किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 524, कुल 707 में से
संदर्भ में पढ़ें| २६८ | किरातार्जुनीयम् |
|---|
और वनोंमें उत्पन्न जन्तुओंको विचलित कर प्रसन्न मृगियोंके दांतोंसे सत विस्तृत लतावाले अर्जुनके आश्रममें पहुँच गये ॥ ५२ ॥
स तमाससाद घननीलमभिमुखमुपस्थितं मुनेः ।
पोत्रनिकषणविभिन्नभुवं दनुजं दधानमथ सौकरं वपुः ॥ ५३ ॥
मल्लि०— स इति। अथ अनन्तरं स शिवो घननीलं मेघमेचकं मुनेरर्जुनस्य अभिमुखमुपस्थितमागतं पोत्रस्य मुखाग्रस्य निकषणेनोल्लेखनेन विभिन्ना विदारिता भूर्येन तम् । 'मुखाग्रे क्रोडहलयोः पोत्रम्' इत्यमरः । 'हलसूकरयोः पुवः' इति ष्ट्रन्प्रत्ययः । सूकरस्येदं सौकरं वाराहं वपुर्दधानं दनुजं दानवम् । आससाद प्राप । ददर्शति यावत् ॥ ५३ ॥
हिन्दी— अनन्तर शिवजी मेघके समान कृष्णवर्ण, मुनि (अर्जुन)के सम्मुख आये हुए थूथनको घिसकर पृथ्वीको विदीर्ण करते हुए सूकरशरीर लिए हुए दानव (मूक)के पास प्राप्त हुए ॥ ५३ ॥
कच्छान्ते सुरसरितो निधाय सेनामन्वितः स कतिपयैः किरातवर्यैः।
प्रच्छन्नस्तरुगहनैः सगुल्मजालैर्लक्ष्मीवाननुपदमस्य संप्रतस्थे ॥ ५४ ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये द्वादशः सर्गः ।
मल्लि०— कच्छान्त इति । लक्ष्मीवान् । 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः' इति मतुपो मकारस्य वकारादेशः । स शिवः । सुरसरितो मन्दाकिन्या कच्छान्तेऽनूपप्रान्ते । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' । इत्यमरः । सेनां निधाय । स्थापयित्वेत्यर्थः । कतिपयैः किरातवर्यैरन्वितोऽनुगतः सन् । 'ई गतौ' इति धातो-रनुपूर्वात्कर्मणि क्तः । सगुल्मजालैर्लताप्रतानसहितैः । तरुगहनैः प्रच्छन्नश्छादितः । 'वा' दान्तशान्त-' इत्यादिना निपातः । अस्य वराहस्य पदमनु अनुपदम । पदानुसारेणेत्यर्थः । संप्रतस्थे प्रस्थितः । 'समवप्रविभ्यः स्थ' इत्यात्मनेपदम् । प्रहर्षिणीवृत्तम् ॥ ५४ ॥
इति किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां द्वादशः सर्गः समाप्तः ॥
हिन्दी— शोभासम्पन्न शिवजीने मन्दाकिनीके जलप्राय स्थानके समीप सेनाको रखकर कतिपय श्रेष्ठ किरातोंसे अनुगत होकर लतासमूहसे प्रच्छन्न हो उस वराहके पदका अनुसरण कर प्रस्थान किया ॥ ५४ ॥
इति श्रीकिरातार्जुनीये द्वादशः सर्गः ।