किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 549, कुल 707 में से
संदर्भ में पढ़ेंत्रयोदशः सर्गः। २९३
नोत्सहते । जीवितमप्यात्मनो नेच्छति । किंत्वर्थितः प्रयच्छतीत्यर्थः । तर्हि धनं किम् । धनमात्मन एषितुं धनायितुमिति विग्रहः । अत्र इच्छामात्रमर्थः, अन्यथा धनमित्यनेन पौनरुक्त्यं स्यात् । 'सुप आत्मनः क्यच्' । 'अशनायोदन्याधनाया- बुभुक्षापिपासागर्धेषु' इति निपातनादाकारः ॥ ५६ ॥
हिन्दी—महापुरुष हमारे स्वामी अन्य पुरुषोंके घमण्डके साथ धूल भी लेना चाहनेपर विकारको प्राप्त होते हैं (क्रुद्ध हो जाते हैं)। दूसरेसे प्रार्थना करनेपर वे अपने जीवनकी भी इच्छा नहीं करते हैं धनकी तो क्या बात है ? ॥ ५६ ॥
उक्तमर्थं निगमयति— तत्तदीयविशिखातिसर्जनादस्तु वां गुरु यदृच्छयागतम् । राघवप्लवगराजयोरिव प्रेम युक्तमितरेतराश्रयम् ॥ ५७ ॥
मल्लि०—तदिति । तत् तस्मात् तदीयविशिखस्यातिसर्जनात् वां युवयोः । 'षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ' इति वामादेशः । राघवप्लवगराजयोः रामसुग्रीव- योरिव यदृच्छया दैवादागतं गुरु महत् युक्तमनुरूपम् । इतरेतराश्रयमन्योन्यविषयं प्रेम सख्यम् । अस्तु ॥ ५७ ॥
हिन्दी—अतः हमारे स्वामीके बाणको लौटा देनेसे आप दोनोंका रामचन्द्र और सुग्रीवके समान दैवगतिसे आया हुआ योग्य परस्परका प्रेम हो जायगा ॥ ५७ ॥
ननु शरलोभान्मिथ्याभियुज्यस इत्याह— नाभियोक्तुमनृतं त्वमिष्यसे, कस्तपस्विविशिखेषु चादरः ? । सन्ति भूभृति शरा हि नः पदे ये पराक्रमवसूनि वज्रिणः ॥ ५८ ॥
मल्लि०—नेति । त्वमनृतं मिथ्याऽभियोक्तुमभ्याख्यातुम् । ब्रूवोऽर्थग्रहणाद् द्विकर्मकता । 'मिथ्याभियोगोऽभ्याख्यानम्' इत्यमरः । अस्माभिरिति शेषः । नेष्यसे नेष्टोऽसि । कुतः । तपस्वी मुनिः शोच्यश्च 'मुनिशोच्यौ तपस्विनौ' इति शाश्वतः । तस्य, विशिखेषु क आदरः कास्था । न काचिदित्यर्थः । हि यस्मात्, नोऽस्माकं भूभृति शैले परेऽन्येऽपि शराः सन्ति, ये शरा वज्रिणः शक्रस्य पराक्रम- वसूनि पराक्रमधनानि । शौर्यसर्वस्वभूता इत्यर्थः । 'वज्रि' ग्रहणाद्वज्रादप्यतिरिक्ता इति सूच्यते । अत्र शरेषु पराक्रमसाधनेषु पराक्रमरूपेण वस्तु व्यज्यते ॥ ५८ ॥
हिन्दी—आप हमलोगोंसे मिथ्या अभियोग लगानेके लिए नहीं चाहे गये हैं,