किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 636, कुल 707 में से
संदर्भ में पढ़ें| ३८० | किरातार्जुनीयम् |
|---|
इच्छा करते हुए अर्जुन गङ्गाके वेगके समान शिवजीसे थोड़ेसे प्रयाससे नष्ट अस्त्रशक्तिवाले हो गये ॥ ५ ॥
संस्कारवत्त्वाद्रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु ।
अयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थमिवाशशंसे ॥ ६ ॥
मल्लि०—संस्कारेति । एवंभूतः पार्थः संस्कारवत्त्वात् संस्कारश्चित्तवासना । अन्यत्र, साधुत्वम् । असाधूनां प्रयोगनिषेधादिति भावः । अथवा संस्कारो ऽमृष्ट-तिस्तद्वत्त्वात् चेतो रमयत्सु । प्रयोगः संधानमोक्षादिः, शिक्षाऽभ्यासो गुणस्तदाहितोऽतिशयो मौर्वी वा, अन्यत्र तु—, प्रयोगोऽभियुक्तव्यवहारः शिक्षाऽभ्यासो गुणाः स्वस्वस्थानकरणादयः श्लेषप्रसादादयो वा ते भूषणं येषां तेषु । यथा यथामूर्ता अर्था येषां तेषु यथार्थेषु । अन्यत्र—, नियततार्थेषु । शृणन्ति हिंसन्तीति शरास्तेषु जयम् । तन्निर्वाहकत्वात्तदाधारत्वविवक्षायां सप्तमी । शब्देषु पदेषु भावः प्रवृत्तिनिमित्तं सामान्यादिः स एव अर्थस्तमिव । आशशंसे=आचकाङ्क्षे । शास्तिशंसत्योराङ्पूर्वयोरिच्छायामात्मनेपदमुपसंख्यानात् । यथा शाब्दिकाः शब्दैरर्थं साधयन्ति तद्वदयं शरैर्जयं साधयितुमियेयेत्यर्थः ॥ ६ ॥
हिन्दी—ऐसे अर्जुनने व्युत्पत्ति वा साधुत्व होनेसे चित्तका रमण करनेवाले प्रयोग, अभ्यास गुण अपने-अपने स्थानकरण आदि वा श्लेष प्रसादरूप भूषणवाले यथार्थ वा नियत अर्थवाले बाणोंसे जयकी ओर शब्दोंसे प्रवृत्तिनिमित्त रूप अर्थोंके समान आकाङ्क्षा की ॥ ६ ॥
भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धमिति व्यथावान् ।
स निर्वववामास्रममर्षनुन्नं विषं महानाग इवेक्षणाभ्याम् ॥ ७ ॥
मल्लि०—भूय इति भूयः=पुनरपि समाधानेन युद्धाय मनोऽवस्थापनेन विवृद्धतेजाः=प्रवृद्धप्रतापः पुरा पुरातनं युद्धमेवमित्थं शक्तिसादकरं नाभवत्, इति हेतोः व्यथावान् = परितापवान् सोऽर्जुन ईक्षणाभ्यां = दृष्टिभ्यां महानागो = महासर्पो विषमिवामर्षनुन्नं क्रोधोत्थापितम् । अस्रमश्रु निर्ववाम = निर्जगाम । सात्त्विकानां रससाधारण्याद्रौद्रेऽप्युदयोक्तिः । 'स्तंभः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलयं इत्यष्टौ सात्विका मताः' ॥ ७ ॥
हिन्दी—फिर भी युद्धके लिए मनको व्यवस्थित करनेसे बढ़े हुए प्रतापवाले अर्जुनने 'पहले इस प्रकारका युद्ध नहीं हुआ था, ऐसा सोचकर परितप्त होकर