किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 622, कुल 707 में से
संदर्भ में पढ़ें| २६६ | किरातार्जुनीयम् |
|---|
पृथग्विधान्यस्त्रविरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते।
मुक्ता वितानेन बलाहकानां ज्योतींषि रम्या इव दिग्विभागाः॥ ३४॥
**मल्लि०—**पृथगिति। अस्त्रविरामेण = प्रस्वापनास्त्रोपरमेण, बुद्धा विनिद्रास्ते गणा बलाहकानां वितानेन = मेघपटलेन, मुक्ताः अत एव रम्या। दिग्विभागाः = दिगन्ता ज्योतींषि=नक्षत्राणीव। ‘ज्योतिस्तारानिभाज्यालादृक्प्रकाशरमात्मसु’ इति वैजयन्ती। पृथग्विधानि = नानाविधानि शस्त्राणि भूयः प्रतिपेदिरे = जगृहू-रित्यर्थः॥ ३४॥
**हिन्दी—**प्रस्वापन अस्त्रके दूर होनेसे जगे हुए प्रमथगण जैसे मेघसमूहसे मुक्त दिशाएँ नक्षत्रकान्तियोंको धारण करती हैं वैसे ही अपने-अपने शस्त्रोंका धारण करने लगे॥ ३४॥
द्योरुन्ननामेव, दिशः प्रसेदुः, स्फुटं विसस्रे सवितुर्मयूखैः।
क्षयं गतायामिव यामवत्य पुनः समीयाय दिनं दिनश्रीः॥ ३५॥
**मल्लि०—**द्योरिति। तदा यामवत्यां = रात्रौ, क्षयं गतायां = विभातायामिव द्यौरन्तरिक्षम्। उन्ननामेव = ऊर्ध्वमुत्पपातेवेत्युत्प्रेक्षा। दिशः प्रसेदुः। सवितुर्मयूखैः, स्फुटं विसस्रे = विस्तृतम्। भावे लिट्। दिनश्रीर्घर्मकान्तिः पुनः दिनं समीयाय = संजगाम। अत्र वैयधिकरण्येन गुणक्रिययोः समुच्चयेन समुच्चयोऽलंकारः। तस्य च समुन्नमनेत्प्रेक्षया ‘इव’ शब्दवाच्यायानुप्रवेशलक्षणः संकरः। दिक्प्रसादो गुणः। शेषाः क्रियाः॥ ३५॥
**हिन्दी—**उस समय रातके बीतनेपर आकाश मानों ऊपर उन्नत हुआ, दिशाएँ निर्मल हो गई, सूर्यकी किरणें स्पष्टरूपमें फैल गईं ओर दिनकी शोभा दिनका आश्रय लिया॥ ३५॥
महास्त्रदुर्गे शिथिलप्रयत्नं दिग्वारणेनेव परेण रुग्णे।
भुजङ्गपाशान्भुजवीर्यशालो प्रबन्धनाय प्रजिघाय जिष्णुः॥ ३६॥
**मल्लि०—**महास्त्रेति। भुजवीर्यशालो जिष्णुरर्जुनो महास्त्रं = प्रस्वापनास्त्रं तद्दुर्गमिव तस्मिन् महास्त्रदुर्गे, दिग्वारणेनेव=दिग्गजेनेव, परेण = शत्रुना, शिथिल-प्रयत्नमल्पप्रयासं यथा तथा, रुग्णे=भग्ने सति ‘रुजो भङ्गे’ कर्मणि क्तः। ‘ओदितश्च’ इति निष्ठातकारस्य नत्वम्। प्रबन्धनाय = प्रकर्षेण बन्धनाय, भुजङ्गा एव पाशा-स्तान्। प्रजिघाय = प्रहितवान्॥ ३६॥