भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 598, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 598
३४२किरातार्जुनीयम्

हिन्दी— इस प्रकार सेनापति कात्तिकेयके समझानेपर चारों ओर भागते हुए सैनिकोंको रोककर शिवजी कुछ हँसते हुए खड़े हुए ।
इस पद्यमें ओष्ठ्यस्थानीय वर्ण नहीं है ॥ २९ ॥

मुनीषूदहनात्तप्ताँल्लज्जया निविवृत्सतः ।
शिवः प्रह्लादयामास तान्निषेधहिमाम्बुना ॥ ३० ॥

मल्लि०मुनीति । मुनेरिषव एव दहनस्तेनाऽऽतप्तान् पीडितांस्तथा लज्जया रणभङ्गाच्छालीनत्वेन निविवृत्सतो निर्वतितुकामान् । ‘वृद्भ्यः स्यसनोः’ इति विकल्पात्परस्मैपदम् । तान् गणान् शिवो निषेधो मा भैष्ट मा पलायतेति निवारकवचनं स एव हिमाम्बु शीतोदकं तेन । प्रह्लादयामास । रूपकालंकारः ॥ ३० ॥
हिन्दी— तपस्वी (अर्जुन) के बाणरूप अग्निसे सन्तप्त और भागनेकी इच्छा करते हुए उन सैनिकोंको शिवजीने निषेधरूप शीतल जलसे आह्लादित कर दिया ॥ ३० ॥

दूनास्तेऽरिवलादूना निरेभा बहु मेनिरे ।
भीताः शितशराभीताः शङ्करं तत्र शङ्करम् ॥ ३१ ॥

मल्लि०दूना इति । दूनाः = शरतप्ताः 'ल्वादिभ्यः' इति निष्ठानत्वम् । अरिबलात् शत्रुबलात् । ऊना ऊनबलाः । 'पञ्चमी विभक्ते' इति पञ्चमी । निरेभाः निःशब्दाः । कुतः । भीतास्त्रस्ताः । कुतः । यतः शितैस्तीक्ष्णैः शरैरभीता अभिव्याप्ताः । इणः कर्म्मणि क्तः । ते गणास्तत्र रणे शङ्करमभयवचनेन सुखकरं शम्भुं शिवं बहु यथा तथा मेनिरेऽमन्यन्त ॥ ३१ ॥
हिन्दी— अर्जुनके बाणोंसे सन्तप्त, शत्रुके बलसे हीन बलवाले, मौन किये हुए, अर्जुनके तीखे बाणोंसे विद्ध डरे हुए वे गण युद्धमें अभय वचनसे सुख देनेवाले शङ्करको अधिक मानने लगे ॥ ३१ ॥

महेषुजलधौ शत्रोर्वर्तमाना दुरुत्तरे ।
प्राप्य पारमिवेशानमाश्वसास पताकिनी ॥ ३२ ॥

मल्लि०महेष्विति । दुरुत्तरे = दुस्तरे शत्रोः सम्बन्धिनि महेषुजलधौ महति बाणसागरे वर्तमाना पताकिनी = सेना । ईशानं शिवं पारं परतीरमिव । 'पारावारं परार्वाची' इत्यमरः । प्राप्य, आश्वसास प्राणिति स्म ॥ ३२ ॥