भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 633, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 633

षोडशः सर्गः ३७७

वीतप्रभावतनुरप्यतनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् । अस्त्रेषु भूतपतिनापहृतेषु जिष्णु- र्वर्षिष्यता दिनकृतेव जलेषु लोकः ॥ ६४ ॥ इति भारविकृतौ महाकाव्ये किरातार्जुनीये षोडशः सर्गः ।

मल्लि० — वीतेति । भूतपतिना = शंभुना । अनुग्रहीष्यतेति शेषः । अस्त्रेष्वप- हृतेषु सत्सु वर्षिष्यता उत्तरत्र — सहस्रगुणं वितरिष्यता दिनकृता = सूर्येण जलेष्व- पहृतेषु सत्सु लोक इव वीतप्रभावो = गतास्त्रमहिमा । अन्यत्र —, गतशक्तिः । अत एव तनुः क्षीणो वाऽत्रप्रभावस्तनुः तथाऽप्यतनुप्रभावो निसर्गतः सामर्थ्याद- धिकः । अन्यत्र — उद्योगवान् । ततो जिष्णुरर्जुनो जयिनीं = जयशीलाम् । ‘जिदृक्षो —’त्यादिनेनिप्रत्ययः । भुजवीर्यलक्ष्मीं = भुजपराक्रमसंपदम् । उभयत्रापि- पुरस्कारमिति यावत् । तत्कालानुष्ठितानिति शेषः । प्रत्याचकाङ्क्ष = प्रत्याहर्तुमियेषे- त्यर्थः । यथा लोको नद्यादिजलापहारेऽप्युपायान्तरेण कूपादिना जीवितुमिच्छति तद्वदस्त्रबलापहारेऽपि भुजबलेनैव जेतुमियेषेति भावः । वसन्ततिलका वृत्तम् ॥६४॥

हिन्दी० -- शिवजीके अस्त्रोंको व्यर्थ कर देनेपर जैसे सहस्रगुण जल देते हुए सूर्यके जलके आहरण करनेपर नष्ट प्रभाववाला, लोक वर्षा करनेवाले सूर्यसे जल पानेकी इच्छा करता है उसी तरह अस्त्रमहिमासे रहित क्षीण होकर भी अक्षीण प्रभाव अर्जुनने बाहुपराक्रमसंपत्तिकी आकाङ्क्षा की ॥ ६४ ॥ इति भारविकृतौ महाकाव्ये किरातार्जुनीये षोडशः सर्गः