किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 652, कुल 707 में से
संदर्भ में पढ़ें| ३१६ | किरातार्जुनीयम् |
|---|
भी अपने स्वामी अर्जुनको विपत्तिमें योग्य नीचे मुखवाले होकर चेतनासे संबंध-का विवरण किया ॥ ४७ ॥
स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तम् ।
शस्त्राभिघातैस्तमजस्रमीशस्त्वष्टा विवस्वन्तमिवोलिखलेख ॥ ४८ ॥
**मल्लि०—**स्थितमिति । विशुद्धे निर्मले नभसि सत्त्वे सत्त्वगुणे स्थितं तपोवीर्यमयेन तपोवीर्याभ्यामायतेन धाम्ना तेजसा युक्तं तमर्जुनम् । ईशस्त्वष्टा विश्वकर्मा विवस्वन्तं सूर्यमिवाजस्रं निरन्तरं शस्त्राभिघातैः शस्त्रकर्षणैः उल्लिखेख ततक्ष ॥ ४८ ॥
**हिन्दी—**निर्मल आकाशमें स्थित तपस्या और पराक्रमसे आये हुए तेजसे युक्त सूर्यको जैसे विश्वकर्माने छोल दिया था वैसे ही निर्मल, सत्त्वगुणमें स्थित, तपस्या और पराक्रमसे प्राप्त तेजसे युक्त अर्जुनको शिवजीने शस्त्रोंके प्रहारोंसे छोल डाला ॥ ४८ ॥
संरम्भवेगोञ्झितवेदनेषु गात्रेषु बाधिर्यमुपागतेषु ।
मुनेर्बभूवागणितेषुराशेर्लोहस्तिरस्कार इवात्ममन्युः ॥ ४९ ॥
**मल्लि०—**संरम्भेति । संरम्भवेगेन संभ्रमातिशयेन उज्झितवेदनेषु त्यक्तदुःखेषु गात्रेषु बाधिर्यं स्तैमित्यमुपागतेषु सत्सु न गणिता इषुराशयो येन तस्य अगणितेषु-राशेर्मुनेर्जुनस्य आत्ममन्युः स्वकोपो लोहस्य विकारो लोहः कार्ष्णायसः तिर-स्क्रियते आच्छाद्यतेऽनेनेति तिरस्कारः कञ्चुक इव बभूव । रोषवशान्न किंचित्प्रहार-दुःखमज्ञासीदित्यर्थः । क्रोधैकवर्मणां वीराणां किमन्यैर्लोहभारैरिति भावः ॥ ४९ ॥
**हिन्दी—**अतिशय शीघ्रताके कारण दुःखके अनुभवसे रहित अंगोंके बधिरता और निश्चलताको प्राप्त करनेपर भी बाणसमूहका परवाह न करनेवाले मुनि (अर्जुन) का अपना क्रोध लोहमय कवचके समान हो गया ॥ ४९ ॥
अथ युग्मेनाह—
ततोऽनुपूर्वायतवृत्तबाहुः श्रीमान्क्षरल्लोहितदिग्धदेहः ।
आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्निव पाष्णिघातैः ॥ ५० ॥
**मल्लि०—**तत इति । ततोऽनन्तरम् । अनुपूर्वो पूर्वमनुगतो गोपुच्छाकारो आयतो दीर्घो वृत्तो वर्तुलो च बाहू यस्य स श्रीमान् शोभावान् क्षरल्लोहितदिग्धदेहः स्रवद्रुधिरलिप्तगात्रः । पाष्णिघातैश्चरणतलाघातैः । 'तदग्रन्थी घुटिके गुल्फो स्त्रियां