भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 535, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 535

त्रयोदशः सर्गः २७९

नभश्चरकर्तृकदर्शनयौगपद्यात्सम्बन्धेऽपि तत्सम्बन्धोक्तिमूलातिशयोक्त्या लोकोत्तरवेग-प्रतीतेरलंकारेण वस्तुध्वनिः ॥ २३ ॥

हिन्दी—बाण, पिनाक धनुसे निकल कर शोभाको प्राप्त कर शिवजीके निकट स्थित आकाशचारियोंसे और अन्तरालमें स्थित आकाशचारियोंसे तथा वराहके निकटवर्ती आकाशचारियोंसे भी वराहको भेदन करता हुआ एकही बार देखा गया ॥ २३ ॥

स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः ।
भयविप्लुतमीक्षितो नभःस्थैर्जगतीं ग्राह इवापगां जगाहे ॥ २४ ॥

मल्लि०स इति । बाणः । तमालनिभे तमालप्रभे । नीलाभ इति यावत् । सुराणां रिपौ वराहे घननीहारे सान्द्रतुहिन इव, अविषक्तवेगोऽप्रतिबद्धवेगः सन् । तथा, नभःस्थैः खेचरैः भयेन विप्लुतं विह्वलं यथा तथा, ईक्षितः सन् । अपां सम्बन्धी वेग आपः, अपां समूहो वा आपम् । आपेन गच्छतीति आपगा नदी तां गृह्णातीति ग्राहो जलग्राहः । जलचर इति यावत् । ‘जलबरे’ इति वक्तव्याद् ‘विभाषा' ग्रहः’ इति णप्रत्ययः । स इव । जगतीं भूमिम् । ‘जगती विष्टपे भूम्यां वास्तुच्छन्दोविशेषयोः’ इति वैजयन्ती । जगाहे विवेश । अन्तर्हित इत्यर्थः ॥ २४ ॥

हिन्दी—बाण, तमालवृक्षके समान नीलवर्णवाले वराहमें गाढ़ कोहरेके समान न रुके हुए वेगवाला होकर आकाशचारियोंसे भयसे विह्वल होकर देखा जाता हुआ जैसे ग्राह नदीमें प्रवेश करता है उसी तरह भूमिमें घुस गया ॥ २४ ॥

अथार्जुनबाणप्रयोगमाह—

सपदि प्रियरूपपर्वररेखः सितलोहाग्रनखः खमाससाद ।
कुपितान्तकतर्जनाङ्गुलिश्रीर्व्यथयन् प्राणभृतः कपिध्वजेषुः ॥ २५ ॥

मल्लि०सपदीति । सपदि शिवबाणपातसमय एव प्रिया रूपमाकृतिः, पर्वाणि ग्रन्थयो रेखा रचनाश्च यस्य सः । अङ्गुलिपक्षे-पर्वरेखाः प्रसिद्धाः लोहाग्रमयःफलं तन्नखमिवेत्युपमितिसमासः । सितं लोहाग्रनखं यस्य सः । कुपितस्यान्तकस्य मृत्योर्या तर्जना तस्या अङ्गुलिस्तर्जनाङ्गुलिः तर्जनां तस्याः श्रीरिव श्रीर्यस्य सः कपिध्वजेषुरर्जुनबाणः प्राणभृतो व्यथयन् भीषयमाणः खमाकाशम् । आससाद प्राप । उपमालंकारः ॥ २५ ॥

हिन्दी—उसी क्षण प्रिय आकार, ग्रन्थि और रचनासे युक्त सफेद लोहाग्ररूप-