भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पञ्चदशः सर्गः ३६३

पञ्चदशः सर्गः ३६३

सगणस्य = सानुगस्य शत्रोः, सारं = सत्त्वं विनेष्यन् = अपनेष्यन् । प्रस्वाप्यते शाय्यतेऽनेनेति प्रस्वापनं तदेव वस्त्रम् । घनानद्धो = मेघव्याप्तोऽर्धरात्रो निशीथः । ‘अर्धरात्रनिशीथौ द्वौ’ इत्यमरः ‘अर्धं नपुंसकम्’ इति समासः । ‘ अहःसर्वैकदेशे-’ त्यादिना समासान्तः । ‘रात्राह्नाहाऽ पुंसि’ इति पुंल्लिङ्गता । ध्वान्तमिव द्रुत- माजहाराचकर्ष ॥ २५ ॥

हिन्दी—अनिवार्य पराक्रमवाले अर्जुनने ऐसा निश्चय कर प्रमथगणोंके साथ शत्रुके पराक्रमको हटानेकी इच्छा करते हुए जैसे मेघसे व्याप्त आधीरात अन्धकार- को आकृष्ट करती है उसी तरह प्रस्वापन अस्त्रको खींच लिया ॥ २५ ॥

प्रसक्तदावानलधूमधूम्रा निरुन्धती धाम सहस्ररश्मेः ।
महावनानीव महातमिस्रा छाया ततानेशबलानि काली ॥ २६ ॥

मल्लि०—प्रसक्तेति । 'प्रसक्तः संततो यो दावानलधूमस्तद्वद्धूम्रा = धूसरा सहस्ररश्मेर्घाम तेजो निरुन्धती । आवृण्वती काली = कृष्णवर्णा । ‘जानपद—’ इत्यादिना ङीष् । छाया = कान्तिः, ईशबलानि महातमिस्रा = महती तमःसंततिः । 'तमिस्रा तु तमस्ततिः' इति विश्वः । महावनानीव ततान=व्यानशे । युग्मम् ।२६।

हिन्दी—व्याप्त दवाग्निके धूमके समान धूसरवर्णवाली और सूर्यके तेजको आच्छादित करती हुई कृष्णवर्णवाली कान्तिने शिवजीके सैन्योंको जैसे बड़ी अन्धकारकी पंक्ति बड़े-बड़े वनोंको व्याप्त करती है उसी तरह व्याप्त कर डाला ॥ २६ ॥

आसादिता तत्प्रथमं प्रसह्म प्रगल्भतायाः पदवीं हरन्ती ।
सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ॥ २७ ॥

मल्लि०—आसादितेति । तदेवासावनं प्रथमं तत्प्रथमं यथा तथा प्रसह्मासा- दिता कल्पिता प्रगल्भताया व्यवहारधार्ष्टर्यस्य पदवीं हरन्ती भीमा=भयंकरी, निद्रा उक्तविशेषणा सभा संसदिव । गणानां प्रतिभा प्रज्ञाशक्तिः सैव गुणस्तस्य निरासं = प्रतिभाक्षयं विदधे = चक्रे ॥ २७ ॥

हिन्दी—वही पहले-पहल हठात् कल्पित होकर व्यवहारकी क्षमताके मार्गको दूर करती हुई भयङ्कर निद्राने सभाके समान प्रमथगणोंकी बुद्धि शक्तिरूप गुणका क्षय कर दिया अर्थात् अर्जुनके प्रस्वापन अस्त्रने शिवजीके प्रमथगणोंको निद्रित कर दिया ॥ २७ ॥

३६४किरातार्जुनीयम्

गुरुस्थिराण्युत्तमवंशजत्वाद्विज्ञातसाराण्यनुशीलनेन ।
केचित्समाश्रित्य गुणान्वितानि सुहृत्कुलानीव धनूंषि तस्थुः ॥ २८ ॥

**मल्लि०—**गुर्विति । केचिदुत्तमवंशजत्वात् वंशो वेणुः कुलं च । 'वंशो वेणौ कुले च' इति विश्वः । गुरूणि = महान्ति, स्थिराणि = दृढानि च गुरुस्थिराणि । अनुशीलिनेन = परिचयबलेन, विज्ञातः सारो बलं येषां तानि, गुणैर्मोर्वीभिः शौर्यादिभिश्च अन्वितानि धनूंषि, सुहृत्कुलानि = मित्रकुलानीव, समाश्रित्य तस्थुः । धनुर्ध्वष्टभ्य निदध्युरित्यर्थः ॥ २८ ॥

**हिन्दी—**किरात सेनामें कुछलोग उत्तम जातिके बांसमें उत्पन्न होनेसे बड़े और दृढ़ परिचयके बलसे जाने गये बलवाले प्रत्यञ्चासे युक्त धनुषका, उत्तम कुलमें उत्पन्न होनेसे बड़े और स्थिर तथा परिचयके भरोसेसे जानी गई शक्तिवाले और गुणोंसे युक्त मित्रकुलकी तरह अवलम्बन कर स्थित हुए ॥ २८ ॥

कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे ।
अतर्कितं पाणितलान्निपेतुः क्रियाफलानीव तदायुधानि ॥ २९ ॥

**मल्लि०—**कृतान्तेति । कृतान्तदुर्वृत्ते = दैवदुश्चेष्टित इव । 'कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु' इति विश्वः । पाण्डवास्त्रे पुरः प्रतिद्वन्द्विनि = प्रतिकूलवर्तिनि सति तया तस्मिन्काले । अपरेषामायुधानि क्रियाफलानीव = कृष्यादिफलानीव अतर्कितमविचारितमेव पाणितलान्निपेतुः ॥ २९ ॥

**हिन्दी—**दैवकी दुश्चेष्टाके समान अर्जुनका अस्त्र सामने प्रतिकूल होकर रहनेवाले होनेपर उस समय अन्य लोगोंके हथियार क्रियाफलोंके समान अतर्कित रूपसे हाथसे गिर पड़े ॥ २९ ॥

अंसस्थलैः केचिदभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणाम् ।
मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ॥ ३० ॥

**मल्लि०—**अंसेति । अभिन्नधैर्यास्तदानीमप्यक्षतधैर्याः, केचिदंसस्थलैरंसभागैः सह संश्लेषवतां = संसक्तानां, तरूणां स्कन्धेषु = प्रकाण्डेषु मदेन मीलन्ति नयनानि येषां ते नागा गजा इव स्रस्तकराः=स्रस्तहस्ताः सन्तः सलीलं निषेदुर्निषण्णाः ।३०।

**हिन्दी—**उस समय भी अक्षत धैर्यवाले कुछ लोग कन्धेसे संलग्न होनेवाले कुछ लोग कन्धेसे संलग्न होनेवाले वृक्षोंके प्रकाण्डों पर मदसे मूंदे गये नेत्रोंवाले हाथीके समान शिथिल कर (सूंड) वा हाथवाले होकर लीलापूर्वक बैठ गये ॥३०॥

षोडशः सर्गः | ३६५

षोडशः सर्गः | ३६५

तिरोहितेन्दोरथ शंभुमूर्द्ध्नः प्रणम्यमानं तपसां निवासैः ।
सुमेरुशृङ्गादिव विम्बमार्कं पिशङ्गमूच्चैरुदियाय तेजः ॥ ३१ ॥

मल्लि० -- तिरोहितेति । अथ तिरोहितेन्दोः = किरातमायया छन्नचन्द्रात्, शंभुमूर्द्ध्नः सकाशात् । सुमेरुशृङ्गात् अर्कसम्बन्धि विम्बमिव । तपसां निवासैः स्तापसैः प्रणम्यमानमभिवन्द्यमानं पिशङ्गं = तेजं उच्चैरुर्ध्वम् । उदियाय = प्रकटी-बभूव । तच्च न चान्द्रमिति भावः ॥ ३१ ॥

हिन्दी -- तब किरातकी मायासे अदृष्ट चन्द्रवाले शिवजीके मस्तकसे सुमेरु पर्वतकी चोटीसे सूर्यमण्डलके समान, तपस्वियोंसे प्रणाम किया जाता हुआ पीला तेज ऊपर प्रकट हुआ ॥ ३१ ॥

छायां विनिर्धूय तमोमयीं तां तत्त्वस्य संवित्तिरिवापविद्याम् ।
ययौ विकासं द्युतिरिन्दुमोलेरालोकमत्यादिशती गणेभ्यः ॥ ३२ ॥

मल्लि० -- छायामिति । इन्दुमोलेर्द्युतिः=कान्तिः । तत्त्वस्य संवित्तिस्तत्त्वज्ञानम् । =अपविद्यामविद्यामिव तां तमोमयीं छायां=निद्रां, विनिर्धूय=निरस्य, गणेभ्य आलोकं वस्तुप्रकाशं चिरम् अत्यादिशती=वितरन्ती विकासं=विस्तारं ययौ ॥ ३२ ॥

हिन्दी -- शिवजीकी कान्ति जैसे तत्त्वज्ञान अविद्याको नष्ट करता है, उसी तरह प्रस्वापन अस्त्रकी उस निद्राको नष्ट करके प्रमथगणोंको वस्तुप्रकाशको बहुत समय तक देती हुई विस्तारको प्राप्त करने लगी ॥ ३२ ॥

त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव संध्या ।
निनाय तेषां द्रुतमुल्लसन्ती विनिद्रतां लोचनपङ्कजानि ॥ ३३ ॥

म० -- त्विषामिति । सर्वतः पाटलिताः=पाटलीकृता अम्बुवाहा यया सा, तथोक्ता त्विषां=तेजसां ततिः । पूर्वा सरतीति पूर्वसरी । 'पूर्वे कर्तरि' इति टप्रत्यये ङीप्, 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति 'पूर्वा ' शब्दस्य पुंवद्भावः । संध्या = प्रातः-संध्येव, उल्लसन्ती = प्रसरन्ती, तेषां = गणानां, लोचनपङ्कजानि, द्रुतं विनिद्रता = विकासं निनाय ॥ ३३ ॥

हिन्दी -- सभी ओरसे मेघोंको गुलाबी वर्णवाले बनानेवाली तेजोंकी पङ्क्तिने पूर्व की ओर चलनेवाली प्रातः-सन्ध्याके समान फैलती हुई गणोंके नेत्रकमलोंको विकासको प्राप्त करा दिया अर्थात् गणलोग जग गये ॥ ३३ ॥

२६६किरातार्जुनीयम्

पृथग्विधान्यस्त्रविरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते।
मुक्ता वितानेन बलाहकानां ज्योतींषि रम्या इव दिग्विभागाः॥ ३४॥

**मल्लि०—**पृथगिति। अस्त्रविरामेण = प्रस्वापनास्त्रोपरमेण, बुद्धा विनिद्रास्ते गणा बलाहकानां वितानेन = मेघपटलेन, मुक्ताः अत एव रम्या। दिग्विभागाः = दिगन्ता ज्योतींषि=नक्षत्राणीव। ‘ज्योतिस्तारानिभाज्यालादृक्प्रकाशरमात्मसु’ इति वैजयन्ती। पृथग्विधानि = नानाविधानि शस्त्राणि भूयः प्रतिपेदिरे = जगृहू-रित्यर्थः॥ ३४॥

**हिन्दी—**प्रस्वापन अस्त्रके दूर होनेसे जगे हुए प्रमथगण जैसे मेघसमूहसे मुक्त दिशाएँ नक्षत्रकान्तियोंको धारण करती हैं वैसे ही अपने-अपने शस्त्रोंका धारण करने लगे॥ ३४॥

द्योरुन्ननामेव, दिशः प्रसेदुः, स्फुटं विसस्रे सवितुर्मयूखैः।
क्षयं गतायामिव यामवत्य पुनः समीयाय दिनं दिनश्रीः॥ ३५॥

**मल्लि०—**द्योरिति। तदा यामवत्यां = रात्रौ, क्षयं गतायां = विभातायामिव द्यौरन्तरिक्षम्। उन्ननामेव = ऊर्ध्वमुत्पपातेवेत्युत्प्रेक्षा। दिशः प्रसेदुः। सवितुर्मयूखैः, स्फुटं विसस्रे = विस्तृतम्। भावे लिट्। दिनश्रीर्घर्मकान्तिः पुनः दिनं समीयाय = संजगाम। अत्र वैयधिकरण्येन गुणक्रिययोः समुच्चयेन समुच्चयोऽलंकारः। तस्य च समुन्नमनेत्प्रेक्षया ‘इव’ शब्दवाच्यायानुप्रवेशलक्षणः संकरः। दिक्प्रसादो गुणः। शेषाः क्रियाः॥ ३५॥

**हिन्दी—**उस समय रातके बीतनेपर आकाश मानों ऊपर उन्नत हुआ, दिशाएँ निर्मल हो गई, सूर्यकी किरणें स्पष्टरूपमें फैल गईं ओर दिनकी शोभा दिनका आश्रय लिया॥ ३५॥

महास्त्रदुर्गे शिथिलप्रयत्नं दिग्वारणेनेव परेण रुग्णे।
भुजङ्गपाशान्भुजवीर्यशालो प्रबन्धनाय प्रजिघाय जिष्णुः॥ ३६॥

**मल्लि०—**महास्त्रेति। भुजवीर्यशालो जिष्णुरर्जुनो महास्त्रं = प्रस्वापनास्त्रं तद्दुर्गमिव तस्मिन् महास्त्रदुर्गे, दिग्वारणेनेव=दिग्गजेनेव, परेण = शत्रुना, शिथिल-प्रयत्नमल्पप्रयासं यथा तथा, रुग्णे=भग्ने सति ‘रुजो भङ्गे’ कर्मणि क्तः। ‘ओदितश्च’ इति निष्ठातकारस्य नत्वम्। प्रबन्धनाय = प्रकर्षेण बन्धनाय, भुजङ्गा एव पाशा-स्तान्। प्रजिघाय = प्रहितवान्॥ ३६॥

षोडशः सर्गः ३६७

षोडशः सर्गः ३६७

हिन्दी— बाहुपराक्रमसे शोभित होनेवाले अर्जुनने किलेके समान प्रस्वापन अस्त्रके दिग्गजके समान शत्रुसे थोड़े ही प्रयाससे भग्न करनेपर प्रत्यगर्थोंको बाँधनेके लिए सर्वरूप पाशोंको छोड़ दिया ॥ ३६ ॥

जिह्वाशतान्युल्लसयन्त्यजस्रं लसत्तडिल्लोलविषानलानि ।
त्रासान्निरस्ता भुजगेन्द्रसेना नभश्चरैस्तत्पदवीं विवव्रे ॥ ३७ ॥

मल्लि०— जिह्वेति । लसन्तस्तडिल्लोला विद्युच्चञ्चला विषानला विषाग्नयो येषु तानि, जिह्वाशतान्यजस्रमुल्लसयन्ती=चालयन्ती, भुजगेन्द्रसेना, त्रासाद्भयात् ।, नभश्चरैर्निरस्ता = त्यक्ता, तेषां = नभश्चराणां, पदवीं = मार्गं, विवव्रे विशेषेण रुरोध ॥ ३७ ॥

हिन्दी— चमकती हुई बिजलीके समान चञ्चल विषानलोंको फेंकती हुई सैकड़ों जिह्वाओंको सञ्चालित करती हुई सर्पसेना, भयसे आकाशचारियोंसे छोड़ी गई और आकाशचारियोंके मार्गको उसने अवरुद्ध कर दिया ॥ ३७ ॥

दिङ्नागहस्ताकृतिमुद्वहद्भिर्भागैः प्रशस्तासितरत्ननीलैः ।
रराज सर्पावलिरुल्लसन्ती तरङ्गमालेव नभोर्णवस्य ॥ ३८ ॥

मल्लि०— दिङ्नागेति । दिङ्नागहस्ताकृतिमुद्वहद्भिर्दिक्करिकराकारैस्तथा प्रशस्तानि=समीचीनानि, असितरत्नानीन्द्रनीलमणयस्तद्वन्नीलैर्भोगैः=कायैरुपलक्षिता सर्पावलिरुल्लसन्ती = प्रक्षुभ्यन्ती नभ एव अर्णवस्तस्य तरङ्गमालेव रराज । रूपकोत्थापितेयमुत्प्रेक्षा ॥ ३८ ॥

हिन्दी— दिग्गजके सूँड़के आकारको धारण करते हुए उत्तम इन्द्रनील मणिके समान नीलवर्णवाले शरीरोंसे उपलक्षित सर्पपङ्क्ति प्रक्षुब्ध होती हुई आकाशरूप समुद्रकी तरङ्गमालाके समान शोभित होने लगी ॥ ३८ ॥

निःश्वासधूमैः स्थगितांशुजालं फणावतामुत्फणमण्डलानाम् ।
गच्छन्निवास्तं वपुरभ्युवाह विलोचनानां सुखमुष्णरश्मिः ॥ ३९ ॥

मल्लि०— निःश्वासेति । उष्णरश्मिरस्तं गच्छन्निवोन्नमितानि फणामण्डलानि येषां तेषां, फणावतां = सर्पाणां निःश्वासेषु ये धूमास्तैः स्थगितमाच्छादितमंशुजालं यस्य तत्तथोक्तम् । अत एव विलोचनानां, सुखं = सुखकरं वपुरभ्युवाह ॥ ३९ ॥

हिन्दी— मानों अस्त पर्वतको जाते हुए सूर्यने ऊँचा फणामण्डलवाले सर्पोंके

३६८ किरातार्जुनीयम्

निःश्वासोंमें धूओंसे आच्छादित किरणसमूहवाले अत एव नेत्रोंको सुख देने वाले शरीरका धारण किया ॥ ३९ ॥

प्रतप्तचामीकरभासुरेण दिशः प्रकाशेन पिशङ्गयन्त्यः।
निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः ॥ ४० ॥

**मल्लि०—**प्रतप्तेति । प्राणहराणीक्षणानि येषां तेषां प्राणहरेक्षणाना = दृष्टिविषाणां सर्पविशेषाणां, लोचनेभ्यो नेत्रेभ्यः । 'लोचनं नयनं नेत्रम्' इत्यमरः। प्रतप्तं = यच्चामीकरं=सुवर्णं तद्वद्भासुरेण । 'भञ्जभासमिदो घुरच्' इति घुरच् प्रत्ययः । प्रकाशेन = तेजसा, दिशः पिशङ्गयन्त्यो ज्वाला = महोल्का इव निश्चक्रमुर्निर्जग्मुः ॥ ४० ॥

**हिन्दी—**प्राणहरण करनेवाले नेत्रोंसे युक्त सर्पोंके नेत्रोंसे प्रतप्त सुवर्णके समान उज्ज्वल प्रकाशसे दिशाओंको पीली करती हुई ज्वालाएँ महती उल्काओंके समान निकल गईं ॥ ४० ॥

आक्षिप्तसंपातमपेतशोभमुद्दर्चि धूमाकुलदिग्विभागम् ।
वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ॥ ४१ ॥

**मल्लि०—**आक्षिप्तेति । आक्षिप्तः प्रतिषिद्धः=संपातः = संचारो यस्मिंस्तत् । सिद्धानां = पक्षिणां चेति शेषः । अपेता = गता शोभा यस्मात्तत् अपेतशोभं = गतश्रीकम् । उद्गतः प्रदीप्तो वह्निर्यस्मिंस्तत् उद्दर्चि सर्वत उद्भूतदहनम् । धूमाकुला व्याप्ता दिग्विभागा दिगन्ता यस्मिंस्तत् । भोगिकुलैः = सर्पकुलैर्वृतमावृतं नभः, परोपरुद्धस्य=शत्रुवेष्टितस्य, पुरस्यावस्थामिव, अवस्थां=दशां, भेजे । उक्तरीत्या तत्साम्यं प्राप्तमित्यर्थः । निदर्शनालङ्कारः ॥ ४१ ॥

**हिन्दी—**रुकी हुई गतिवाले, शोभासे रहित, प्रदीप्त अग्निवाले, धूओंसे व्याप्त दिग्विभागसे युक्त सर्प समूहसे आच्छादित आकाशने शत्रुसे घिरे हुए नगरकी अवस्थाकी समान दशाको प्राप्त किया ॥ ४१ ॥

तमाशु चक्षुःश्रवसां समूहं मन्त्रेण तार्क्ष्योदयकारणेन ।
नेता नयेनेव परोपजापं निवारयामास पतिः पशूनाम् ॥ ४२ ॥

**मल्लि०—**तमिति । पशूनां = पतिः शिवस्तां चक्षुःश्रवसां सर्पाणां समूहं तार्क्ष्योदयकारणेन = गरुडाविर्भावहेतुना, मन्त्रेण, नेता = नायको, नयेन = नीत्या

षोडशः सर्गः ३६९

षोडशः सर्गः ३६९

परेषामुपजापं परोपजापं परकृतं स्वमण्डलभेदमिव । 'भेदोपजापावुपधा' इत्यमरः । आशु = निवारयामास ॥ ४२ ॥

हिन्दी—शिवजीने उस सर्पसमूहको गरुडोंके प्रादुर्भावके कारण मन्त्रसे जैसे नायक शत्रुके भेदका निवारण करता है उसी तरह शीघ्र निवारण कर दिया ॥ ४२ ॥

प्रतीघ्नतीभिः कृतमीलितानि द्युलोकभाजामपि लोचनानि ।
गरुत्मतां संहतिभिर्विहायः क्षणप्रकाशाभिरिवावततेने ॥ ४३ ॥

मल्लि०—प्रतीति । द्युलोकभाजामपि = अनिमेषाणामपि कृतं मीलनं निमेषो } यैषां तानि लोचनानि=दृष्टीः प्रतीघ्नतीभिः प्रतिबध्नतीभिः । हन्तेः शतरि ङीप् । गरुत्मतां = तार्क्ष्याणां संहतिभिः = समूहैः क्षणप्रकाशाभिर्विद्युद्भिरिव । तासां सौवर्णत्वादिति भावः । विहायोऽन्तरिक्षम् । अवततेने=व्यानशे ॥ ४३ ॥

हिन्दी—देवताओंके भी निमीलित नेत्रोंको प्रतिबद्ध करनेवाले गरुडोंके समूह-ने बिजलियोंकी तरह आकाशको व्याप्त कर डाला ॥ ४३ ॥

ततः सुपर्णव्रजपक्षजन्मा नानागतिर्मण्डलयञ्जवेन ।
जरत्तृणानीव वियन्निनाय वनस्पतीनां गहनानि वायुः ॥ ४४ ॥

मल्लि०—तत इति । ततः सुपर्णव्रजानां = तार्क्ष्यकुलानां पक्षेभ्यो जन्म यस्य स नानागतिर्विचित्रगतिर्वायुः । वनस्पतीनां वृक्षाणां गहनानि जीर्णतृणानीव जवेन मण्डलयन्=भ्रमयन् वियदन्तरिक्षं निनाय ॥ ४४ ॥

हिन्दी—तब गरुडसमूहके पक्षोंसे उत्पन्न विचित्रगतिसे युक्त वायुने वृक्ष-समूहोंको जीर्ण तृणोंके समान वेगसे घुमाकर आकाशमें पहुँचा दिया ॥ ४४ ॥

मनःशिलाभङ्गनिभेन पश्चाद्विरुध्यमानं निकरेण भासाम् ।
व्यूढैरुरोभिश्च विनुद्यमानं नभः ससर्पेव पुरः खगानाम् ॥ ४५ ॥

मल्लि०—मनःशिलेति । मनःशिला = धातुविशेषस्तस्या भङ्गश्छेदस्तन्निभेन तत्सदृशेन भासां निकरेण = कान्तिपुञ्जेन पश्चाद्भागे निरुध्यमानमाव्रियमाणं व्यूढैर्विशालैः उरोभिर्वक्षोभिश्च । 'उरो वत्सं च वक्षश्च' इत्यमरः । विनुद्यमानं=प्रेर्यमाणं, नभः खगानां = गरुडानां, पुरः ससर्पेव = ससारेव । उत्तरोत्तरदेशतिरो-धानेन गच्छतां खगानामपूर्वोऽपि पुरोभागः सादृश्यात्पूर्ववदुपलभ्यमानतया नभस एव छेदनातुरः ससर्पेवेत्युत्प्रेक्षा ॥ ४५ ॥

२४ कि०

३७०किरातार्जुनीयम्

हिन्दी — मैनशिलके टुकड़ेके समान कान्तिसमूहसे पिछले भागमें आच्छादित किए गया विशाल वक्षःस्थलोंसे भी प्रेरणा किया जाता हुआ आकाश पक्षीके आगे मानों चल पड़ा ॥ ४५ ॥

दरीमुखैरासवरागताम्रं विकासि रुक्मच्छदधाम पीत्वा।
जवानिलाघूर्णितसानुजालो हिमाचलः क्षीव इवाचरम्भे ॥ ४६॥

मल्लि० — दरीति। जवानिलेनाघूर्णितानि=भ्रमितानि सानुजालानि यस्य स हिमाचलः। आसवस्य रागो रक्तता तद्वत् ताम्रम्। गुणयोरेवोपमानोपमेयभावः। विकासि विकस्वरं रुक्मच्छदाः सुवर्णपक्षास्तादृशांस्तेषां धाम तेजो दरीभिर्मुखैरिव दरीमुखैः पीत्वा क्षीबो मत्त इवाचरम्भे=आबभाल। उपमाऽलङ्कारोऽयमुत्प्रेक्ष्यतेवा ॥४६॥

हिन्दी — वेगशाली वायुसे जिसके प्रस्थसमूह हिल रहे थे ऐसा हिमालय पर्वत मदिराके रागके समान लाल विकसित गरुड़ोंके तेजको मुखके समान गुफाओंसे पीकर मतवालेके समान कम्पित हुआ ॥ ४६ ॥

प्रवृत्तनक्तंदिवसंधिदीप्तैर्नभस्तलं गां च पिशङ्गयद्भिः।
अन्तर्हितार्कैः परितः पतद्भिश्च्छायाः समाविक्षिपिरे वनानाम् ॥ ४७॥

मल्लि० — प्रवृत्तेति। नक्तं च दिवा च नक्तन्दिवम्। 'अचतुरे-'त्यादिना समस्यर्थयोरप्यव्यययोर्द्वन्द्वैकवद्भावनिपाते समासान्तः। लक्षणया सहोरात्रमात्रवाची। प्रवृत्तः प्रादुर्भूतो यो नक्तंदिवस्य संधिः संध्या तद्वद्दीप्तैः=शोभितैः। नभस्तलं गां=भुवं च पिशङ्गयद्भिः=पिशङ्गीकुर्वद्भिः। अन्तर्हित आच्छादितोऽर्को यैस्तैः पतद्भिः पक्षिभिः परितः=सर्वतो वनानां छायाः समाविक्षिपिरे=समाश्रिताः। अन्तर्बहिंश्च तेजःप्रवेशात्तस्वाप्यन्तर्हिता इत्यर्थः ॥ ४७ ॥

हिन्दी — प्रादुर्भूत रात और दिनकी संध्याके समान शोभित आकाशमण्डल और पृथिवीको पीले वर्णसे युक्त करते हुए तथा सूर्यको आच्छादित किये हुये पक्षियोंने सभी तरफ मेघोंकी छायाओंको अन्तर्हित कर दिया ॥ ४७ ॥

स भोगिसङ्घः क्षतमुग्रधाम्नां सैन्येन निन्ये विनतासुतानाम्।
महाध्वरे विष्णुपचारदोषः कर्मन्तरेणेव महोदयेन ॥ ४८॥

मल्लि० — स इति। स भोगिसङ्घः=सर्पसमूह उग्रधाम्नां=तेजस्विनां विनतासुतानां=गरुडां रक्षिणां सैन्येन महाध्वरे=महाक्रतौ विष्णुपचारदोषः। कर्मान्तरेण

षोडशः सर्गः३७१

दोषो महोदयेन = महासामर्थ्येन, अथवा महता फलेन । तन्मूलेन प्रकृतक्रिया-सिद्धेरिति । कर्मान्तरेण = प्रायश्चित्तेनेव शमं = शान्तिं निन्ये = प्रापितः ॥ ४८ ॥

हिन्दी—उस सर्पसमूहको तीव्रतेजवाले गरुड पक्षियोंकी सेनाने जैसे महायज्ञ-में विधानके त्रुटिदोषको महाफलवाला प्रायश्चित्त शमन करता है उसी तरह शान्त कर दिया ॥ ४८ ॥

साफल्यमस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इवापवर्गम् ।
अनिन्धनस्य प्रसभं समन्युः समाददेऽस्त्रं ज्वलनस्य जिष्णुः ॥ ४९ ॥

मल्लि०साफल्यमिति । अस्त्रे=सर्पास्त्रे । भाग्ये प्राग्भवीये शुभे कर्मणीव । रिपुपौरुषस्य रिपुपराक्रमस्य साफल्यं कृत्वा, अपवर्गमवसानं= समाप्तिं गते सति । स्वनिवृत्त्या परसाफल्यात्सफलीकरणोपचारः । समन्युः = सक्रोधो जिष्णुरर्जुनोऽनि-न्धनस्येन्धनं विनैवोत्पादितस्य ज्वलनस्य ज्वलनप्रदीपकम् अस्त्रमाग्नेयास्त्रं प्रसभं= शीघ्रं समाददे = जग्राह ॥ ४९ ॥

हिन्दी—पूर्वजन्मके शुभ कर्मके समान सर्पाऽस्त्रके शत्रु पराक्रमके सफलता कर समाप्त होनेपर क्रुद्ध होकर अर्जुनने काष्ठरहित अग्निके अस्त्र अर्थात् आग्नेय अस्त्रको शीघ्रतापूर्वक ग्रहण किया ॥ ४९ ॥

ऊर्ध्वं तिरश्चीनमधश्च कीर्णैर्ज्वालासटैर्लङ्घितमेघपङ्क्तिः ।
आयस्त सिंहाकृतिरुल्ललात प्राणान्तमिच्छन्निव जातवेदाः ॥ ५० ॥

मल्लि०ऊर्ध्वमिति । ऊर्ध्वं तिरश्चीनं = तिर्यक् । 'विभाषाऽवरेदधिरुत्तरस्याम्' इति खप्रत्ययः । अधश्च कीर्णैविस्तृतैर्ज्वाला एव सटाः = केसराः । 'सटा जटा-केसरयोः' इति विश्वः । तैः, लङ्घितमेघपङ्किरतिक्रान्तजलदावलिः । आयस्तस्य लङ्घनोद्यतस्य सिंहस्येवाकृतिर्यस्य स जातवेदाः = अग्निः प्राणान्तं प्राणिनां संहार-मिच्छन्निवोत्पपात ॥ ५० ॥

हिन्दी—ऊपर, तिर्यक् (तिरछा भाग) और नीचे विस्तृत ज्वलारूप केसरोंसे मेघपङ्क्तिको लङ्घित कर लङ्घनके लिए तत्पर सिंहकी समान आकृतिसे युक्त अग्नि मानों प्राणियोंके संहारको इच्छा करता हुआ प्रकट हो गया ॥ ५० ॥

भित्त्वेव भाभिः सवितुर्मयूखाञ्जज्वाल विष्वग्विसृतस्फुलिङ्गः ।
विशीर्यमाणाश्मनिनादघोरं ध्वनिं वितन्वन्क्षणशः कृशानुः ॥ ५१ ॥

३७२ किरातार्जुनीयम्

मल्लि०—भित्त्वेति । भाभिस्तेजोभिः सवितुर्मयूखान् = किरणान् । 'किरणोस्रमयूखांश्व-'त्यमरः । भित्त्वेवाभिहत्येव विष्वक् = समन्ताद्विसृताः स्फुलिङ्गा यस्य सः । स्फुलिङ्गोदयस्य मयूखाभिघातहेतुकत्वमुत्प्रेक्ष्यते । 'त्रिषु स्फुलिङ्गोऽग्निकणः' इत्यमरः । अकृशोऽतनुः, कृशानुर्वह्निः । विशीर्यमाणस्य विघटतोऽश्मनो निनादमिव धीरमुद्धतं ध्वनिं वितन्वन् जज्वाल ॥ ५१ ॥

हिन्दी—तेजों से सूर्यकी किरणोंको मानों भेदन कर चारों ओरसे फैले हुए स्फुलिङ्गोंवाला विशाल अग्नि विदीर्ण होते हुए पत्थरकी ध्वनिकी सदृश गम्भीर ध्वनिको फैलाता हुआ प्रज्वलित हो उठा ॥ ५१ ॥

चयानिवोद्रोनिव तुङ्गशृङ्गान् क्वचित्पुराणीव हिरण्मयानि ।
महावनानीव च किंशूकानां ततान वह्निः पवनानुवृत्त्या ॥ ५२ ॥

मल्लि०—चयानिति । वह्निः पवनानुवृत्त्या = वायुवशेन, चयानिव हिरण्मयान्प्राकारानिव । 'चयः समूहे प्राकारे' इति विश्वः । तुङ्गशृङ्गानद्रीनिब क्वचिद्धिरण्मयानीति 'पाण्डिनायने-'त्यादिना निपातनात्साधुः । पूराणि = नगराणीव तथा किंशूकानां = पलाशतरूणाम् । 'पलाशो किंशुकः पर्णः' इत्यमरः । महावनानीव । पुष्पितानीति शेषः। ततान = वितस्तार । तदाकारेण जज्वालेत्यर्थः ॥ ५२ ॥

हिन्दी—अग्नि, वायु के अनुसारसे सुवर्णमय प्राकारोंके समान, सुवर्णमय प्रकाशोंके समान, ऊँची चोटी वाले पर्वतोंके समान, शहरोंकी तथा पलाश वृक्षोंके महावनोंके समान हो कर फैल उठा ॥ ५२ ॥

मुहुश्चलत्पल्लवलोहिनीभिरुच्चैः शिखाभिः शिखिनोऽवलीढाः ।
तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्जनश्यामरुचः पयोदाः ॥ ५३ ॥

मल्लि०—मुहुरिति । सान्द्राञ्जनश्यामरुचो = घनकज्जलश्यामरुचः । पयोदा मुहुश्चलन्त्यश्च ताः पल्लवलोहिन्यो लोहितवर्णाश्च ताभिश्चलत्पल्लवलोहिनीभिः। 'वर्णोऽनुदात्तात्तोपधात्तो नः' इति ङीप् । तकारस्य नकारः । शिखिनोऽग्नेः । उच्चैरुन्नताभिः शिखाभिर्ज्वालाभिः । अवलीढाः । दग्धा इत्यर्थः । अत एव तलेषु = अधोभागेषु मुक्ताविशदा = मौक्तिकधवळा बभूवुः । जलसंशोषणादिति भावः । 'अधः स्वरूपयोरस्त्री तलम्' इत्यमरः ॥ ५३ ॥

हिन्दी—गाढ कज्जलके समान कृष्णवर्ण वाले मेघ वारंबार चलती

षोडशः सर्गः ३७३

पल्लवके समान लाल वर्णवाली अग्निकी उन्नत ज्वालाओंसे जलते हुए वन एवं निम्न भागोंमें मोतीके समान उज्ज्वल हो गये ॥ ५३ ॥

लिलिक्षतीव क्षयकालरौद्रे लोकं विलोलाचिषि रोहिताश्वे ।
पिनाकिना हूतमहाम्बुवाहमस्त्रं पुनः पाशभृतः प्रणिन्ये ॥ ५४ ॥

मल्लि०लिलिक्षतीवेति । क्षयकालरौद्रे = कल्पान्तकालवद्भयावहे विलोलाचिषि = चलज्वाले, रोहिताश्वे = ज्वलने । 'रोहिताश्वो वायुसखः' इत्यमरः । लोकं लिलिक्षति लेढुमिच्छति जिघत्सति सतीव । लिहः सन्नन्ताच्छतृप्रत्ययः । पिनाकिना पुनर्हूता आहूता आकारिता महाम्बुवाहा येन तत् । पाशभृतो=वरुणस्य । अस्त्रं प्रणिन्ये प्रयुक्तम् ॥ ५४ ॥

हिन्दी—प्रलय कालके समान भयङ्कर, चञ्चल ज्वालावाले अग्निके मानों लोकको खानेकी इच्छा करनेपर शिवजीने फिर विशाल मेघोंको बुलानेवाले वारुणास्त्रका प्रयोग किया ॥ ५४ ॥

ततो धरित्रीधरतुल्यरोधसस्तडिल्लतालिङ्गितनीलमूर्तयः ।
अधोमुखाकाशसरिन्निपातिनीरपः प्रसक्तं मुमुचुः पयोमुचः ॥ ५५ ॥

मल्लि०तत इति । ततो वरुणास्त्रप्रयोगानन्तरं धरित्रीधरतुल्यरोधसः = पर्वतसमप्रान्ताः । 'रोधः स्यात्प्रान्तकूलयोः' इति विश्वः । तडिल्लताभिरालिङ्गिता नीलमूर्तयो = नीलाङ्गानि येषां ते पयोमुचो मेघा अधोमुखा वाकाशसरिदिव निपतन्तीरिति प्रसक्तमनुबन्धमविच्छिन्नं यथा तथा मुमुचुः । इतः प्रभृति वंशस्थवृत्तम् ॥ ५५ ॥

हिन्दी—तब पर्वतके तुल्य प्रान्त भाग वाले, बिजलियोंसे आलिङ्गित नील अङ्गों वाले मेघ, अधोमुख आकाश गङ्गाके समान गिरने वाले जलको लगातार बरसाने लगे ॥ ५५ ॥

पराहताध्वस्तशिखे शिखावतो वपुष्यधिक्षिप्तसमिद्धतेजसि ।
कृतास्पदास्तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेनिरे ॥ ५६ ॥

मल्लि०पराहतेति । पराहता = अभिहता अतो = ध्वस्ता निर्वापिताः शिखा ज्वाला यस्य तस्मिन् पराहतध्वस्तशिखे । अधिक्षिप्तं प्रहारितं नाशितम् । ताडितमिति यावत् । अतः समिद्धं झटिति प्रदीप्तं तेजो यस्य तस्मिन् । शिखावतोऽग्ने-

१७४किरातार्जुनीयम्

वपुषि स्वरूपे । तप्तेऽयसि लोह इव कृतास्पदाः कृतस्थितयः । 'आस्पदं प्रतिष्ठायाम्' इति निपातः । प्रथमे पयोनिपाता जलपाता ध्वनि वितेनिरे = विस्तारयामासुः ॥ ५६ ॥

हिन्दी— जलसे ताडित होकर अतः बुझी हुई ज्वालावाले पर्याप्त तेजके नष्ट होनेपर पर्याप्त तेजवाले अग्निके स्वरूपमें मानों सन्तप्त लोहमें स्थिति किये हुए प्रथम जलपात आवाज करने लगे ॥ ५६ ॥

महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः क्वथनेन फेनताम् ।
व्रजद्भिद्रन्धनवत्परिक्षयं जलैर्वितेने दिवि धूमसंततिः ॥ ५७ ॥

मल्लि०— महानल इति । महानलेऽग्नौ भिन्नानि खण्डितानि सिताभ्राणीव पतन्तीति भिन्नसिताभ्रपातिभिः । 'कर्तर्युपमाने' इति णिनिप्रत्ययः । अत एव सद्यः क्वथनेन पाकेन फेनतां समेत्य = प्राप्य, परिक्षयं = नाशं व्रजद्भिर्जलैरार्द्रेन्धनवत् = आर्द्रकाष्ठैरस्तुल्यम् । 'तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययः । दिवि = गगने, धूमसंततिर्वितेने विस्तारिता । फेनादिकमार्द्रेन्धनेऽपि तुल्यम् ॥ ५७ ॥

हिन्दी— प्रदीप्त अग्निमें खण्डित सफेद बादलोंके समान पड़ने वाले अतएव उसी क्षण पाकसे फेनके रूपमें परिणत होकर नष्ट होने वाले जलोंने गीले काष्ठोंके समान आकाशमें धूमसमूहको फैला दिया ॥ ५७ ॥

स्वकेतुभिः पाण्डुरनीलपाटलैः समागताः शक्रधनुःप्रभाभिदः ।
असंस्थितामादधिरे विभावसोर्विचित्रचीनांशुकचारुतां त्विषः ॥ ५८ ॥

मल्लि०— स्वकेतुभिरिति । पाण्डुरैर्नीलैः पाटलैश्च पाण्डुरनीलपाटलैर्विविधैः स्वकेतुभिर्धूमैः समागताः = संगताः । अत एव शक्रधनुषः प्रभाभिद इन्द्रधनुर्द्युतिभाजो विभावसोरग्नेस्त्विषोऽसंस्थितामस्थिरां विचित्रस्य चीनांशुकस्य = पट्टवस्त्रविशेषस्य चारुतामादधिरे = दधुः ॥ ५८ ॥

हिन्दी— श्वेत, कृष्ण वर्ण और लाल विभिन्न धूओं से मिले हुए अत एव इन्द्रधनुषी कान्तिवाले अग्निकी कान्तिने अस्थिर विचित्र रेशमी वस्त्रकी सुन्दरता का धारण कर लिया ॥ ५८ ॥

जलोषसंमूर्च्छनमूर्च्छितस्वनः प्रसक्तविद्युल्लसितेधितद्युतिः ।
प्रशान्तिमेध्यन्धृतधूममण्डलो बभूव भूयानिव तत्र पावकः ॥ ५९ ॥

षोडशः सर्गः ३७१

**मल्लि०—**जलोघेति । जलोघानामुदकप्रवाहाणां संमूर्च्छनेन = मेलनेन मूर्च्छितस्वनः = प्रवृद्धघोषः । 'मूर्च्छनं मेलने प्रोक्तं वृद्धौ मूर्च्छितमेव वा' । इति सज्जनः । प्रसक्तैः = संगतैर्विद्युतां = तडिल्लतानां लसितैः स्फुरणैरेधिता = वर्धिता द्युतिर्यस्य स धृतधूममण्डलो = जलाघातसंभृतधूमपटलः पावकः प्रशान्तिमेष्यन्, तत्र देशे भूयानिव बभूव । भूयस्तया स्थापित इवेत्युत्प्रेक्षा ॥ ५९ ॥

**हिन्दी—**जलप्रवाहके मिलनेसे बढ़े हुए शब्द वाला, मिली हुई बिजलीके स्फुरणोंसे बढ़ी हुई कान्तिसे युक्त, धूममण्डलका धारण किया हुआ अग्नि बुझनेके समयमें युद्धस्थलमें अधिकके समान प्रतीत होने लगा ॥ ५९ ॥

प्रवृद्धसिन्धूर्मिचयस्थवीयसां चयैर्विभिन्नाः पयसां प्रपेदिरे ।
उपात्तसंध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥ ६० ॥

**मल्लि०—**प्रवृद्धेति । प्रवृद्धानां सिन्धोः = समुद्रस्य ऊर्मीणां चया राशय इव स्थवीयसां स्थूलतराणां पयसां चयैः पूरैर्विभिन्ना विश्लेषिताः कृशानवोऽग्नय उपात्तसंध्यारुचिभिः प्राप्तसंध्यारागैः पयोदानां विच्छिद्यन्त इति विच्छेदा विच्छिन्ना विक्षिप्ता ये लवाः शकलास्तैः सरूपतां = समानरूपतां प्रपेदिर इत्युपमा ॥ ६० ॥

**हिन्दी—**समुद्रकी बढ़ी हुई तरङ्गोंके समूहके समान बड़े बड़े जलसमूहके प्रवाहोसे विश्लेषित अग्निसमूहने सन्ध्याकी लालीको प्राप्त मेघोंके विच्छिन्न खण्डोंके समान रूपको प्राप्त किया ॥ ६० ॥

उपेत्यनन्तद्युतिरप्यसंशयं विभिन्नमूलोऽनुदयाय संक्षयम् ।
तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ॥६१॥

**मल्लि०—**उपेतीति । अनन्तद्युतिर्महातेजा अपि विभिन्नमूलो = नष्टमूलोऽसंशयं यथा तथाऽनुदयाय = पुनरनुत्थानाय संक्षयं = नाशम् । उपैति । तथा हि—तोयौघैर्विभिन्ना संहतिः संघातो यस्य स तथोक्तः हव्यवाहोऽग्निः पराभवं = नाशं प्रययौ । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६१ ॥

**हिन्दी—**जैसे तेजस्वी पुरुष भी मूलके नष्ट होनेपर निश्चय ही फिर उत्थान न होनेके लिए नाशको प्राप्त होता है वैसे ही जलसमूहसे विश्लिष्ट समूहवाला अग्नि नष्ट हो गया ( अर्थात् बुझ गया ) ॥ ६१ ॥

अथ विहितविधेयेराशु मुक्ता विताने-
रसितनगनितम्बश्यामभासां घनानाम् ।

३७६ | किरातार्जुनीयम्

विकसदमलधाम्नां प्राप नीलोत्पलानां
श्रियमधिकविशुद्धां वह्निदाहादिव द्यौः ॥ ६२ ॥

मल्लि०—अथेति। अथ अग्निनिवारणानन्तरम्। विहितविषयैः = कृतकृत्यैः। अञ्जनगस्याञ्जनाद्रेर्नितम्बः। कटकस्तद्वत् श्यामभासा = वितानैः = पटलैर्मुक्ता द्यौराकाशो वह्निदाहादिवेत्युत्प्रेक्षा। विकसन्ति च तानि अमलधामानि स्वच्छ-कान्तीनि च तथा नीलोत्पलानाधिकविशुद्धामत्युज्ज्वलां श्रियं प्राप। निदर्शनाल-ङ्कारः ॥ ६२ ॥

हिन्दी— आग्नेय अस्त्रके निवारणके बाद कार्यको किये हुए अञ्जन पर्वत-के मध्यभागके समान श्याम कान्तिवाले मेघोंके समूहसे उन्मुक्त आकाशने मानों अग्निदाहसे विकसित निर्मल कान्ति वाले नीलकमलोंके अतिशय उज्ज्वल कान्ति-को प्राप्त कर लिया ॥ ६२ ॥


इति विविधमुदासे सव्यसाची यदस्त्रं
बहुसमरनयज्ञः सादयिष्यन्नरातिम् ।
विधिरिव विपरीतं पौरुषं न्यायवृत्तेः
सपदि तदुप निन्ये

षोडशः सर्गः ३७७

षोडशः सर्गः ३७७

वीतप्रभावतनुरप्यतनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् । अस्त्रेषु भूतपतिनापहृतेषु जिष्णु- र्वर्षिष्यता दिनकृतेव जलेषु लोकः ॥ ६४ ॥ इति भारविकृतौ महाकाव्ये किरातार्जुनीये षोडशः सर्गः ।

मल्लि० — वीतेति । भूतपतिना = शंभुना । अनुग्रहीष्यतेति शेषः । अस्त्रेष्वप- हृतेषु सत्सु वर्षिष्यता उत्तरत्र — सहस्रगुणं वितरिष्यता दिनकृता = सूर्येण जलेष्व- पहृतेषु सत्सु लोक इव वीतप्रभावो = गतास्त्रमहिमा । अन्यत्र —, गतशक्तिः । अत एव तनुः क्षीणो वाऽत्रप्रभावस्तनुः तथाऽप्यतनुप्रभावो निसर्गतः सामर्थ्याद- धिकः । अन्यत्र — उद्योगवान् । ततो जिष्णुरर्जुनो जयिनीं = जयशीलाम् । ‘जिदृक्षो —’त्यादिनेनिप्रत्ययः । भुजवीर्यलक्ष्मीं = भुजपराक्रमसंपदम् । उभयत्रापि- पुरस्कारमिति यावत् । तत्कालानुष्ठितानिति शेषः । प्रत्याचकाङ्क्ष = प्रत्याहर्तुमियेषे- त्यर्थः । यथा लोको नद्यादिजलापहारेऽप्युपायान्तरेण कूपादिना जीवितुमिच्छति तद्वदस्त्रबलापहारेऽपि भुजबलेनैव जेतुमियेषेति भावः । वसन्ततिलका वृत्तम् ॥६४॥

हिन्दी० -- शिवजीके अस्त्रोंको व्यर्थ कर देनेपर जैसे सहस्रगुण जल देते हुए सूर्यके जलके आहरण करनेपर नष्ट प्रभाववाला, लोक वर्षा करनेवाले सूर्यसे जल पानेकी इच्छा करता है उसी तरह अस्त्रमहिमासे रहित क्षीण होकर भी अक्षीण प्रभाव अर्जुनने बाहुपराक्रमसंपत्तिकी आकाङ्क्षा की ॥ ६४ ॥ इति भारविकृतौ महाकाव्ये किरातार्जुनीये षोडशः सर्गः

सप्तदशः सर्गः

अथ पञ्चभिः पार्थं विशेषयन् षड्भिः कुलकमाह—अथेत्यादिभिः—
अथापदा मुद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेषु ।
धृतिं गुरुश्रीर्गुरुणाभिपूष्यन् स्वपौरुषेणेव शरासनेन ॥ १ ॥

मल्लि०—अथ जयलक्ष्मीप्रत्याकाङ्क्षानन्तरम् । आपदासुद्धाणक्षमेषु = आपन्निवारणसमर्थेषु । अस्त्रेषु प्रस्वापनादिषु तादृशेषु मित्रेष्विव तिरोहितेष्वन्तर्हितेषु सत्सु, गुरुणा महता स्वपौरुषेणेव तादृशेन शरासनेन धृतिं = धैर्यम् । अभिपूष्यन् = वर्धयन् । अद्यापि धनुषि पौरुषे च सति कियानयं किरात इति धैर्यमवलम्बमान इत्यर्थः । अत एव गुरुश्रीः = प्रवृद्धशोभासम्पत्तिः । 'पद्मा मा लक्ष्मीः श्रीनिगद्यते' इति शाश्वतः ॥ १ ॥

हिन्दी—अनन्तर आपत्तियोंके निवारणमें समर्थ मित्रोंके समान प्रस्वापन आदि अस्त्रोंके निष्फल होनेपर महान् अपने पौरुषके समान महान् गाण्डीव धनुषे धैर्यको बढ़ाते हुए अर्जुन बढ़ी हुई शोभासम्पत्तिवाले हुए ॥ १ ॥

भूरिप्रभावेण रणाभियोगात्प्रीतो विजिह्यश्च तदीयवृद्ध्या ।
स्पष्टोऽप्यविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्विवह्निः ॥ २ ॥

मल्लि०—भूरीति । पुनश्च, भूरिप्रभावेण = महानुभावेन सह रणाभियोगात् = युद्धलाभात् प्रीतः तदीयवृद्धया = शत्रुवृद्ध्या विजिह्यो = विश्लथश्च तथा स्पष्टो दीप्त्या प्रज्वलन्नप्यविस्पष्टो वपुःप्रकाशो यस्य सः । कुतः । सर्पन् = प्रसरन् महान्धूमो यस्य स सर्पन्महाधूमोऽद्विवह्निरिव स्थितः ॥ २ ॥

हिन्दी—प्रचुर प्रभावके साथ युद्धके लाभसे प्रसन्न परन्तु शत्रु की वृद्धिसे शिथिल होकर अर्जुन दीप्तिसे प्रज्वलित होकर भी फैले हुए प्रचुर धूमवाले पर्वत के अग्निके समान अस्त्र शरीर प्रकाशवाले हो गये ॥ २ ॥

तेजः समाश्रित्य परैरहार्यं निजं महन्मित्रमिवोरुधेयम् ।
आसादयन्नस्खलितस्वभावं भीमे भुजालम्बमिवाऽरिदुर्गे ॥ ३ ॥

मल्लि०—तेज इति । पुनश्च, परैररिभिरहार्यमभेद्यं निजं = स्वकीयं महस्तेजो = शौर्यं मित्रमिव समाश्रित्य । अत एव भीमे = भयानकेऽरिरेव दुर्गं तस्मिन्

सप्तदशः सर्गः ३७९

सप्तदशः सर्गः ३७९

अरिदुर्गे शत्रुसङ्कटे। अस्खलितस्वभावमचलशीलगुरु = महत् धैर्यं भुजालम्बमिव = हस्तावष्टम्भमिव, आसादयन् = प्राप्नुवन्। ईदृशे संकटेऽपि महावीर्यत्वाद्वैर्य्यमत्यज- न्नित्यर्थः ॥ ३ ॥

हिन्दी—शत्रुओंसे अहार्थ और मित्रके समान अपने प्रचुर तेजका आश्रय कर अर्जुन भयानक शत्रुरूप सङ्कटमें अविचलित स्वभाववाले होकर प्रचुर धैर्यको हाथके अवलम्बनके समान प्राप्त कर रहे थे ॥ ३ ॥

वंशोचितत्वादभिमानवत्या संप्राप्तया संप्रियतामसुभ्यः ।
समक्षमादित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ॥ ४ ॥

**मल्लि०—**वंशेति। पुनश्च, अभिमानो ममतावुद्धिस्तद्वत्या। विषयतया कर्मणि कर्तृत्वोपचारः। अभिमानास्पदेनेत्यर्थः। अन्यत्र—, कुलशीलाद्यभिमानवत्या। वंशोचितत्वात् = स्वकुलानुरूपत्वात्। असुभ्यः = प्राणेभ्योपि संप्रियतां = संप्रा- प्तया परेण शत्रुनाऽक्ष्णोः समीपे समक्षमक्यग्रतः। 'अव्ययीभावे शरत्प्रभृतिभ्यः' इति समासान्तष्टच्प्रत्ययः। आदातुं = ग्रहीतुमिष्टयाऽऽदित्सितया। आजिहीर्षितये- त्यर्थः। आङ्पूर्वाद्ददातेः सन्नन्तात्कर्मणि क्तः। वध्वेव कीर्त्या हेतुना परितप्यमानः, कर्तरि शानच् 'हेतो' इति तृतीया। कन्यया शोक इति वत् ॥ ४ ॥

**हिन्दी—**अर्जुनवंशके उचित होनेसे अभिमानसे युक्त बुद्धिसे प्राणसे भी प्रिय भावको प्राप्त, पत्नीकी तुल्य कीर्तिके शत्रुसे सामने ही ग्रहण करनेकी इच्छासे आँखोंके सामने ही सन्तप्त हो रहे थे ॥ ४ ॥

पतिं नगानामिव बद्धमूलमुन्मूलयिष्यंस्तरसा विपक्षम् ।
लघुप्रयत्नं निगृहीतवीर्यस्त्रिमार्गगावेग इवेश्वरेण ॥ ५ ॥

**मल्लि०—**पतिमिति। पुनश्च, नगानां पतिं हिमवन्तमिव बद्धमूलं = विपक्षं शत्रुं तरसा = बलेन। उन्मूलयिष्यन् = उत्पाटयिष्यन्। किंच, त्रिभिर्मार्गेर्गच्छतीति त्रिमार्गगा गङ्गा। उत्तरपदसमासः। तस्या वेग इव। ईश्वरेण लघुप्रयत्नमल्पप्रयासं यथा तथा, निगृहीतवीर्यः = प्रतिबद्धशक्तिः, हृतास्त्रशक्तिरिति यावत्। पुरा किल हिमाद्रिविदलनाय गगनात्पतन्तं गङ्गाप्रवाहं गङ्गाधरोनि बजटाजूटेन जग्राहेति पौराणी कथा तद्वदित्यर्थः ॥ ५ ॥

**हिन्दी—**पर्वतपति हिमालयके समान बहुमूल शत्रुको वेगसे उन्मूलित करनेकी

३८०किरातार्जुनीयम्

इच्छा करते हुए अर्जुन गङ्गाके वेगके समान शिवजीसे थोड़ेसे प्रयाससे नष्ट अस्त्रशक्तिवाले हो गये ॥ ५ ॥

संस्कारवत्त्वाद्रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु ।
अयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थमिवाशशंसे ॥ ६ ॥

मल्लि०—संस्कारेति । एवंभूतः पार्थः संस्कारवत्त्वात् संस्कारश्चित्तवासना । अन्यत्र, साधुत्वम् । असाधूनां प्रयोगनिषेधादिति भावः । अथवा संस्कारो ऽमृष्ट-तिस्तद्वत्त्वात् चेतो रमयत्सु । प्रयोगः संधानमोक्षादिः, शिक्षाऽभ्यासो गुणस्तदाहितोऽतिशयो मौर्वी वा, अन्यत्र तु—, प्रयोगोऽभियुक्तव्यवहारः शिक्षाऽभ्यासो गुणाः स्वस्वस्थानकरणादयः श्लेषप्रसादादयो वा ते भूषणं येषां तेषु । यथा यथामूर्ता अर्था येषां तेषु यथार्थेषु । अन्यत्र—, नियततार्थेषु । शृणन्ति हिंसन्तीति शरास्तेषु जयम् । तन्निर्वाहकत्वात्तदाधारत्वविवक्षायां सप्तमी । शब्देषु पदेषु भावः प्रवृत्तिनिमित्तं सामान्यादिः स एव अर्थस्तमिव । आशशंसे=आचकाङ्क्षे । शास्तिशंसत्योराङ्पूर्वयोरिच्छायामात्मनेपदमुपसंख्यानात् । यथा शाब्दिकाः शब्दैरर्थं साधयन्ति तद्वदयं शरैर्जयं साधयितुमियेयेत्यर्थः ॥ ६ ॥

हिन्दी—ऐसे अर्जुनने व्युत्पत्ति वा साधुत्व होनेसे चित्तका रमण करनेवाले प्रयोग, अभ्यास गुण अपने-अपने स्थानकरण आदि वा श्लेष प्रसादरूप भूषणवाले यथार्थ वा नियत अर्थवाले बाणोंसे जयकी ओर शब्दोंसे प्रवृत्तिनिमित्त रूप अर्थोंके समान आकाङ्क्षा की ॥ ६ ॥

भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धमिति व्यथावान् ।
स निर्वववामास्रममर्षनुन्नं विषं महानाग इवेक्षणाभ्याम् ॥ ७ ॥

मल्लि०—भूय इति भूयः=पुनरपि समाधानेन युद्धाय मनोऽवस्थापनेन विवृद्धतेजाः=प्रवृद्धप्रतापः पुरा पुरातनं युद्धमेवमित्थं शक्तिसादकरं नाभवत्, इति हेतोः व्यथावान् = परितापवान् सोऽर्जुन ईक्षणाभ्यां = दृष्टिभ्यां महानागो = महासर्पो विषमिवामर्षनुन्नं क्रोधोत्थापितम् । अस्रमश्रु निर्ववाम = निर्जगाम । सात्त्विकानां रससाधारण्याद्रौद्रेऽप्युदयोक्तिः । 'स्तंभः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलयं इत्यष्टौ सात्विका मताः' ॥ ७ ॥

हिन्दी—फिर भी युद्धके लिए मनको व्यवस्थित करनेसे बढ़े हुए प्रतापवाले अर्जुनने 'पहले इस प्रकारका युद्ध नहीं हुआ था, ऐसा सोचकर परितप्त होकर

सप्तदशः सर्गः ३८१

सप्तदशः सर्गः ३८१

नेत्रोंसे जैसे महान् नाग विषवमन करता है इसी तरह क्रोधसे उत्थापित आंसू गिराने लगे ॥ ७ ॥

तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य ।
निर्वापयिष्यन्निव रोषतप्तं प्रस्नापयामास मुखं निदाघः ॥ ८ ॥

मल्लि०— तस्येति । आहवायासेन = युद्धायासेन विलोलमौलेः स्रस्तकेशबन्धस्य । ‘चूडा किरीटं केशाश्च संयता मौलयस्त्रयः' इत्यमरः । संरम्भताम्रे = कोपारुणे आयते विस्तृते लोचने यस्य । 'संरम्भः संभ्रमे कोपे' इति विश्वः । तस्यार्जुनस्य । रोषतप्तं मुखं निदाघो घर्मो निर्वापयिष्यन् शिशिरीकरिष्यन्निवेत्युत्प्रेक्षा । प्रस्नापयामास = सिषेच । स्वेदं जनयामासेत्यर्थः । स्नातेर्मित्त्वविकल्पाद्ध्रस्वविकल्पः ॥ ८ ॥

हिन्दी— युद्धके आयाससे शिथिल केश बन्धवाले, क्रोधसे लाल और विशाल नेत्रोंवाले अर्जुनके क्रोधसे सन्तप्त मुखको स्वेदविन्दुने मानों ठण्डा करनेके लिए सेचन किया ॥ ८ ॥

क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः ।
घनोपरुद्धः प्रभवाय वृष्टेरूर्ध्वाशुराजीरिव तिग्मरश्मिः ॥ ९ ॥

मल्लि०— क्रोधेति । क्रोधोऽन्धकार इव तेनान्तरित आवृतः सोऽर्जुनो घनोपरुद्धो मेघावृतस्तिग्मरश्मी रविवृष्टेः प्रभवाय=वर्षणाय तिस्र ऊर्ध्वांशूनां राजीरिव । अर्कस्योर्ध्वांशुरेखोदये वृष्टिलिङ्गमित्यागमः । रणाय = रणप्रवृत्तये तिस्रस्त्रिसंख्या भ्रूभेदो भ्रूभङ्गस्तस्य रेखा बभार ॥ ९ ॥

हिन्दी— अन्धकारके समान क्रोधसे आच्छादित अर्जुनने जैसे मेघसे आच्छादित सूर्य वृष्टि करनेके लिए तीन ऊर्ध्वकिरणोंको धारण करते हैं उसी तरह युद्धकी प्रवृत्तिके लिए तीन भ्रूभङ्गोंकी रेखाओंका धारण किया ॥ ९ ॥

स प्रध्वनय्याम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गम् ।
बलानि शंभोरिषुभिस्तताप चेतांसि चिन्ताभिरिवाशरीरः ॥ १० ॥

मल्लि०— स इति । सोऽर्जुनोऽम्बुदवन्नदतीति अम्बुदनादि । 'कर्तर्युपमाने' इति णिनिः । चापं दिङ्नागो दिग्गजोऽद्रिशृङ्गमिव हस्तेन = करेण प्रध्वनय्य = ध्वनयित्वा शंभोर्बलानि = सैन्यानि । अशरीरोऽनङ्गः कामश्चेतांसि = युवमनांसि

३८२ | किरातार्जुनीयम्

चिन्ताभिः प्रयोजनध्यानैरिव । इषुभिस्तताप = तापयामास । तपतिः सकर्मकः। अत्र 'इषु' शब्दः स्त्रीलिङ्गः । अन्ययोरुपमानोपमेययोर्भिन्नलिङ्गतादोषः स्यात्। 'पत्री रोप इषुद्वयोः' इत्यमरः ॥ १० ॥

हिन्दी—अर्जुनजाने मेघके समान आवाज करनेवाले धनुको जैसे कि गज अपने सूँड़से पहाड़ की चोटीको ध्वनित करता है उसी तरह ध्वनित करके शिवजीके सम्बन्धोंको जैसे कामदेव युवकोंके मनको चिन्ताओंसे सन्तप्त करता है उसी तरह बाणोंसे सन्तप्त करने लगे ॥ १० ॥


सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते ।
अगोचरे वागिव चोपरेमे शक्तिः शराणां शितिकण्ठकाये ॥ ११ ॥

मल्लि०—सद्वादितेति । अभिनिविष्टा शास्त्रनिष्ठिता बुद्धिर्यस्य स तस्मिन् अभिनिविष्टबुद्धौ = शास्त्रनिष्ठितमतौ विषये सद्वादिता प्रामाणिकार्थसमर्थकतेव । न हि सम्यग्गम्यस्तच्छास्त्रं प्रति सद्वाद्यपि शक्नोतीति व्याचक्षते केचित् । अन्ये त्वभिनिविष्टबुद्धावाग्रहाविष्टचित्ते विषये सद्वादिता हितोपदेष्टृत्वमिव । न ह्याग्रही हितं गृह्णातीति भावः विपक्षपाते = वीतरागे विषये गुणाभ्यसूया = गुणाहिष्णुतेव । स हि समदर्शी द्विषन्तमपि न द्वेष्टीति भावः । अगोचरेऽवाङ्मनसगोचरे ब्रह्मणि वागिव । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतेरिति भावः । शराणां शक्तिः शितिकण्ठकाये = शिवशरीरे विषये उपरेमे उपरता । तस्याक्षोभ्यमहिमत्वादिति भावः । 'विभाषाकर्मकात्' इत्यस्य वैकल्पिकत्वात्पक्ष आत्मनेपदम् । अत्र मालोपमा ॥ ११ ॥

हिन्दी—बुद्धिवाले पुरुषके विषयमें प्रामाणिक अर्थकी समर्थक ताके समान रागरहित पुरुषके विषयमें गुणोंकी असहिष्णुताके समान बचन और मनसे अग्राह्य ब्रह्ममें वाणीके समान अर्जुनके बाणोंकी शक्ति शिवजीके शरीरमें निष्फल होने लगी ॥ ११ ॥


उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयांबभूवुः ।
अभ्युत्थितस्याद्रिपतेर्नितम्बमर्कस्य पादा इव हैमनस्य ॥ १२ ॥

मल्लि०—उमेति । पाण्डुसुतेन प्रणुन्नाः प्रक्षिप्ताः शिली शल्यं मुखे येषां ते शिलीमुखाः = बाणा उमापतिं = शिवम् । अभ्युत्थितस्य=अभ्युन्नतस्य । अद्रिपतेः नितम्बम्=कटकम् । हेमन्ते भवस्य हैमनस्य । 'सर्वत्राणव तलोपश्च' इत्यण्प्रत्ययश्चकार-