किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 536, कुल 707 में से
संदर्भ में पढ़ें२८० किराताजुनीयम्
नखवाला होकर कुपित मृत्युकी तर्जनीकी सदृश शोभासे युक्त अर्जुनका बाण प्राणियों को व्यथित करता हुआ आकाश-मण्डलमें पहुँच गया ॥ २५ ॥
परमास्त्रपरिग्रहेाहुरु तेजः स्फुरदुल्काकृति विक्षिपन्वनेषु। स जवेन पतन् परःशतानां पततां व्रात इवारवं वितेने ॥ २६॥
मल्लि०—परमेति। परमास्त्रपरिग्रहेण दिव्यास्त्राधिष्ठानेन उरु महत् अत एव स्फुरदुल्काकृति । उल्कावद्धोर्ध्वायमाणमित्यर्थः । तेजो वनेषु विक्षिपन् विकिरन् सन् जवेन पतन् धावन् स बाणः । शतात्परे परःशतास्तेषाम् । शताधिकसंख्याकानामित्यर्थः । 'परःशताद्यास्ते येषां परा संख्या शतादिकात्' इत्यमरः । 'पञ्चमी-' इति योगविभागात्समासः । 'राजदन्तादिषु परम्' इत्युपसर्जनस्य 'शत' शब्दस्य परनिपातः । पारस्करादित्वात्सुडागमः । पततां पत्त्रिणाम् । 'पतत्पत्त्ररथप्रण्डजौ' इत्यमरः । व्रातः समूह इव, आरवं वितेने विस्तारयामास ॥ २६ ॥
हिन्दी— दिव्य अस्त्रमें अधिष्ठान करनेसे विशाल अत एव चमकती हुई उल्काकी सदृश आकृतिसे युक्त तेजको वनमें फैला कर वेगसे दौड़ता हुआ वह बाण सौसे अधिक पक्षियोंके समूहके समान आवाज फैलाने लगा ॥ २६ ॥
अविभावितनिष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः। सह पूर्वतरं नु चित्तवृत्तेरपतित्वा नु चकार लक्ष्यभेदम् ॥ २७॥
मल्लि०—अविभावितेति। अतिरंहसाऽतिवेगेन । अविभाविते अलक्षिते निष्क्रमो गाण्डीवान्निःसरणं प्रयाणमन्तरागमनं च यस्य सः । तथा, शमितायामः संक्षिप्तदैर्ध्य इव स्थित इत्युपमा । अत्र वेगगुणनिमित्ता दैर्घ्यगुणाभावोत्प्रेक्षा । स शरः। सह नु सह वा चित्तवृत्त्येति शेषः । चित्तवृत्तेः पूर्वतरं नु प्रागेव वा । उभयत्रापि लक्ष्ये पतित्वेति शेषः । अथवा, अपतित्वा नु । लक्ष्य इति शेषः । लक्ष्यभेदं चकार। अत्रोपात्तवेगगुणनिमित्ताद्वाणस्य चित्तवृत्त्या सहपातपूर्वपातपतनाभावोत्प्रेक्षासिद्धस्य उत्तरोत्तरोत्कर्षेण वेगातिशयव्यञ्जिका इत्यलंकारेण वस्तुध्वनिः ॥ २७ ॥
हिन्दी— अतिशय वेगसे जिसका धनुसे निकलना और चलना दोनों ही अलक्षित हैं दीर्घताको संक्षिप्त करता हुआ-सा स्थित, उस बाणने चित्तवृत्तिके साथ वा पहले ही अथवा मानों लक्ष्यमें पड़े बिना ही लक्ष्यभेद कर डाला ॥२७॥