किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 645, कुल 707 में से
संदर्भ में पढ़ेंसप्तदशः सर्गः ३८९
हिन्दी— शत्रुओंसे निन्दित और उत्कृष्ट बाणोंको सहन करनेवाले अर्जुनके क्रोधसे छोड़े गये अतएव वेगसे गिरते हुए छिन्न होकर भी सेनाओंको त्रस्त कराने-वाले अत एव कृतार्थ-से होकर बाण गिरने लगे ॥ २८ ॥
अलंकृतानामृजुतागुणेन गुरुपदिष्टां गतिमास्थितानाम् । सतामिवापर्वणि मार्गणानां भङ्गः स जिष्णोर्धृतिमन्ममाथ ॥ २९ ॥
मल्लि०— अलमिति । ऋजुताऽवक्राकारत्वमवक्रशीलत्वं च सैव गुणस्तेन अलंकृतानां गुरुभिर्धनुर्विद्यागुरुभिर्धर्मशास्त्रगुरुभिश्च उपदिष्टां दर्शितां गतिं गमनमा-चारं च आस्थितानां प्राप्तानां मार्गणानां शराणां सतां साधूनामिव । अपर्वण्यग्रन्थौ अन्यत्र—अप्रस्तावे । अकाण्ड इत्यर्थः । 'पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे लक्षणान्तरे' इति विश्वः । स ईश्वरकृतो भङ्गश्छेदो व्यसनं च जिष्णोरर्जुनस्य कस्यचिज्जित्त्व-रस्य च । 'जिष्णुः शक्रो धनंजये । जित्वरे' इति विश्वः । धृतिं धैर्यम् । उन्ममाथ । जहारेत्यर्थः । अकाण्डे साधुविपत्तिदर्शनादिव शरभङ्गदर्शनाद्धैर्यभङ्गोऽभूदित्यर्थः ॥
हिन्दी— सरलतारूप गुणसे अलंकृत धनुर्विद्याके गुरुओंसे और धर्मशास्त्रके गुरुओंसे उपदिष्ट आचारका अवलम्बन करनेवाले बाणोंके सज्जनोंके समान अग्रंथि और अनवसरमें शिवजीसे किया गया पराजय और व्यसनने अर्जुनके धैर्यका अपहरण कर लिया ॥ २९ ॥
बाणच्छिदस्ते विशिखाः स्मरारेरवाङ्मुखीभूतफलाः पतन्तः । अखण्डितं पाण्डवसायकेभ्यः कृतस्य सद्यः प्रतिकारमापुः ॥ ३० ॥
मल्लि०— बाणेति । बाणच्छिदः पार्थशरच्छेदिनस्ते स्मरारेर्विशिखा अवाङ्-मुखीभूतफला विमुखाग्रा विफलाश्च सन्तः पतन्तः पाण्डवसायकेभ्यः । क्रियाग्रहणा-च्चतुर्थी । पाण्डवसायकानां कृतस्य फलभङ्गरूपस्य स्वकर्मणः सद्योऽखण्डितं प्रतिकारमापुः । अत्युत्कटं कर्म सद्यो दर्शयतीति भावः ॥ ३० ॥
हिन्दी— अर्जुनके बाणोंको छिन्न करनेवाले शिवजीके उन बाणोंने विमुख नोकवाले और विफल होकर गिरते हुए फलभङ्गरूप अपने कर्मका उसी क्षण अखण्डित प्रतिकार पा लिया ॥ ३० ॥
पुनरर्जुनस्य जयमाह— चित्रोयमानानतिलाघवेन प्रमाथिनस्तानभवमार्गणानाम् । समाकुलाया निचखान दूरं बाणान्ध्वजिन्या हृदयेष्वरातिः ॥ ३१ ॥