भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 509, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 509

द्वादशः सर्गः २५१

वालिङ्गे' इत्यमरः। 'करणवदशब्दमनुप्रयोग उपांशु' इति कौमारलक्षणम् । जप्यत इति जपस्तं जपम् । मन्त्रमित्यर्थः । जपतः पठतः । तस्यार्जुनस्य वदनं कर्तृ अभितो विसारिभिः प्रसरणशीलैः । दशनकिरणैर्हेतुभिः परिवेषवान्यमर्क- मण्डलम् इव शुशुभे । 'परिवेषस्तु परिधिरुपसूर्यकमण्डले' । इत्यमरः ॥ ८ ॥

हिन्दी—निरन्तर गूढ जप करते हुए उन अर्जुनका मुख चारों ओर फैलनेवाले दन्तकिरणोंसे परिवेषके आवरणसे भयङ्कर सूर्यमण्डलके समान शोभित होने लगा ॥ ८ ॥

कवचं स बिभ्रदुपवीतपदनिहितसज्यकार्मुकः ।
शैलपतिरिव महेन्द्रधनुःपरिवीतभीमगहनो विदिद्युते ॥ ९ ॥

मल्लि०—कवचमिति । कवचं वर्म बिभ्रदुपवीतपदे यज्ञोपवीतस्थाने निहितमारोपितं सज्यं कार्मुकं येन स तथोक्तः । 'सोऽर्जुनो महेन्द्रधनुषा परिवीतं परिवेष्टितं भीमं गहनं वनं यस्य स शैलपतिरिव हिमवानिव विदिद्युते शुशुभे ॥ ९ ॥

हिन्दी—कवचको धारण करते हुए और यज्ञोपवीतके स्थानपर प्रत्यञ्चाके साथ धनुको लिये हुए वे (अर्जुन) इन्द्रधनुसे परिवेष्टित भयङ्कर वनवाले हिमालय पर्वतके समान शोभित होने लगे ॥ ९ ॥

प्रविवेश गामिव कृशस्य नियमसवनाय गच्छतः ।
तस्य पदविनमितो हिमवान् गुरुतां नयन्ति हि गुणा न संहतिः ॥ १० ॥

मल्लि०—प्रविवेशेति । नियमसवनाय नियमस्नानाय । 'सवनं त्वध्वरे स्नाने होमनिर्दलनेऽपि च' इति विश्वः । गच्छतः तस्यार्जुनस्य पदैः पादन्यासैर्विनमितो हिमवान् गां भुवं प्रविवेशेवेत्युत्प्रेक्षा । ननु कृशस्य कथमियद् गौरवम्, तत्राह— गुणाः सारादयो गुरुतां नयन्ति प्रापयन्ति हि । संहतिः संघातः । मूर्तिरिति यावत् न नयन्ति । अन्तःसाराद्धि गौरवं भवति, न तु बाह्यस्थौल्यात्; तत्र च हेमपिण्ड- तूलपिण्डावेव निदर्शनमिति भावः ॥ १० ॥

हिन्दी—नियमके स्नानके लिए जाते हुए अर्जुनके चरणन्यासोंसे झुका हुआ हिमालय भूमिमें प्रवेश करता हुआ-सा मालूम होता था, क्योंकि गुण गुरुताको प्राप्त कराते हैं समुदाय (मूर्ति) गुरुता को प्राप्त नहीं कराता है ॥ १० ॥