किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 597, कुल 707 में से
संदर्भ में पढ़ेंपञ्चदशः सर्गः ३४१
गिराये गये सारथियोंवाले, वायुसे पूर्ण तरकशोंसे शब्द करते हुए ताडित घुड़-सवारोंवाले ( युद्धमें ) ॥ २६ ॥
ससत्त्वरतिदेनित्यं
सदरामर्षनाशिनि ।
त्वराधिककसंनादे
रमकत्वमकर्षति ॥ २७ ॥
मल्लि० — ससत्त्वेति । ससत्त्वानां सत्त्ववतां रतिदे = रागप्रदे नित्यं सदराणां सभयानाममर्षनाशिनि = क्रोधहारिणि, त्वरयोत्साहेन अधिकं कसन्तो विकसन्तो नादा यत्र तस्मिन् । रमयतीति रमकः । रमधातोर्वुल् । तस्याकादेशः तद्भावो रमकत्वम् । रणकर्मण पररञ्जकत्वम् । अकर्षत्यपनुदति । परस्परमुत्साहं रणकर्मणा स्फोरयतीत्यर्थः ॥ २७ ॥
हिन्दी — बलवानोंको हर्ष देनेवाले और नित्य डरनेवालोंके क्रोधको हटानेवाले, उत्साहसे अधिक फैलते हुए शब्दोंसे युक्त, युद्धक्रियासे दूसरोंको प्रसन्न करनेके भावको विस्तार करनेवाले ( युद्धमें ) ।
यह पद्य मर्द्दभ्रमक-नामक चित्रकाव्यका उदाहरण है ॥ २७ ॥
आसुरे लोकवित्रासविधायिनि महाहवे ।
युष्माभिरुन्नतिं नीतं निरस्तमिह पौरुषम् ॥ २८ ॥
मल्लि०—आसुर इति । एवंविधः आसुरेऽसुरसंबन्धिनि लोकवित्रासविधायिनि=लोकभयंकरे महाहवे = महायुद्धे युष्माभिरुन्नतिं वृद्धिं नीतं प्रापितं पौरुषं पुरुषकर्म निरस्तं = नाशितम् । इह सङ्ग्रामे । कुलकम् ॥ २८ ॥
हिन्दी — ( हे सैनिको ! ) लोकको त्रस्त करनेवाले असुरोंके साथ किये गये महायुद्धमें तुमलोगोंसे बढ़ाये गये पुरुषार्थको नष्ट कर दिया ॥ २८ ॥
इति शासति सेनान्यां गच्छतस्ताननेकधा ।
निषिध्य हसता किञ्चित्तस्थे तत्रान्धकारिणा ॥ २९ ॥
( निरोष्ठ्यम् )
मल्लि०—इतीति । इति=इत्थं, सेनान्यां=स्कन्दे शासत्याज्ञापयति । अनेकधा गच्छतः पलायमानांस्तानाणान्निषिध्य=निवार्य, अन्धकारिणा = हरेण किंचिद्धसता तस्थे स्थितम् । भावे लिट् ॥ २९ ॥