भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 643, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 643

सप्तदशः सर्गः ३८७

देवे। स्वतो निर्विकार इत्यर्थः। विकारः क्रोधरूपः कुतः। न कुतश्चिदित्यर्थः। ननु तस्य निर्विकारस्य कथं बहिराकारभेदः कारणाभावादिति चेन्न चित्र इत्याह— इदं पूर्वोक्तम्। आकारवैषम्यं च भेजे। किन्तु केनापि कारणेन न कुप्यतीत्यर्थः। ननु निर्विकारे कुत आकारभेदस्तत्राह—महता वृत्तिश्चेष्टा दुर्लक्ष्यचिह्ना दुर्ग्रहहेतुका हि॥ २३॥

हिन्दी--अर्जुनके प्रति प्रसन्नचित्त शिवजीको क्रोध नहीं हुआ, परमात्माको क्रोध रूप विकार कैसे होगा ? उन पर केवल आकार वैषम्य लिया क्योंकि महा- पुरुषोंकी चेष्टा का कारण नही जाना जाता है॥ २३॥

वैषम्यमेवाह— विस्फार्यमाणस्य ततो भुजाभ्यां भूतानि भर्त्रा धनुरन्तकस्य। भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं क्रुद्धस्य जिह्वामिव तक्षकस्य॥ २४॥

मल्लि०—विस्फार्यमाणस्येति। ततोऽनन्तरं भूतानि भर्त्रा भूतपतिना। भृञ- स्तृच्प्रत्ययः। अत एव 'न लोके—त्यादिना षष्ठीप्रतिषेधः। भुजाभ्याम्। कर्तृकर- णयोस्तृतीया। विस्फार्यमाणस्याकृष्यमाणस्य धनुरन्तक इव तस्य धनुरन्तकस्य संबन्धिनी स्फुरन्तीं चलन्तीमत एव भिन्ना द्विधेव दृश्यमानाऽऽकृतिर्यस्यास्तां ज्यां धनुर्गुणं क्रुद्धस्य तक्षकस्य नागविशेषस्य जिह्वामिव। ददृशुः द्विधाभावाद्भयंकरत्वा च्चेति भावः॥ २४॥

हिन्दी—तब प्राणियोंको धारण और पोषण करनेवाले शिवजीने भुजाओंसे आकृष्ट किये जाते हुए यमराजके समान धनुसे चलती हुई अत एव भिन्न आकृति- वाली प्रत्यञ्चाको क्रुद्ध तक्षक नामक नागकी जीभके समान लोगोंने देख लिया॥ २४॥

सव्यापसव्यध्वनितोग्रचापं पार्थः किराताधिपमाशशङ्के। पर्यायसंपादितकर्णतालं यन्ता गजं व्यालमिवापराधः॥ २५॥

मल्लि०—सव्येति। पार्थः सव्यापसव्याभ्यां वामदक्षिणगतिभ्यां ध्वनितं नादितमुग्रचापं येन तं किराताधिपम्। अपराधः प्रमत्तो यन्ता पर्यायेणायोपगयेन संपादितः कर्णयोस्ताल आस्फालनं येन तं व्यालं दुष्टम्। 'भेद्यलिङ्गः शठे व्यालः' इत्यमरः। गजमिवाशशङ्के। तच्चापचातुर्यदर्शनाद् दुर्जयः कोप्ययमनर्थकरश्चेति शङ्कितवानित्यर्थः॥ २५॥