किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 539, कुल 707 में से
संदर्भ में पढ़ेंत्रयोदशः सर्गः २८७
अथ युग्मेनाह—
उपकार इवासति प्रयुक्तः स्थितिमप्राप्य मृगे गतः प्रणाशम् ।
कृतशक्तिरधोमुखो गुरुत्वाज्जनितव्रीड इवात्मपौरुषेण ॥ ३३ ॥
**मल्लि०—**उपकार इति । असति नीचे प्रयुक्त उपकार इव मृगे स्थितिमप्राप्य प्रणाशमदर्शनं गत इत्युपमा । यथा कृतशक्तिः कृतपौरुषो गुरुत्वात् लोहभारान्महत्त्वाच्च अधोमुखो नम्रमुखः । अत एव, आत्मपौरुषेण जनितव्रीड इव इत्युत्प्रेक्षा ।
**हिन्दी—**असत्पुरुषमें किये गये उपकारके समान अर्जुनका बाण वराहके शरीरमें स्थितिको न पाकर नाशको प्राप्त हुआ जैसेकि पुरुषार्थ कर लोहके भारसे वा विशाल होनेसे भी नम्र मुखवाला होकर अपने पुरुषार्थसे मानों लज्जित होकर अधोमुख हो रहा है ॥ ३३ ॥
स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिमिवोत्तमां दधानः ।
अनुयुक्त इव स्ववार्तमुच्चैः परिरम्भे नु भृशं विलोचनाभ्याम् ॥ ३४ ॥
**मल्लि०—**स इति । उत्तमां स्वरुचं कान्ति कीर्तिमिव दधान इत्युत्प्रेक्षा । किञ्च, विचिन्त्य सर्वथा ग्राह्योऽयमिति विमृश्य समुद्धरता तेनार्जुनेन उच्चैः स्ववार्तं स्वपाटवम् । 'वार्तं पाटवमारोग्यं भव्यं स्वास्थ्यमनामयम्' । इति यादवः । अनुयुक्तः पृष्ट इव स्थित इत्युत्प्रेक्षा । आदरात्तथा प्रतीयत इत्यर्थः । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । स बाणो विलोचनाभ्यां नयनाभ्यां भृशं परिरम्भे नु आलिङ्गितः किमित्युत्प्रेक्षा । तेनात्यादरेण दृष्ट इत्यर्थः ॥ ३४ ॥
**हिन्दी—**वह बाण उत्तम अपनी कान्तिको कीर्तिके समान धारण करता हुआ स्थित था । यह ग्राह्य है ऐसा विचार कर ऊँचे स्वरसे अपनी कुशलताको पूछे गयेके समान स्थित उस बाणको अर्जुनने दोनों नेत्रोंसे बारंबार मानों आलिङ्गन किया ॥ ३४ ॥
तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरम् ।
संनिकाशयितुमग्रतः स्थितं शासनं कुसुमचापविद्विषः ॥ ३५ ॥
**मल्लि०—**तत्रेति । तत्र प्रदेशे महाभुजोऽर्जुनः कुसुमचापविद्विषः स्मरारेः शासनं वक्ष्यमाणमादेशं संनिकाशयितुं संनिवेशयितुम् । निवेदयितुमिति यावत् । अग्रतः स्थितं कार्मुकभृतं वनेचरं सहसा झटिति पश्यति स्म । इतः प्रभृति रथोद्धतावृत्तम्—'रो नराविह रथोद्धता लगौ' इति लक्षणात् ॥ ३५ ॥