किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 618, कुल 707 में से
संदर्भ में पढ़ें३६२ | किरातार्जुनीयम्
हिन्दी— इस (किरातराज) के शरीरको प्रयोजनवश पैंतरा बदलनेपर आलीढ आदि स्थानोंमें स्थिरता नहीं छोड़ती है, लाघवसे रहता हुआ बाणोंका प्रहार भी अचल और चल लक्ष्योंपर एकरूप है ॥ २२ ॥
परस्य भूयान्विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे ।
भीष्मेऽप्यसम्भाव्यमिदं गुरौ वा न सम्भवत्येव वनेचरेषु ॥ २३ ॥
मल्लि०— परस्येति । किंच, परस्य विवरे = रन्ध्रे अल्पेऽपीति शेषः । भूयान् = भूयिष्ठः, प्रसह्य = झटिति अभियोगो ज्ञातृत्वम् । परस्य रन्ध्रज्ञातृत्वात्प्रहारौघोऽष इत्यर्थः । आत्मनो रन्ध्रे = विवरे । अनल्पेऽपीति शेषः । प्रसह्य = झटिति संरक्षणं = गोपनं च । भूयिष्ठमिति शेषः । इदं द्वयं भीष्मेऽपि, गुरौ वा द्रोणे वापि असम्भाव्यं दुर्वितर्क्यं वनेचरेषु न सम्भवत्येव । अतो नायं किरातः, किंत्वयं तिरोहितवेषः कोऽप्यमानुषः पुरुषः इति भावः ॥ २३ ॥
हिन्दी— शत्रुके थोड़े छिद्रमे भी उसके प्रचुर छिद्रोंको झटपट जान लेते हैं और अपने प्रचुर छिद्रोंको भी छिपाते हैं, ये दो विषय भीष्म पितामह और द्रोणाचार्य मे भी असंभाव्य हैं फिर वनेचरोंमे तो होना सम्भव नहीं है, इस लिए यह किरात नहीं है अतः यह देवयोनिमें उत्पन्न व्यक्ति है ॥ २३ ॥
अप्राकृतस्याहवदुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यम् ।
अल्पीयसोऽप्यामयतुख्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः ॥ २४ ॥
मल्लि०— अप्राकृतस्येति । अप्राकृतस्योक्तरीत्याऽसाधारणस्य । आहवदुर्मदस्य = रणमत्तस्य । अस्य = किरातस्य वीर्यं = तेजोऽस्त्रबलेन = दिव्यशस्त्रमहिम्ना निवार्यं निवारणीयम् । अन्यथाऽनिवार्यत्वमस्येति भावः । तथा हि—अल्पीयसोऽप्यत्यल्पस्यापि । आमयतुख्यवृत्ते रोगसमानविक्रियस्य । 'रोगव्याधिगदामयाः' इत्यमरः । रिपोर्विवृद्धिर्महापकाराय, किंत्वयं महानुभाव इति भावः । कुलकम् ॥ २४ ॥
हिन्दी— असाधारण, युद्धमें मत्त इस किरातका पराक्रमका दिव्यशस्त्रके बलसे निवारण करना चाहिए, जैसे कि अतिशय अल्प होकर भी रोगके समान विकारवाले शत्रु की वृद्धि महान् अपकारके लिए हो जाती है ॥ २४ ॥
स संप्रधार्यैव महार्यसारः सारं विनेष्यन् सगणस्य शत्रोः ।
प्रस्वापनास्त्रं द्रुतमाजहार ध्वान्तं घनानाद्द इवार्धरात्रः ॥ २५ ॥
मल्लि०— स इति । अहार्यसारोऽनिवार्यवीर्यः सोऽर्जुन एवं सप्रधार्य = निश्चित्य