किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 578, कुल 707 में से
संदर्भ में पढ़ें| ३२२ | किरातार्जुनीयम् |
|---|
इति शाश्वतः। शरैर्हयाद्यैः सामादिभिरिव भृशमुपचितः प्रवृद्धो बभूव। अत्र शब्दमात्रसाधर्म्यात् प्रकृताप्रकृतश्लेषः। उपमेति केचित् ॥ ५२ ॥
**हिन्दी—**अर्जुन शत्रुओंसे शीघ्रतासे छोड़े जानेसे नहीं जाने जाते हुए, अन्य गूढ प्रयोगसे अदृश्यताको प्राप्त अनर्थका निवारण करते हुए और दूर लक्ष्यको जानेवाले, और परमण्डलको प्रविष्ट, बड़े बाणाग्रवाले, और अधिक लाभवाले बाणोंसे, वा साम आदि उपायोंसे अतिशय समृद्ध हुए ॥ ५२ ॥
दिवः पृथिव्याः ककुभां नु मण्डलात्पतन्ति बिम्बादूत तिग्मतेजसः।
सकृद्विकृष्टादथ कार्मुकान्मुनेः शराः शरीरादिति तेऽभिमेनिरे ॥ ५३ ॥
**मल्लि०—**दिव इति। शरा दिवोऽन्तरिक्षात् पृथिव्या भूगोलाद्वा ककुभां मण्डलान्नु दिशां मण्डलाद्वा, उत तिग्मतेजसोऽर्कस्य बिम्बात् मण्डलाद्वा अथवा सकृद्विकृष्टात् कार्मुकाद्वा, मुनेः शरीराद्वा पतन्तीति ते गणा अभिमेनिरे ज्ञातवन्तः। अन्यथा कथममी विश्वमन्तर्धाय शराः संभाव्यन्त इति भावः। अत्र सर्वतः शरसंपातदर्शनात् संभावनया पृथिव्यादीनामन्यतमस्यापादानत्वोत्प्रेक्षा। सा च प्रतीयमाना व्यञ्जकाप्रयोगात् । 'नु' शब्दादयस्तु संशये ॥ ५३ ॥
**हिन्दी—**बाण आकाशसे, पृथिवीसे, दिशाओंके मण्डलसे, अथवा सूर्यमण्डलसे वा एकबार खींचे गये धनुसे अथवा मुनि (अर्जुन) के शरीरसे गिर रहे हैं ऐसा किरात सेना सोचने लगी ॥ ५३ ॥
गणाधिपानामविधाय निर्गतैः परासुतां मर्मविदारणैरपि ।
जयादतीये हिमवानधोमुखैः कृतापराधैरिव तस्य पत्रिभिः ॥ ५४ ॥
**मल्लि०—**गणेति। मर्मविदारणैरपि। मर्मस्थानान्येव विदारयद्भिरपीत्यर्थः। गणाधिपानां परासुतां मरणम् अविधायाकृत्वा निर्गतैः। तेषाममर्त्यत्वादिति भावः। तस्य मुनेः पत्रिभिः शरैः कृतापराधैरिव स्वामिकार्याकरणात् सापराधैरिवेत्युत्प्रेक्षा। अधोमुखैः सद्भिः जवाद्धिमवानतीयेऽतिक्रमे। तत्र प्रविष्टमित्यर्थः। लज्जितस्य क्वचिन्निलयनमुचितमिति भावः ॥ ५४ ॥
**हिन्दी—**मर्मस्थानोंको ही विदीर्ण करते हुए भी प्रमथोंको मारे बिना निकले हुए तपस्वी अर्जुनके बाण अपराध किये हुएके समान अधोमुख होकर वेगपूर्वक हिमालय पर्वतको पार कर गये ॥ ५४ ॥