भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 646, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 646

३९० | किरातार्जुनीयम्

मल्लि०—चित्रीयमानानिति । अरातिरर्जुनः । अतिलाघवेनातिशीघ्रतया चित्रीयमाणांश्चित्रमाश्चर्यं कुर्वाणान् । 'नमोवरिवश्चित्रङः क्यच्' । लवमार्गणान् प्रमाथिनः खण्डयतः तान् बाणान् ! समाकुलायाः संक्षुभिताया ध्वजिन्याः सेनाया हृदयेषु दूरं गाढं निनयान निखातवान् ॥ ३१ ॥

हिन्दी—शत्रु अर्जुनने अति शीघ्र होनेसे आश्चर्य करानेवाले शिवबाणोंके खण्डित करते हुए उन बाणोंको आकुल शिवसेनाके हृदयोंमें दूरतक गाड़ दिया। ३१।

तस्यातियत्नादतिरिच्यमाने पराक्रमेऽन्योन्यविशेषणेन ।
हन्ता पुरां भूरि पृषत्कवर्षं निरास नैदाव इवाम्बु मेघः ॥ ३२ ॥

मल्लि०—तस्येति । तस्यार्जुनस्य पराक्रमेऽतियत्नाद्धेतोः । अन्योन्यस्य विशेषणेनातिशयकरणेन । अतिरिच्यमान उत्कृष्यमाणे सति पुरां हन्ता त्रिपुरविजयी हरो भूरि प्रभूतं पृषत्कवर्षं बाणवर्षम् । 'पृषत्कबाणविशिखाः' इत्यमरः । निदाघे भवो नैदाघो मेघोऽम्बुवाहोऽम्बु जलमिव निरास मुमोच । अस्यतेर्लिट् । 'निदाघ' ग्रहणं वर्षणस्यातितीव्रत्वद्योतनार्थम् ॥ ३२ ॥

हिन्दी—अर्जुनके पराक्रमके अत्यन्त यत्न होनेसे परस्परमें अतिशयतासे उत्कर्ष किये जानेपर त्रिपुरविजयी शिवजीने प्रचुर बाणवृष्टिको जैसे ग्रीष्म-ऋतुमें होनेवाला मेघ जलकी वृष्टि करता है उसी तरह शरवृष्टि कर दी ॥ ३२ ॥

अनामृशन्तः क्वचिदेव मर्म प्रियेषिणाऽनुप्रहिताः शिवेन ।
सुहृत्प्रयुक्ता इव नर्मवादाः शरा मुनेः प्रीतिकरा बभूवुः ॥ ३३ ॥

मल्लि०—अनामृशन्त इति । प्रियेषिणा प्रियचिकीर्षुणा शिवेनानुप्रहिताः प्रयुक्ता अतएव क्वचिदेव मर्मानामृशन्तोऽस्पृशन्तः शराः सुहृन्मित्रं सोऽपि प्रियेषी तेन प्रयुक्ता उच्चारिता नर्मवादाः प्रियवादा इव मुनेरर्जुनस्य प्रीतिकराः प्रीतिजनका बभूवुः ॥ ३३ ॥

हिन्दी—प्रियकी इच्छा करनेवाले शिवजीसे प्रेरित अत एव कहीं भी मर्मस्थलका स्पर्श न करते हुए बाण प्रिय चाहनेवाले मित्रसे कहे गये परिहास वचनों के समान मुनि (अर्जुन) को प्रीति करनेवाले हुए ॥ ३३ ॥

अस्त्रैः समानामतिरेकिणीं वा पश्यन्निषूणामपि तस्य शक्तिम् ।
विषादवन्ध्यबलः प्रमाथी स्वमाच्छलम्बे बलमिन्दुमौलिः ॥ ३४ ॥