किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 619, कुल 707 में से
संदर्भ में पढ़ेंपञ्चदशः सर्गः ३६३
सगणस्य = सानुगस्य शत्रोः, सारं = सत्त्वं विनेष्यन् = अपनेष्यन् । प्रस्वाप्यते शाय्यतेऽनेनेति प्रस्वापनं तदेव वस्त्रम् । घनानद्धो = मेघव्याप्तोऽर्धरात्रो निशीथः । ‘अर्धरात्रनिशीथौ द्वौ’ इत्यमरः ‘अर्धं नपुंसकम्’ इति समासः । ‘ अहःसर्वैकदेशे-’ त्यादिना समासान्तः । ‘रात्राह्नाहाऽ पुंसि’ इति पुंल्लिङ्गता । ध्वान्तमिव द्रुत- माजहाराचकर्ष ॥ २५ ॥
हिन्दी—अनिवार्य पराक्रमवाले अर्जुनने ऐसा निश्चय कर प्रमथगणोंके साथ शत्रुके पराक्रमको हटानेकी इच्छा करते हुए जैसे मेघसे व्याप्त आधीरात अन्धकार- को आकृष्ट करती है उसी तरह प्रस्वापन अस्त्रको खींच लिया ॥ २५ ॥
प्रसक्तदावानलधूमधूम्रा निरुन्धती धाम सहस्ररश्मेः ।
महावनानीव महातमिस्रा छाया ततानेशबलानि काली ॥ २६ ॥
मल्लि०—प्रसक्तेति । 'प्रसक्तः संततो यो दावानलधूमस्तद्वद्धूम्रा = धूसरा सहस्ररश्मेर्घाम तेजो निरुन्धती । आवृण्वती काली = कृष्णवर्णा । ‘जानपद—’ इत्यादिना ङीष् । छाया = कान्तिः, ईशबलानि महातमिस्रा = महती तमःसंततिः । 'तमिस्रा तु तमस्ततिः' इति विश्वः । महावनानीव ततान=व्यानशे । युग्मम् ।२६।
हिन्दी—व्याप्त दवाग्निके धूमके समान धूसरवर्णवाली और सूर्यके तेजको आच्छादित करती हुई कृष्णवर्णवाली कान्तिने शिवजीके सैन्योंको जैसे बड़ी अन्धकारकी पंक्ति बड़े-बड़े वनोंको व्याप्त करती है उसी तरह व्याप्त कर डाला ॥ २६ ॥
आसादिता तत्प्रथमं प्रसह्म प्रगल्भतायाः पदवीं हरन्ती ।
सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ॥ २७ ॥
मल्लि०—आसादितेति । तदेवासावनं प्रथमं तत्प्रथमं यथा तथा प्रसह्मासा- दिता कल्पिता प्रगल्भताया व्यवहारधार्ष्टर्यस्य पदवीं हरन्ती भीमा=भयंकरी, निद्रा उक्तविशेषणा सभा संसदिव । गणानां प्रतिभा प्रज्ञाशक्तिः सैव गुणस्तस्य निरासं = प्रतिभाक्षयं विदधे = चक्रे ॥ २७ ॥
हिन्दी—वही पहले-पहल हठात् कल्पित होकर व्यवहारकी क्षमताके मार्गको दूर करती हुई भयङ्कर निद्राने सभाके समान प्रमथगणोंकी बुद्धि शक्तिरूप गुणका क्षय कर दिया अर्थात् अर्जुनके प्रस्वापन अस्त्रने शिवजीके प्रमथगणोंको निद्रित कर दिया ॥ २७ ॥