किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 634, कुल 707 में से
संदर्भ में पढ़ेंसप्तदशः सर्गः
अथ पञ्चभिः पार्थं विशेषयन् षड्भिः कुलकमाह—अथेत्यादिभिः—
अथापदा मुद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेषु ।
धृतिं गुरुश्रीर्गुरुणाभिपूष्यन् स्वपौरुषेणेव शरासनेन ॥ १ ॥
मल्लि०—अथ जयलक्ष्मीप्रत्याकाङ्क्षानन्तरम् । आपदासुद्धाणक्षमेषु = आपन्निवारणसमर्थेषु । अस्त्रेषु प्रस्वापनादिषु तादृशेषु मित्रेष्विव तिरोहितेष्वन्तर्हितेषु सत्सु, गुरुणा महता स्वपौरुषेणेव तादृशेन शरासनेन धृतिं = धैर्यम् । अभिपूष्यन् = वर्धयन् । अद्यापि धनुषि पौरुषे च सति कियानयं किरात इति धैर्यमवलम्बमान इत्यर्थः । अत एव गुरुश्रीः = प्रवृद्धशोभासम्पत्तिः । 'पद्मा मा लक्ष्मीः श्रीनिगद्यते' इति शाश्वतः ॥ १ ॥
हिन्दी—अनन्तर आपत्तियोंके निवारणमें समर्थ मित्रोंके समान प्रस्वापन आदि अस्त्रोंके निष्फल होनेपर महान् अपने पौरुषके समान महान् गाण्डीव धनुषे धैर्यको बढ़ाते हुए अर्जुन बढ़ी हुई शोभासम्पत्तिवाले हुए ॥ १ ॥
भूरिप्रभावेण रणाभियोगात्प्रीतो विजिह्यश्च तदीयवृद्ध्या ।
स्पष्टोऽप्यविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्विवह्निः ॥ २ ॥
मल्लि०—भूरीति । पुनश्च, भूरिप्रभावेण = महानुभावेन सह रणाभियोगात् = युद्धलाभात् प्रीतः तदीयवृद्धया = शत्रुवृद्ध्या विजिह्यो = विश्लथश्च तथा स्पष्टो दीप्त्या प्रज्वलन्नप्यविस्पष्टो वपुःप्रकाशो यस्य सः । कुतः । सर्पन् = प्रसरन् महान्धूमो यस्य स सर्पन्महाधूमोऽद्विवह्निरिव स्थितः ॥ २ ॥
हिन्दी—प्रचुर प्रभावके साथ युद्धके लाभसे प्रसन्न परन्तु शत्रु की वृद्धिसे शिथिल होकर अर्जुन दीप्तिसे प्रज्वलित होकर भी फैले हुए प्रचुर धूमवाले पर्वत के अग्निके समान अस्त्र शरीर प्रकाशवाले हो गये ॥ २ ॥
तेजः समाश्रित्य परैरहार्यं निजं महन्मित्रमिवोरुधेयम् ।
आसादयन्नस्खलितस्वभावं भीमे भुजालम्बमिवाऽरिदुर्गे ॥ ३ ॥
मल्लि०—तेज इति । पुनश्च, परैररिभिरहार्यमभेद्यं निजं = स्वकीयं महस्तेजो = शौर्यं मित्रमिव समाश्रित्य । अत एव भीमे = भयानकेऽरिरेव दुर्गं तस्मिन्