भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 540, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 540

२८४ | किराताजुंनीयम्

हिन्दी—उस प्रदेशमें महाबाहु अर्जुनने शिवजीकी आज्ञा निवेदन करनेके लिए सामने रहे हुए धनुर्धारी किरातको सहसा देखा ॥ ३५ ॥

स प्रयुज्य तनये महीपतेरात्मजातिसदृशीं किल नतिम्।
सान्त्वपूर्वमभिनीतिहेतुकं वक्तुमित्थमुपचक्रमे वचः ॥ ३६ ॥

मल्लि०— स इति । स वनेचरो महीपतेस्तनये राजपुत्रेऽर्जुने आत्मजातिसदृशीं किरातजात्यनुरूपां किल । 'किले'ति जातेरलीकतां दर्शयति । यतः । परमार्थतः प्रथम एव सः । आनतिं प्रणतिं प्रयुज्य सान्त्वपूर्वं सामपूर्वकम् । 'साम सान्त्वमुभे समे' इत्यमरः । अभिनीतिहेतुकं प्रिययुक्तिहेतुकं वचः । इत्थं वक्ष्यमाणप्रकारेण वक्तुमुपचक्रम-उद्युक्तवान् ॥ ३६ ॥

हिन्दी—उस किरातने राजपुत्र अर्जुनको अपनी जातिके अनुसार प्रणाम कर सामपूर्वक नीति हेतु वाले वाक्यको इस प्रकार कहनेके लिए आरम्भ किया ॥ ३६ ॥

तत्र तावच्चतुर्भिः सान्त्वमाह—

शान्तता विनययोगि मानसं भूरि धाम विमलं तपः श्रुतम्।
प्राह ते नु सदृशी दिवौकसामन्ववायमवदातमाकृतिः ॥ ३७ ॥

मल्लि०— शान्ततेति । शान्तता बहिरनौद्धत्यं ते तव विनययोगि अनोद्धत्ययुक्तं मानसं कर्म प्राह नु ब्रूते खलु । तथा भूरि बहु धाम तेजो यस्मिंस्तत्तपः कर्तृ विमलं संप्रदायशुद्धं श्रुतं प्राह । किञ्च, द्योर्दिवं वोको येषां तेषां दिवौकसां देवानाम् । पृषोदरादित्वात्साधुः । 'दिवं स्वर्गेऽन्तरिक्षे च' इति विश्वः । सदृशी तुल्या आकृतिर्मूर्तिः अवदातं शुद्धम् अन्ववायं वंशं प्राह । 'वंशोऽन्ववायः संतानः' इत्यमरः। शान्त्यादिभिलिङ्गैर्विनयादयोऽनुमीयन्ते । अन्यथा तदसंभवादिति भावः ॥ ३७ ॥

हिन्दी—( हे महोदय ! ) शान्ति आपकी नम्रतासे युक्त मनोवृत्ति कह रही है, प्रचुर तेजवाली तपस्या आपका सम्प्रदाय-शुद्ध शास्त्राऽध्ययन कह रहा है और देवताओंके समान आपका आकार शुद्धवंशको बतला रहा है ॥ ३७ ॥

दीपितस्त्वमनुभावसंपदा गौरवेण लघयन्महीभृतः।
राजसे मुनिरपीह कारयन्नाधिपत्यमिव शातमन्यवम् ॥ ३८ ॥

मल्लि०— दीपित इति । मुनिरपि । ऐश्वर्यरहितोऽपीत्यर्थः । अनुभावसंपदा प्रभावातिशयेन दीपितः प्रकाशितः । 'अनुभावः प्रभावे च' इत्यमरः । गौरवेण महतया महीभृतो राज्ञो लघयन् लघुकुर्वन् । त्वम् । इहाद्रौ । शतमन्योरिदं शातमन्य-