भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 640, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 640

३८४ किरातार्जुनीयम्

मल्लि०—प्रत्याहृतेति । प्रत्याहृतौजः परेण प्रतिहतबलाः सन्अपि कृतबल-वेगः = धृतोत्साहातिशयः सन् यः पुमान् ज्यायसि स्वस्मादप्यधिके पराक्रमं तनोति तस्य पुंसो भानोरिवैरय तेजांसीव वीर्येण = शौर्येण ज्वलितानि = प्रकाशितानि यशांसि निष्पतन्ति । उद्भवन्तीत्यर्थः । हीनरयाधिकामियोगो यशस्कर इति भावः ॥ १५ ॥

**हिन्दी—**शत्रुसे खींचा गया बलवाला होकर भी अतिशय उत्साह करने वाला होकर जो पुरुष अपनेसे जबर्दस्त पुरुषमें पराक्रम करता है उस पुरुषके शौर्यसे प्रकाशित यश सूर्यके तेजके समान प्रकट होते हैं ॥ १५ ॥

ततः किमित्यत आह— दृष्टावदानाद्व्यथतेऽरिलोकः प्रध्वंसमेति व्यथिताच्च तेजः । तेजोविहीनं विजहाति दर्पः शान्तार्चिषं दीपमिव प्रकाशः ॥ १६॥

मल्लि०—दृष्टेति । दृष्टमवदानं महत्कर्म यस्य तस्मात् दृष्टावदानाद् = दृष्टपौरुषात् । अरिलोकः = शत्रुजनो व्यथते = बिभेति । व्यथिताद्भीतात् तेजः प्रध्वंसं नाशम् । एति । तेजोविहीनं दर्प उत्साहः शान्तार्चिषं निर्वाणज्वालं दीपं प्रकाश इव विजहाति = त्यजति ॥ १६ ॥

**हिन्दी—**पौरुष देखे गये पुरुषसे शत्रु डरता है, डरे हुए पुरुषसे तेज नष्ट होता है; तेजोहीन पुरुषको उत्साह ज्वालाहीन दीपको प्रकाशके समान त्याग कर देता है ॥ १६ ॥

ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः । गन्धेन जेतुः प्रमुखागतस्य प्रतिद्विपस्येव मतङ्गजौघः ॥ १७॥

मल्लि०—तत इति । ततो = दर्पहान्यनन्तरम् । अस्तं क्षयं गतो मदावलेपो=मदगर्वो यस्य सोऽरिलोको गन्धेन मदगन्धेनैव जेतुर्जयंशीलस्य । शीलार्थे तृन्प्रत्ययः । प्रमुखागतस्याभिमुखागतस्य प्रतिद्विपस्यान्यो मतङ्गजौघो मत्तगजसमूह इव जिगीषोर्नायकस्य जय्यतायाः पदवीं प्रयाति = प्राप्नोति । विजिगीषुणा जेतुं शक्यो भवतीत्यर्थः । ‘क्षम्यजय्यो शक्यार्थे’ इति निपातः । अत्र श्लोकद्वये ज्यायसि पराक्रमकरणादीनां पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वकथनात् कारणमालाख्योऽलंकारः । लक्षणं तूक्तम् ॥ १७ ॥