किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 654, कुल 707 में से
संदर्भ में पढ़ें| ३९८ | किरातार्जुनीयम् |
|---|
यथा तथाऽदूरपार्श्वेरतिगाढप्रहारैः पत्रिभिः शरैर्दूरमत्यन्तं विक्षिक्षिपे नुन्नः ॥५३॥
हिन्दी—नष्ट धनुवाले अत एव दानसे रहित सत्कार कर्मके समान युद्धकर्ममें और अन्य कर्ममें शोचनीय और अपूज्य अर्जुनको शिवजीने अनायास ही अत्यन्त गाढ प्रहारवाले बाणोंसे दूर फेंक दिया ॥ ५३ ॥
उपौढकल्याणफलोऽभिरक्षन् वीरव्रतं पुण्यरणाश्रमस्थः ।
जपोपवासैरिव संयतात्मा तेपे मुनिस्तैरिषुभिः शिवस्य ॥ ५४ ॥
मल्लि०—उपोढेति । उपोढमासन्नं कल्याणफलमस्त्रलाभरूपं स्वर्गादिकं च यस्य स वीरव्रतमाहवादिनिवृत्तिरूपं तीव्रं तपश्च अभिरक्षन् पालयन् पुण्यो यो रण एवाश्रमस्तत्र तिष्ठतीति पुण्यरणाश्रमस्थः संयतात्मा नियमितचित्तो मुनिरर्जुनः कश्चित्तपस्वी च तैः शिवस्य महादेवस्य । इषुभिः शरैः । जपोपवासैरिव तेपे तप्तः । तपतेः कर्मणि लिट् ॥ ५४ ॥
हिन्दी—अस्त्रलाभरूप कल्याणफल और स्वर्ग आदि जिनका निकट हो था; वीरव्रतरूप तीव्र तपस्याकी रक्षा करते हुए पुण्य युद्धरूपआश्रममें स्थित इन्द्रियको वशमें किये हुए अर्जुन कोई तपस्वीकी तरह शिवजीके बाणोंसे मानों जप-उपवास से संतप्त हुए ॥ ५४ ॥
ततोऽप्रभूमिं व्यवसायसिद्धेः सीमानमन्यैरतिदुस्तरं सः ।
तेजःश्रियामाश्रयमुत्तमासि साक्षादहंकारमिवाललम्बे ॥ ५५ ॥
मल्लि०—तत इति । ततश्चापान्तर्धानान्तरम् । सोऽर्जुनोऽप्रभूमिं विपदि गन्तव्यस्थानम् । शरणमित्यर्थः । अन्यै परैः । अतिदुस्तरं दुरतिक्रमं तेजः श्रियां प्रतापसंपदामाश्रयम् । हेतुमित्यर्थः। उत्तमासिं महाखड्गम् । 'सन्महत्-' इत्यादिना समासः । साक्षादहंकारं सविग्रहमभिमानमिवाललम्भे जग्राह ॥ ५५ ॥
हिन्दी—तब अर्जुनने विपत्तिमें गन्तव्य स्थानके समान शरण देनेमें उपयुक्त, औरोंसे अतिशय दुस्तर प्रतापसम्पत्तियोंके आश्रयरूप विशाल तलवारको प्रत्यक्ष अहङ्कारके समान अवलम्बन किया ॥ ५५ ॥
शरानवद्यन्ननवद्यकर्मा चचार चित्रं प्रविचारमार्गैः ।
हस्तेन निस्त्रिंशभृता स दीप्तः सार्कांशुना वारिधिरूर्मिनेव ॥ ५६ ॥
मल्लि०—शरानिति । अनवद्यकर्माऽगर्हाकर्मा । 'अवद्यपण्य-' इत्यादिना