किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 537, कुल 707 में से
संदर्भ में पढ़ेंत्रयोदशः सर्गः २८१
स वृषध्वजसायकावभिन्नं जयहेतुः प्रतिकायमेषणीयम् ।
लघु साधयितुं शरः प्रसेहे विधिनेवार्थमुदीरितं प्रयत्नः ॥ २८ ॥
मल्लि०— स इति । जयहेतुः स शरो वृषध्वजसायकावभिन्नं शिवशरविद्धम् । एषणीयम् । वेद्धुमिति शेषः । इषैरिच्छायादनीयर्प्रत्ययः । प्रतिकायम् । प्रतिशरीरम् । प्रतिपक्षमिवि यावत् । विधिना दैवेन, उदीरितं फलसाधनतया प्रतिपादितमर्थं योगादिकं प्रयत्नः पुरुषव्यापार इव । लघु अक्लेशेन यथा तथा साधयितुम् । स्वार्थणिजन्तात्तुमुन् । प्रसेहे शशाक । उपमालंकारः ॥ २८ ॥
हिन्दी— जयका कारण वह बाण, शिवजीके बाणसे विद्ध होकर, वेध करनेके योग्य शत्रुको भाग्यसे प्रतिपादित योग आदिको प्रयत्नके समान शीघ्र साधन करनेको समर्थ हुआ ॥ २८ ॥
अविवेकवृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागम् ।
विजिगीषुमिवानयप्रमादाववसादं विशिखौ विनिन्यतुस्तम् ॥ २९ ॥
मल्लि०— अविवेकेति । अविवेकोऽन्तरानभिज्ञत्वं, वृथाश्रमो निष्फलप्रयासस्तौ अर्थं धनमिव । अस्यानविनियोगहेतुकत्वादुनयोर्धनहानिकरत्वमिति भावः । क्षयोऽनुपचयो लोभोऽदातृत्वं तौ, संश्रितानाम् अनुजीविनाम् अनुरागम् इव । अकिंचित्करे स्वामिन्यनुरागस्यानवस्थानादिति भावः । अनयो दुर्नीतिः प्रमादोऽनवधानता तौ विजिगीषुमिव । रन्ध्रभूयिष्ठस्य जयासिद्धेरिति भावः । विशिखौ शिवार्जुनबाणौ तं वराहम् । अवसादं करणशैथिल्यं विनिन्यतुर्नीतवन्तौ । नयतिर्द्विकर्मकः । मालोपमेयम् ॥ २९ ॥
हिन्दी— जैसे अविवेक और व्यर्थ परिश्रम धनको, क्षय और लोभ जैसे आश्रित पुरुषके अनुराग को और दुर्नीति और प्रमाद जैसे विजयके इच्छुकको कार्यमें शिथिलता कर देते हैं वैसे ही शिवजी और अर्जुनसे छोड़े गये बाणोंने उस वराहको शिथिल कर दिया ॥ २९ ॥
अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्णरयः स संभ्रमेण ।
निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूततरुं धरां च मेने ॥ ३० ॥
मल्लि०— अथेति । अथ स वराहो दीर्घतमं तमो दीर्घनिद्रां प्रवेक्ष्यन् । मरिष्यन्नित्यर्थः । सहसा झटिति रुग्णरयो भग्नवेगः, संभ्रमेण भ्रान्त्या । 'संभ्रमो