भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 656, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 656
४००किरातार्जुनीयम्

आक्षिप्तचापावरणेपुजालश्छिन्नोत्तमासिः स मृधेष धूतः ।
रिक्तः प्रकाशश्च बभूव भूमेरुत्सादितोद्यान इव प्रदेशः ॥ ५९ ॥

मल्लि०— आक्षिप्तेति । आक्षिप्तान्यपहृतानि चापावरणेपुजालानि धनुर्वर्म-बाणसमूहा यस्य स छिन्नोत्तमासिलूनमहाखङ्गो मृधे रणे । ‘मृधमास्कन्दनं सङ्ख्यम्’ इत्यमरः । अवधूतो निरस्तः सोऽर्जुन उत्सावितमुत्पाटितमुद्यानं यस्य स भूमेः प्रदेशो भूमिभाग इव रिक्तः शून्यः प्रकाशो निःसंबाधश्च । दृश्य इति यावत् । बभूव ॥ ५९ ॥

हिन्दी— अर्जुनके धनु; कवच और बाणसमूह अपहृत होनेसे छिन्न विशाल तलवार छिन्न होनेसे अर्जुन शस्त्र-शून्य होकर उद्यानके काटे जानेपर पृथ्वीके प्रदेशके समान शून्य तथा भीड़से रहित हो गया ॥ ५९ ॥

स खण्डनं प्राप्य परादमर्षवान् भुजाद्वितीयोऽपि विजेतुमिच्छया ।
ससर्ज वृष्टिं परिमुष्णपादपां द्रवेतरेषां पयसामिवाश्मनाद् ॥ ६० ॥

मल्लि०— स इति' । परात् परस्माच्छत्रोः । ‘पूर्वादिभ्यो नवभ्यो वा’ इति विकल्पात्स स्मादादेशः । खण्डनं भङ्गं प्राप्य, अमर्षवान् सोऽर्जु नो भुजद्वितीयो भुजमात्रसहायः सन्नपि विजेतुमिच्छया द्रवेभ्य इतराणि तेषां कठिनानां पयसामिव करकाणामिवेत्यर्थः । अश्मनां संबंधिनों परिमुष्णा भग्ना पादपा सा तां वृष्टि ससर्ज । अश्मभिर्जघानेत्यर्थः ॥ ६० ॥

हिन्दी— शत्रुसे पराजय पाकर क्रुद्ध होकर अर्जुन बाहुमात्रका सहारा लेकर भी जीतनेकी इच्छासे ओलोंको समान पेड़ोंको तोड़नेवाली पत्थरोंकी वृष्टि करने लगे ॥ ६० ॥

नीरन्ध्रं परिगमिते क्षयं पृथक्त्वैर्भूतानामधिपतिना शिलाविताने ।
उच्छ्रायस्थनितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालमिन्द्रसूनुः ॥ ६१ ॥

मल्लि०— नीरन्ध्रमिति । शिलाविताने शिलाजाले भूतानामधिपतिना शिवेन पृथक्त्वैर्गुणैः क्षयं परिगमिते नीते सति । इन्द्रसूनुरर्जुन उच्छ्रायेणोत्सेधेन स्थगित-माच्छादितं नभो दिशामन्तरालं च येन तन्नीरन्ध्रं सान्द्रम् । रोहन्तीति रुहाः । इगुपधलक्षणः कप्रत्ययः । क्षितौ रुहा वृक्षास्तेषां जालं चिक्षेप प्रेरयामास । ‘उच्छ्रायं गमितवति’ इति प्रामादिकः पाठः ॥ ६१ ॥