भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 639, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 639

सप्तदशः सर्गः ३८३

लोपश्च । अर्कस्य पादा रश्मय इव । 'पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः । न व्यथयांबभूवुः ! 'मध्ये स्थितस्यासुमतां समूहमर्कस्य' इति पाठान्तरे मध्ये स्थितस्य हैमनस्यार्कस्य पादाः किरणा असुमतां = प्राणिनां समूहमिवेति न दुःखमुत्पादया-मासुरिति योजना ॥ १२ ॥

हिन्दी—जैसे हेमन्त ऋतुमें सूर्यकी किरणें ऊंचे हिमालयके नितम्बको व्यथित नहीं करतीं हैं उसी तरह अर्जुनसे प्रेरित बाण शिवजीको व्यथित नहीं कर सके ॥

संप्रीयमाणोऽनुबभूव तीव्रं पराक्रमं तस्य पतिर्गणानाम् ।
विषाणभेदं हिमवानसह्यं वप्रानतस्येव सुरद्विपस्य ॥ १३ ॥

मल्लि०—समिति । गणानां पतिः शिवः । तीव्रं तस्यार्जुनस्य पराक्रमं वप्रे = रोधसि बानतस्य = परिणतस्य । तटप्रहारिण इत्यर्थः । सुरद्विपस्यासह्यं विषाण-भेदं = दन्तप्रहारं हिमवानिव संप्रीयमाणः = संहृष्यन् अनुबभूवानुभवति स्म । तस्याक्षोभ्यत्वादनुजिघृक्षुत्वाच्चेति भावः ॥ १३ ॥

हिन्दी—तटमें प्रहार करनेवाले ऐरावत हाथीके असह्य दन्तप्रहारको हिमालय पर्वत तकी तरह प्रमथपति शिवजी प्रसन्न होते हुए अर्जुनके तीव्र परा-क्रमका अनुभव करने लगे ॥ १३ ॥

तस्मै हि भारोद्धरणे समर्थं प्रदास्यता बाहुमिव प्रतापम् ।
चिरं विषेहेऽभिभवस्तदानीं स कारणानामपि कारणेन ॥ १४ ॥

मल्लि०—तस्मै हीति । तस्मै = पार्थाय भारस्य = भूभारस्य उद्धरणे = उद्वहने समर्थं प्रतापं बाहुमिव । अवष्टम्भतयेति शेषः । अन्यथा भारोद्वहनस्य दुष्क-रत्वादिति भावः । 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । प्रदास्यता वितरिष्यता कारणानां ब्रह्मादीनामपि कारणेन जनकेन = देवेन सोऽभिभवोज्जुनोप-रिभवः । तदानीं चिरं विषेहे सोढः । वात्सल्यादिति भावः ॥ १४ ॥

हिन्दी—उन अर्जुनको भूभारके उद्धार करनेमें समर्थ प्रतापको बाहुके समान देते हुए ब्रह्मा आदि कारणों के भी कारण भगवान् शिवजीने अर्जुनके किये गये पराभवका बहुत समयतक सहन किया ॥ १४ ॥

अथ त्रिभिर्भगवदभिप्रायमाविष्कुर्वंश्चतुर्भिः कलापकमाह—

प्रत्याहृतोजाः कृतसत्त्ववेगः पराक्रमं ज्यायसि यस्तनोति ।
तेजांसि भानोरिव निष्पतन्ति यशांसि बोयंञ्चलितानि तस्य ॥ १५ ॥

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित) · पृष्ठ 639, कुल 707 में से · BharatKosha