किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 655, कुल 707 में से
संदर्भ में पढ़ेंसप्तदशः सर्गः। ३९९
निपातः। शरानवद्यन् खण्डयन् वीरो निस्त्रिंशभृता खड्गयुक्तेन हस्तेन सार्कंशुना आर्कंशुसहितेन ऊर्मिणा तरङ्गेण वारिधिरिव दोप्तो दीपितः सोऽर्जुनः प्रनिवार-मार्गैः म्लुङ्गिणां गतिभेदैश्चित्रं यथा तथा चचार ॥ ५६ ॥
**हिन्दी—**अनिन्द्य कर्मवाले शिवजीके कर्मवाले शिवजीके बाणोंको खण्डित करते हुए वीर अर्जुन खड्ग लिये हुये हाथसे सूर्य किरणायुक्त तरङ्गसे समुद्रके समान प्रदीप्त होकर अनेक प्रकारके गति भेदोंसे भिन्नरूपसे विचरण करने लगे ॥ ५६ ॥
यथा निजे वर्त्मनि भाति भाभिश्चायामयश्चाप्सु सहस्ररश्मिः ।
तथा नभस्याशु रणस्थलीपु स्पष्टद्विमूर्तिर्ददृशे स भूतैः ॥ ५७ ॥
**मल्लि०—**यथेति । भामिर्दीप्तिभिरुपलक्षितः । 'स्युः प्रभाद्युतिस्त्वड्भाभाश्छविद्युतिदीप्तयः' इत्यमरः । सहस्ररश्मिरर्को यथा निजे वर्त्मनि नभसि छायामयः प्रतिविम्बरूपः सन्, अप्सु स्पष्टद्विमूर्तिर्भाति तथा सोऽर्जुनो नभसि आकाशे रणस्थलीषु च स्पष्टे द्वे मूर्ती यस्य स स्पष्टद्विमूर्तिः सन् भूतैर्गणैर्ददृशे दृष्टः । यथैकोऽर्को नभस्यप्सु चानेक इव दृश्यते तथा सोऽपि दिवि भुवि चाशुसंचाराद्यौगपद्य भ्रमादेवेकोऽप्यनेक इव गणैर्दृष्ट इत्युत्प्रेक्षा ॥ ५७ ॥
**हिन्दी—**दीप्तियोंसे उपलक्षित जैसे सूर्य अपने मार्ग आकाशमें प्रतिबिम्बरूप होकर जलमें स्पष्ट दो मूर्तियोंसे युक्त होते हैं उसी तरह युद्ध-स्थलमें दो मूर्तियोंसे युक्त अर्जुनको प्रमथगणोंने देखा ॥ ५७ ॥
शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशादपवर्जिताङ्गः ।
ज्वलन्नसिस्तस्य पपात पाणेर्घनस्य वप्रादिव वैद्युतोऽग्निः ॥ ५८ ॥
**मल्लि०—**शिवेति । शिवेन प्रणुन्नः क्षिप्तस्तेन शिलीमुखेन त्सरुप्रदेशात् मुष्टिप्रदेशमवधि कृत्वा । 'त्सरुः खड्गादिमुष्टौ स्यात्' इत्यमरः । अपवर्जिताङ्गो लूनविग्रहोऽसि खड्गः । तस्यार्जुनस्य पाणेः करात् । घनस्य मेघस्य वप्रात्तटात् । वैद्युतसंबन्ध्यग्निरिव ज्वलन् पपात ॥ ५८ ॥
**हिन्दी—**शिवजीसे प्रक्षिप्त उस बाणसे खंगमूंठको लेकर कटे हुए अवयववाला वह खंग अर्जुनके हाथसे मेघतटसे बिजलीकी आगकी तरह चमकता हुआ गिर पड़ा ॥ ५८ ॥