किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 598, कुल 707 में से
संदर्भ में पढ़ें| ३४२ | किरातार्जुनीयम् |
|---|
हिन्दी— इस प्रकार सेनापति कात्तिकेयके समझानेपर चारों ओर भागते हुए सैनिकोंको रोककर शिवजी कुछ हँसते हुए खड़े हुए ।
इस पद्यमें ओष्ठ्यस्थानीय वर्ण नहीं है ॥ २९ ॥
मुनीषूदहनात्तप्ताँल्लज्जया निविवृत्सतः ।
शिवः प्रह्लादयामास तान्निषेधहिमाम्बुना ॥ ३० ॥
मल्लि०— मुनीति । मुनेरिषव एव दहनस्तेनाऽऽतप्तान् पीडितांस्तथा लज्जया रणभङ्गाच्छालीनत्वेन निविवृत्सतो निर्वतितुकामान् । ‘वृद्भ्यः स्यसनोः’ इति विकल्पात्परस्मैपदम् । तान् गणान् शिवो निषेधो मा भैष्ट मा पलायतेति निवारकवचनं स एव हिमाम्बु शीतोदकं तेन । प्रह्लादयामास । रूपकालंकारः ॥ ३० ॥
हिन्दी— तपस्वी (अर्जुन) के बाणरूप अग्निसे सन्तप्त और भागनेकी इच्छा करते हुए उन सैनिकोंको शिवजीने निषेधरूप शीतल जलसे आह्लादित कर दिया ॥ ३० ॥
दूनास्तेऽरिवलादूना निरेभा बहु मेनिरे ।
भीताः शितशराभीताः शङ्करं तत्र शङ्करम् ॥ ३१ ॥
मल्लि०— दूना इति । दूनाः = शरतप्ताः 'ल्वादिभ्यः' इति निष्ठानत्वम् । अरिबलात् शत्रुबलात् । ऊना ऊनबलाः । 'पञ्चमी विभक्ते' इति पञ्चमी । निरेभाः निःशब्दाः । कुतः । भीतास्त्रस्ताः । कुतः । यतः शितैस्तीक्ष्णैः शरैरभीता अभिव्याप्ताः । इणः कर्म्मणि क्तः । ते गणास्तत्र रणे शङ्करमभयवचनेन सुखकरं शम्भुं शिवं बहु यथा तथा मेनिरेऽमन्यन्त ॥ ३१ ॥
हिन्दी— अर्जुनके बाणोंसे सन्तप्त, शत्रुके बलसे हीन बलवाले, मौन किये हुए, अर्जुनके तीखे बाणोंसे विद्ध डरे हुए वे गण युद्धमें अभय वचनसे सुख देनेवाले शङ्करको अधिक मानने लगे ॥ ३१ ॥
महेषुजलधौ शत्रोर्वर्तमाना दुरुत्तरे ।
प्राप्य पारमिवेशानमाश्वसास पताकिनी ॥ ३२ ॥
मल्लि०— महेष्विति । दुरुत्तरे = दुस्तरे शत्रोः सम्बन्धिनि महेषुजलधौ महति बाणसागरे वर्तमाना पताकिनी = सेना । ईशानं शिवं पारं परतीरमिव । 'पारावारं परार्वाची' इत्यमरः । प्राप्य, आश्वसास प्राणिति स्म ॥ ३२ ॥