किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 653, कुल 707 में से
संदर्भ में पढ़ेंसप्तदशः सर्गः। ३९७
पाष्णिंरघस्तयोः' इत्यमरः । 'क्षितिं विधुन्वन् प्रक्रम्ययश्चिव वेगेनास्कन्द्याभिद्रुत्य विमुक्तनादः सोऽर्जुनः ॥ ५० ॥
**हिन्दी—**तब पूर्वालुङ्गत गोपुच्छके आकारवाले दीर्घ और गोल बाहुओंसे युक्त, शोभासम्पन्न, गिरते हुए रुधिरसे लिप्त शरीरवाले और चरणतलोंके आघातोंसे पृथिवीको मानों कम्पित करते हुए वेगसे दौड़कर गर्जन करते हुए ॥ ५० ॥
साम्यं गतेनाशनिना मघोनः शशाङ्कखण्डाकृतिपाण्डुरेण ।
शंभुं विभित्सुर्धनुषा जघान स्तम्बं विषाणेन महानिभेभः ॥ ५१ ॥
**मल्लि०—**साम्यमिति । मघोन इन्द्रस्य अशनिना वज्रेण सह साम्यं गतेन वज्रकल्पेन शशाङ्कस्य खण्डं शकलं तस्येवाकृतिर्यस्य । तद्वदमित्यर्थः पाण्डुरं च । तद्वदेवेति भावः । तेन शशाङ्कखण्डाकृतिपाण्डुरेण वपुषा शंभुं विभित्सुर्भेत्तुमिच्छुः सन् । महानिभो गजो विषाणेन दन्तेन स्तम्बमिव जघान ॥ ५१ ॥
**हिन्दी—**इन्द्रके वज्रकी समानताको प्राप्त, चन्द्रखण्डकी आकृतिवाले (टेढ़े) और सफेद धनुसे शिवजीको भेदन करनेकी इच्छा करते हुए अर्जुनने जैसे विशाल हाथी दाँतसे खम्भेपर प्रहार करता है उसी तरह प्रहार किया ॥ ५१ ॥
रयेण सा संनिदधे पतन्ती भावोद्भवेनात्मनि चापयष्टिः ।
समुद्धता सिन्धुरनेकमार्गा परे स्थितेनौजसि जह्नुनेव ॥ ५२ ॥
**मल्लि०—**रयेणेति । रयेण वेगेन पतन्ती सा चापयष्टिर्भवस्य संसारस्योद्भव उत्पत्तिर्या स्मात्तेन भवोद्भवेन ईश्वरेण पर ओजसि परमे ज्योतिषि स्थितेन जह्नुना राजर्षिणा समुद्धताऽत्युत्कटाऽनेकमार्गा त्रिस्रोताः सिन्धुर्गङ्गेवात्मनि सनिदधे सम्यङ् निहिता । अन्तर्निधायितेत्यर्थः ॥ ५२ ॥
**हिन्दी—**वेगसे पड़ती हुई अर्जुनकी उस धनुयष्टिको शिवजीने अपनी परम-ज्योतिमें स्थित राजर्षि जह्नुने जैसे गङ्गाजीको अपनेमें विलीन किया था उसीतरह अपने आपमें विलीन कर दिया ॥ ५२ ॥
विकार्मुकः कर्मसु शोचनीयः परिच्युतोदार्य इवोपचारः ।
विचिक्षिपे शूलभृता सलीलं स पत्रिभिर्दूरमदूरपातैः ॥ ५३ ॥
**मल्लि०--**विकार्मुक इति । विकार्मुको भग्नचापोऽत एव परिच्युतोदार्यो दानवर्जित उपचारः सत्कार इव कर्मसु रणक्रियासु कृत्येषु च शोचनीयः शोच्योऽपूज्यश्च सत्त्वावष्टम्भेन भिन्नचित्तत्वाच्च सोऽर्जुनः शूलभृता शिवेन सहेलं