभद्र — पञ्चद० १५।
५१ व्यतिरेक — प० ४४, एका० ६३, द्वा० १४, त्रयो० ५१, ५३।६६ सहोक्ति — प्र० ३९, द० ३९, ४८।
५२ शृङ्खला यमक — पञ्चद० ४२।६७ सामान्य — अष्ट० ४२।
५३ श्लिष्टोपमा — न० १८।६८ स्मरण — च० ३८, प० २४, ष० १२।
५४ श्लेष — अष्ट० २, द० २४, ३४, एका० ५९, त्रयो० १४, १५, चतुर्द ५२, सप्तद० २७।६९ स्वभावोक्ति — च० १०, १३, १६ १७, १८, २९, ष० १५, सप्त० १२, १९, अष्ट० १७, १८, २२ २६, ४५, ४९, द्वा० ४२, त्रयो० १८, २२, ३०, ३१, चतुर्द० १६।
५५ संशय — न० ६९।७० हेतूत्प्रेक्षा — द्वि० १०, अष्ट २०।
५६ सङ्कर — च० ३४, प० २६, ष० २, ८, ४० ४१, स० २३, २५, अष्ट० ६, ११, १५, १८, ४२; न० ३, ५, १२, १४, २७, ३२, ५५, ५७, ६२, द० २४, २५, ३४, ३६, द्वा० १४, त्रयो० २१, ५३, ६६, चतुर्द० २९, षो० ३५।
५७ संसर्ग — अष्ट० २।

किरातार्जुनीयव्याख्यायां प्रमाणत्वेन समुपन्यस्तानां ग्रन्थानां ग्रन्थकाराणां च नामानि ।

ग्रन्थ / ग्रन्थकारग्रन्थ / ग्रन्थकार
अगस्त्यः १२।४०मनुः १।१७, २।६, १४।६ इत्यादि
अमरः १।१, १।२, १।७, इत्यादिमाघः ५।३, ८।४९.
आगमः १।४६, ३।३७, ९।३ इत्यादि.मातङ्गः ४।३३.
आलङ्कारिकाः १।१, १८।४८.मार्तण्डः ८।१५.
कामन्दकः १।३१, २।६, २।१० इत्यादियादवः १।३४, ३।११, ७।४ इत्यादि.
काव्यप्रकाशः १।८, १।१२, १।३९ इ०रघुवंशन् ८।४९.
काशिका १।३, १।६, २।११ इत्यादि.रघुवंशसञ्जीविनी ११।७६.
केशवः २।२१, ८।२४, ९।११ इत्यादिरसरत्नाकरः ९।७२.
कैयटः १।१, १।१०, ८।११ इत्यादि.रसिकाः १२।४०.
क्षीरस्वामी १।९, १।२१, १०।३.रामायणम् १।९.
गणव्याख्यानम् २।१७, २।३०, ३।६रुद्रटः ५।८.
दण्डी १।४६, ८।४४.वाग्भटः ५।८.
दशरूपकम् ८।१३, ९।२६ ९।४५.वात्स्यायनः ९।४७.
धन्वन्तरिः ४।२८.वामनः २।२७, २।३७, ४।२४ इत्यादि.
नारदः १।१३.विद्याधरः ४।३८.
निरुक्तम् ७।१०.विश्वः १।८, १।९, १।२४ इत्यादि.
नीतिवाक्यामृतम् १।२, १।४, १।२६. इत्यादि.वैजयन्ती १।१३, २।८, ४।३६ इत्यादि.
नृत्यविलासः ८।५३.वैद्यकम् ५।११.
नैषधम् ८।४९.व्यक्तिविवेकः ३।२१.
न्यायः १।२४, २।५.शब्दार्णवः ८।३१.
न्यायोद्द्योतः २।१७.शाकटायनः ३।३५.
पाण्डुकाव्यम् ७।८.शाश्वतः २।२२, ३।५, ७।२७ इत्यादि.
पुराणम् २।२६.सज्जनः १३।४५, १४।२७, १६।५९.
प्रकाशवर्ष ४।१०.सर्वस्वकारः २।१८, ९।१५.
भारतम् ५।३०, १३।१०, १४।१०.सामुद्रिकाः ६।१.
भाष्यकारः १।१, १।१०, ८।११ इत्यादिस्मरणम् (स्मृतिः) १।१३, ६।२९ इत्या-
हलायुधः २।३, ४।१८, ७।१३.
हैमः १।२९, ५।४९, १०।३.