किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 647, कुल 707 में से
संदर्भ में पढ़ेंसप्तदशः सर्गः ३९१
मल्लि०—अस्त्रैरिति । अस्त्रैः स्वायुधैः समानां तुल्याम् । अतिरेकिणीं ततोऽधिकां वा यस्य मुनेः । इषूणामपि शक्तिं पश्यन् विषादेनोत्साहभङ्गेन वक्तव्यानि विन्द्यानि बलानि सैन्यानि तस्य स प्रमाथी शत्रुमर्दन इन्दुमौलिर्महादेवः स्वं बलमात्मीयं महिमानम् । आलम्बे स्वसामर्थ्यमवलम्बितवान् ॥ ३४ ॥
**हिन्दी—**अपने अस्त्रोंके समान वा उससे अधिक उन (मुनि) के वाणोंकी भी शक्तिको देखते हुए उत्साहभङ्गके कारण निन्दनीय सैन्यवाले तथा शत्रुओंका मर्दन करनेवाले शिवजीने अपने सामर्थ्यका अवलम्बन किया ॥ ३४ ॥
ततस्तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य ।
महेषुजालान्यखिलानि जिष्णोरर्कः पयांसीव समाचचाम ॥ ३५ ॥
मल्लि०—तत इति । ततो महिमप्रादुर्भावानन्तरम् देवस्तपोवीर्याभ्यां समुद्धतस्य प्रगल्भस्य समर एवार्णवस्तस्य पारमन्तं यियासोर्जिगमिषोजिष्णोरर्जुनस्य अखिलानि महेषुजालानि समग्रबाणसमूहान् । अर्कः सूर्यः पयांसीव जलानीव समाचचाम संजहार ॥ ३५ ॥
**हिन्दी—**तब शिवजीने तप और वीर्यसे समुद्धत युद्धरूप समुद्रको पार जानेकी इच्छा करनेवाले अर्जुनके समस्त बाणसमूहकी जैसे सूर्य समस्त जलसमूहका शोषण करता है उसी तरह संहार कर डाला ॥ ३५ ॥
रिक्ते सविस्रम्भमथार्जुनस्य निषङ्गवक्त्रे निपपात पाणिः ।
अन्यद्विपापीतजले सतर्षं मातङ्गजस्येव नगाश्मरन्ध्रे ॥ ३६ ॥
मल्लि०—रिक्त इति । अथ बाणान्तर्धानानन्तरम् । अर्जुनस्य पाणिः करः रिक्ते बाणशून्ये निषङ्गवक्त्रे तूणीरमुखेऽन्यद्विपेन गजान्तरेण आपीतजले पीततोये नगस्याचलस्याश्मरन्ध्रे शिलागर्ते । प्रदर इत्यर्थः । सतर्षं सतृष्णं यथा स्यात्तथा मातङ्गजस्य पाणिर्लक्षणया कर इव सविस्रम्भं सन्त्येव बाणा इति सविश्वासं निपपात ॥ ३६ ॥
**हिन्दी—**तब अर्जुनका हाथ रीते (बाणशून्य) तरकशके मुखमें जैसे एक हाथीसे समस्त जलके पीये जानेसे रीते (जलशून्य) पर्वतके शिलागर्तमें तृष्णाके साथ दूसरे हाथीका सूँड़ जाता है उसी तरह पड़ गया ॥ ३६ ॥
च्युते स तस्मिन्निषुधौ शरार्थाद्विध्वस्तार्थसारे सहसेव बन्धौ ।
तत्कालमोघप्रणयः प्रपेदे निर्वाच्यताकाम इवाभिमुख्यम् ॥ ३७ ॥