भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 490, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 490

२३२ | किरातार्जुनीयम्

ननु सदुपदेशस्य कुतो वैफल्यमित्याशङ्क्य सोऽप्यस्थाने प्रयुक्तश्चेदूषरक्षेत्रे शालिबीजवन्निष्फल एवेत्याशयेनाह—

श्रेयसोऽप्यस्य ते तात ! वचसो नास्मि भाजनम् ।
नभसः स्फुटतारस्य रात्रेरिव विपर्ययः ॥ ४४ ॥

मल्लि० — श्रेयस इति । हे तात ! ‘पुत्रे पितरि पूज्ये च तातशब्दं प्रयुञ्जते’ इति । श्रेयसोऽपि हितार्थयोगात्प्रशस्ततरस्यापि । अस्य ते तव वचसो हितोपदेशरूपस्य रात्रेर्विपर्ययो दिवसः स्फुटतारस्य व्यक्ततारकस्य नभस इव भाजनं पात्रं नास्मि । अनधिकारित्वादिति भावः । अत्राह्नो नभोमात्रसम्बन्धसम्भवेऽपि तारासम्बन्धासंभवात्तद्विशिष्टनभःसंबन्धविरोधादुक्तं तारकितस्य नभसो न पात्रमहरिति ॥ ४४ ॥

हिन्दी — हे तात ! जैसे दिन ताराओंसे व्यक्त आकाशका पात्र नहीं होता है, वैसे ही कल्याणकारक होनेपर भी आपके इस हितोपदेशका मैं पात्र नहीं हूँ ॥ ४४ ॥

कुतस्ते मोक्षोपदेशानधिकारित्वम्, किंच, ते तपसः पौर्वापर्यं कथं न वार्य इत्याशङ्क्य तत्सर्वं स्वजात्यादिकथनपूर्वकं निरूपयति—

क्षत्रियस्तनयः पाण्डोरहं पार्थो धनंजयः ।
स्थितः प्रास्तस्य दायादेर्भ्रातुर्ज्येष्ठस्य शासने ॥ ४५ ॥

मल्लि० — क्षत्रिय इति । अहं क्षत्रियः क्षत्रियकुले जातः । तत्रापि महापुण्यप्रसूतः, वीरसंतानश्चेत्याह—पाण्डोस्तनय इति । कौन्तेयोऽस्मि, न माद्रेय इत्याह—पार्थ इति । पृथा कुन्ती, तत्सुतः पार्थः । ‘तस्यापत्यम्’ इत्यण् । अर्जुनोऽहं महावीरश्चेत्याह—धनंजय इति । उत्तरकुरून्विजित्य धनाहरणाद्धनंजयोऽस्मीत्यर्थः । ‘खचिमुमागम’ इत्युक्तं प्राक् । धनंजय इत्युक्ते शरीरस्थो वायुः सर्पविशेषो वा स्यात्तदर्थः पार्थः, गन्धर्वोऽपि कश्चित्पृथासुतोऽस्ति तदर्थं पाण्डोः सुतः, नैमिषारण्ये पाण्डुविप्रस्तत्पत्नी पृथा नाम काचित् ब्राह्मणी तत्पुत्रोऽपि स्यात्तदर्थं क्षत्रिय इति । अयं चेत्किमर्थं तर्हि तपस्यसि, मोक्षार्थं वा किं न तपस्यसि, तत्राह—स्थित इति । दायं पैतृकं धनमाददत इति दायादा ज्ञातयः । ‘दायादा ज्ञातिपुत्रयोः’ इति, ‘विभक्तव्यं पितृद्रव्यं दायमाहुर्मनीषिणः’ । इति च विश्वः । ‘स्वामीश्वरादि’ सूत्रेण सोपसर्गादपि दायादेति कप्रत्ययान्तो निपातनात्साधुः । तैः, प्रास्तस्य राज्यान्निरस्तस्य । वैरिभिर्निर्वासितस्य इत्यर्थः । ज्येष्ठस्य भ्रातुर्युधिष्ठिरस्य । ‘गुरु...