किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 583, कुल 707 में से
संदर्भ में पढ़ेंचतुर्दशः सर्गः [३२७]
• 'स्त्रिया तु संहतिर्वृन्दम्' इत्यमरः। तामिस्तापिताः पीडिता मूर्तयो देहा येषां तैस्तथामूर्तैः। शरनिकरकर्तितकलेवरैरित्यर्थः। शिवबलैः प्रमथसैन्यैः कर्तृभिः, रविकरेण ग्लपितैः सूर्यकिरणशोषितैर्वारिभिरुदकैरिव, प्रतिदिशं दिक्षु परिमण्डलता परितश्चक्राकारमण्डलेतेति यावत्। दधेऽधारि प्रतिदिशं मण्डलाकारेण स्थितमित्यर्थः। धाञः कर्मणि लिट्। आतपतप्तं हि नीरं परिभ्रमति तद्वन्मुनिपीडितं सैन्यं बभ्रामेत्यर्थः। द्रुतविलम्बितं छन्दः—'द्रुतविलम्बितमाह नभौ भरौ'। इति लक्षणात् ॥ ६४ ॥
हिन्दी— कपिध्वज अर्जुनसे बाणसमूहसे सन्तप्तमूर्त्तिवाली प्रमथसेनाएं सूर्य-किरणोंसे सुखाये गये जलोंके समान प्रत्येक दिशाओंमें मण्डलाकार हो गई । ६४।
प्रविततशरजालच्छन्नविश्वान्तराले
विधुवति धनुराविर्मण्डलं पाण्डुसूनौ ।
कथमपि जयलक्ष्मीर्भीतभीता विहातुं
विषमनयनसेनापक्षपातं विषेहे ॥ ६५ ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये चतुर्दशः सर्गः।
मल्लि०— प्रविततेति। प्रविततानि विस्तीर्णानि यानि शरजालानि तैः छन्नमाच्छादितं विश्वान्तरालं येन तस्मिञ्छरसमूहपूरितब्रह्माण्डोदरे पाण्डुसूनौ अत एव आविर्मण्डलमाविर्भूतमण्डलं धनुः। आविर्भूतं मण्डलं यस्य धनुष इति वृत्तौ भूतार्थस्यानुप्रवेशात् 'भूत' शब्दस्याप्रयोगः। विधुवति कम्पयत्यास्फालयति सति भीतभीतेव भीतप्रकारेव जयलक्ष्मीर्विजयश्रीः कथमपि केनचित्प्रकारेण। महता कष्टेन वा। विषमनयनसेनापक्षपातं शिवसैन्यानुरागं विहातुं त्यक्तुं विषेहे। शशाकेत्यर्थः। मालिनीवृत्तम्। लक्षणं तूक्तम् ॥ ६५ ॥
इति किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां चतुर्दशः सर्गः समाप्तः ।
हिन्दी— विस्तृत बाणसमूहोंसे विश्वके अन्तरालको आच्छादित करनेवाले अर्जुनके मण्डलाकार किये गये धनुको कम्पित करनेपर डरी हुई-सी विजयलक्ष्मी किसी प्रकार अथवा बड़े कष्टसे शिवसेनाके अनुरागको छोड़नेको समर्थ हुई ॥ ६५॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये चतुर्दशः सर्गः।