किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 635, कुल 707 में से
संदर्भ में पढ़ेंसप्तदशः सर्गः ३७९
अरिदुर्गे शत्रुसङ्कटे। अस्खलितस्वभावमचलशीलगुरु = महत् धैर्यं भुजालम्बमिव = हस्तावष्टम्भमिव, आसादयन् = प्राप्नुवन्। ईदृशे संकटेऽपि महावीर्यत्वाद्वैर्य्यमत्यज- न्नित्यर्थः ॥ ३ ॥
हिन्दी—शत्रुओंसे अहार्थ और मित्रके समान अपने प्रचुर तेजका आश्रय कर अर्जुन भयानक शत्रुरूप सङ्कटमें अविचलित स्वभाववाले होकर प्रचुर धैर्यको हाथके अवलम्बनके समान प्राप्त कर रहे थे ॥ ३ ॥
वंशोचितत्वादभिमानवत्या संप्राप्तया संप्रियतामसुभ्यः ।
समक्षमादित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ॥ ४ ॥
**मल्लि०—**वंशेति। पुनश्च, अभिमानो ममतावुद्धिस्तद्वत्या। विषयतया कर्मणि कर्तृत्वोपचारः। अभिमानास्पदेनेत्यर्थः। अन्यत्र—, कुलशीलाद्यभिमानवत्या। वंशोचितत्वात् = स्वकुलानुरूपत्वात्। असुभ्यः = प्राणेभ्योपि संप्रियतां = संप्रा- प्तया परेण शत्रुनाऽक्ष्णोः समीपे समक्षमक्यग्रतः। 'अव्ययीभावे शरत्प्रभृतिभ्यः' इति समासान्तष्टच्प्रत्ययः। आदातुं = ग्रहीतुमिष्टयाऽऽदित्सितया। आजिहीर्षितये- त्यर्थः। आङ्पूर्वाद्ददातेः सन्नन्तात्कर्मणि क्तः। वध्वेव कीर्त्या हेतुना परितप्यमानः, कर्तरि शानच् 'हेतो' इति तृतीया। कन्यया शोक इति वत् ॥ ४ ॥
**हिन्दी—**अर्जुनवंशके उचित होनेसे अभिमानसे युक्त बुद्धिसे प्राणसे भी प्रिय भावको प्राप्त, पत्नीकी तुल्य कीर्तिके शत्रुसे सामने ही ग्रहण करनेकी इच्छासे आँखोंके सामने ही सन्तप्त हो रहे थे ॥ ४ ॥
पतिं नगानामिव बद्धमूलमुन्मूलयिष्यंस्तरसा विपक्षम् ।
लघुप्रयत्नं निगृहीतवीर्यस्त्रिमार्गगावेग इवेश्वरेण ॥ ५ ॥
**मल्लि०—**पतिमिति। पुनश्च, नगानां पतिं हिमवन्तमिव बद्धमूलं = विपक्षं शत्रुं तरसा = बलेन। उन्मूलयिष्यन् = उत्पाटयिष्यन्। किंच, त्रिभिर्मार्गेर्गच्छतीति त्रिमार्गगा गङ्गा। उत्तरपदसमासः। तस्या वेग इव। ईश्वरेण लघुप्रयत्नमल्पप्रयासं यथा तथा, निगृहीतवीर्यः = प्रतिबद्धशक्तिः, हृतास्त्रशक्तिरिति यावत्। पुरा किल हिमाद्रिविदलनाय गगनात्पतन्तं गङ्गाप्रवाहं गङ्गाधरोनि बजटाजूटेन जग्राहेति पौराणी कथा तद्वदित्यर्थः ॥ ५ ॥
**हिन्दी—**पर्वतपति हिमालयके समान बहुमूल शत्रुको वेगसे उन्मूलित करनेकी