किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 644, कुल 707 में से
संदर्भ में पढ़ें| ३८८ | किरातार्जुनीयम् |
|---|
हिन्दी— अर्जुनने वाम और दक्षिण गतियोंसे उग्र धनुको ध्वनित करतेवाले शिवजीके प्रति जैसे-जैसे मत्त फीलवान पारी-पारीसे कर्णतालको संपादित करनेवाले दुष्ट हाथीके प्रति आशङ्का करता है उसी तरह आशङ्का की ॥ २५ ॥
निजघ्निरे तस्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानाम् ।
ऊर्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिरिवाम्बुराशेः ॥ २६ ॥
मल्लि०— निजघ्निर इति। हरेषुजालैस्तस्यार्जुनस्य पतन्ति आगच्छन्ति शिलीमुखानां शराणां वृन्दानि। ऊर्जस्विभिः प्रबलैः। अम्बुराशेर्यादोभिर्जलग्राहैः सिन्धुमुखेन नदीमुखेन आगतानि यादांसीव निजघ्निरे हतानि ॥ २६ ॥
हिन्दी— शिवजीके बाणोंने आते हुए अर्जुनके बाणोंको, समुद्रके जबर्दस्त जल-ग्राहोंसे नदीमुखसे आये हुए जल जन्तुओंकी तरह नष्ट कर दिया ॥ २६ ॥
विभेदमन्तः पदवीनिरोधं विध्वंसनं चाविदितप्रयोगः ।
नेताऽरिलोकेषु करोति यद्यत्तत्तच्चकारास्य शरेषु शंभुः ॥ २७ ॥
मल्लि०— विभेदमिति। अन्तर्विभेदं व्यूहविश्लेषणमुपजापं च पदवीनिरोधं मार्ग एव प्रतिबन्धनम्, अन्यत्र तु—आसारप्रसारप्रतिबन्धं विध्वंसनं खण्डनं दुर्गेलूक-नदाहादिकं चेत्यादि यद्यन्नेता नायको जिगीषुः। अविदितप्रयोगः संवृतमन्त्रत्वा-दविज्ञातोपायप्रयोगः सन् अरिलोकेषु शत्रुकुलेषु करोति तत्तच्छंभुरविदितप्रयोगोऽ-ज्ञातबाणसंधानमोक्षादिकः सन्, अस्यार्जुनस्य शरेषु चकार कृतवान्। कर्तरि लिट्। श्लेषालङ्कारः ॥ २७ ॥
हिन्दी— जैसे सेनापति शत्रुओंमें अविदित उपायका प्रयोग कर व्यूहभेद मार्ग-प्रतिबन्ध और किलेका विध्वंस कर देता हैं उसी तरह शिवजीने बाणोंका सन्धान और प्रयोगको अविदित कर अर्जुनके बाणोंका विध्वंस कर डाला ॥ २७ ॥
सोढावगीतप्रथमायुधस्य क्रोधोज्झितैर्वेगितया पतद्भिः ।
छिन्नैरपि त्रासितवाहिनीकैः पेते कृतार्थैरिव तस्य बाणैः ॥ २८ ॥
मल्लि०— सोढेति। सोढानि परैरवगीतानि गर्हितानि प्रथमायुधानि सर्वो-त्कृष्टबाणा यस्य तस्यार्जुनस्य संबन्धिभिः क्रोधोज्झितैः पूर्वबाणवैफल्यात्कोपेन त्यक्तैः अत एव वेगितया वेगेन पतद्भिर्गतिं कुर्वद्भिः अत एव छिन्नैरपि त्रासिता वाहिनी यैस्तैरत एव कृतार्थैरिव बाणैः पेते। भावे लिट्। वस्तुतस्त्वकृतार्थै-रेवेत्यर्थः ॥ २८ ॥