भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 501, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 501

एकादशः सर्गः | २४३

अरिवधेन न प्रत्याहरतीत्यर्थः । तावत् अजन्मा । अजातप्राय इत्यर्थः । नन्वजातो जननान्तरमुपयुज्यत एवेत्यरुच्या पक्षान्तरमाह—गतासुमूर्तः । मृततुल्य इत्यर्थः । मृतोऽपि प्रागुपयुक्तवानित्यरुच्याह—तृणमेवेति । तृणतुल्य इत्यर्थः । अचिकित्करस्तु त्रैकाल्यानुपयोगोज्जीवन्मृत इत्यर्थः । अतो नाहमाग्रहद् ब्रवीमि, किन्तु वीरधर्ममनु-पालयामीति भावः ॥ ७० ॥

हिन्दी—पुरुष जब तक शत्रुओंसे विलुप्त यशको बाणोंसे नहीं लौटाता है तब तक वह जन्महीन-सा है । वा मरा हुआ-सा है वा तृणके ही समान है ॥ ७० ॥

सर्वथा वैरनिर्यातं कर्तव्यमित्युक्तम्, तदकरणे पुरुषगुणानां हानिदोषमाह—

अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।
पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ! ॥ ७१ ॥

मल्लि०—अनिर्जयेनेति । यस्यामर्षः क्रोधो द्विषतां शत्रूणाम् । अनिर्जयेन विजयं विनैव प्रशाम्यति । उपलक्षणे तृतीया । तस्मिन् पुरुष इत्युक्तिः ‘पुरुष’ शब्दः कथम् ? न कथंचिदित्यर्थः । प्रवर्तत इति शेषः । प्रवृत्तिनिमित्तस्य पुरुषकारस्या-भावादिति भावः । हे तपोधन ! त्वं हि त्वमेव ब्रूहि कथय । न च ते किंचिदविदित-मस्तीति भावः । ‘हि हेताववधारणे’ इत्यमरः ॥ ७१ ॥

हिन्दी—हे तपस्विन् ! जिस पुरुषका क्रोध शत्रुओंके जीते बिना शान्त होता है उसमें 'पुरुष' शब्दसे व्यवहार कैसे उचित होगा ? आप ही कहिए ॥ ७१ ॥

ननु पुरुषत्वजात्यैव पुरुषोक्तिप्रवृत्तेः किंपुरुषकारेण, तत्राह—कृतमित्यादिद्वयेन—

कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।
योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः ॥ ७२ ॥

मल्लि०—कृतमिति । जातिमात्रावलम्बिना जातिमात्राभिधायिना पुरुषशब्देन कृतमलम् । न तेन किंचित्साध्यत इत्यर्थः । अत्र गम्यमानसाधनक्रियापेक्षया करण-त्वात्तृतीयेत्युक्तं प्राक् । ‘कृतम्’ इति निषेधार्थकमव्ययं चादिषु पठ्यते । सत्यं जातिमात्रेऽपि ‘पुरुष’ शब्दः प्रवर्तते । परन्तु नासौ पुंस्त्वमात्राच्छ्लाघ्यः पश्वादिसाधारणा-दिति तात्पर्यार्थः । तर्हि कीदृशश्लाघ्य इत्याशङ्कयाह—य इत्यादिनाधयुग्मेन । अङ्गी-कृतगुणैर्गुणपक्षपातिभिः । यः पुमान् श्लाघ्यः स्तुत्यः सन् सविस्मयं ससंभ्रमम् । उदाहृतः कथितः । पुंसा ईदृशेन भवितव्यमिति निश्चितः ॥ ७२ ॥

हिन्दी—जातिमात्रका अवलम्बन करनेवाले 'पुरुष' शब्दको कुछ आवश्यकता

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित) · पृष्ठ 501, कुल 707 में से · BharatKosha